• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 3, 4, 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 12 Sanskrit छन्दोज्ञानम्

May 30, 2019 by Safia Leave a Comment

Rajasthan Board RBSE Class 12 Sanskrit छन्दोज्ञानम्

पाठ्यपुस्तक के प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः –
प्रश्न 1.
छन्द शास्त्रस्य प्रणेता अस्ति
(क) लगधमुनिः
(ख) पिङ्गलमुनिः
(ग) सायणाचार्यः।
(घ) पाणिनिः
उत्तर:
(ख) पिङ्गलमुनिः

प्रश्न 2.
छन्दः शास्त्रस्य नाम न वर्तते
(क) छन्दोविचितिः
(ख) छन्दोविवृत्तिः
(ग) छन्दोनुशासनम्।
(घ) छन्दाचरणम्
उत्तर:
(घ) छन्दाचरणम्

प्रश्न 3.
संयुक्त वर्णस्य पूर्ववर्ती वर्णः भवति
(क) लघुः
(ख) गुरु:
(ग) यादृच्छिकः
(घ) नियमः नास्ति।
उत्तर:
(ख) गुरु:

प्रश्न 4.
तगणस्य स्वरूपमस्ति-
(क) आदिलघुः
(ख) मध्यगुरु:
(ग) अन्तगुरु:
(घ) अन्तलघुः
उत्तर:
(घ) अन्तलघुः

अतिलघूत्तरात्मकाः प्रश्नाः
प्रश्न 1.
गणः कः कथ्यते?
उत्तर:
वर्णत्रयसमूहात्मको गणः कथ्यते।

प्रश्न 2.
गणाः कति भवन्ति?
उत्तर:
गणाः अष्टौ भवन्ति। ते च सन्ति–यगण-मगण-तगण-गण-जगणभगण-नगण-सगणाः।

प्रश्न 3.
मगणस्य स्वरूपम् लिख्यताम्?
उत्तर:
मगणस्य स्वरूपम्-‘मस्त्रिगुरुः’ अर्थात् मगणे त्रिगुरुवर्णा: (ऽऽऽ) भवन्ति।

प्रश्न 4.
छन्दः शास्त्रे ‘यतिः’ शब्दस्य कः अर्थः अस्ति?
उत्तर:
पद्यपाठे जिह्वाया: इष्टविश्रामस्थानं यति: कथ्यते।

प्रश्न ‘5.
कः गणः त्रिगुरुः भवति?।
उत्तर:
मगणः त्रिगुरुः भवति।

प्रश्न 6.
प्रतिचरणं चत्वारः यगणाः कस्मिन् छन्दसि भवन्ति?
उत्तर:
‘भुजङ्गप्रयातम्’ छन्दसि प्रतिचरणं चत्वारः यगणाः भवन्ति।

प्रश्न 7.
नगणस्य स्वरूपं लिख्यताम्।
उत्तर:
‘त्रिलघुश्च नकारो’ अर्थात् नगणे त्रिलघुवर्णाः भवन्ति।

लघूत्तरात्मकाः प्रश्नाः

प्रश्न 1.
भुजङ्गप्रयातछन्दस: लक्षणं लिख्यताम्।
उत्तर:
लक्षणम् भुजङ्गप्रयातं चतुर्भिर्यकारैः।”

प्रश्न 2.
अधोलिखितोदाहरणेषु निर्धारणं कृत्वा तेषां लक्षणं लिखत
(क) ‘वसन्ततिलका तभजा जगौ गः’ इत्यस्यार्थः स्पष्टीक्रियताम्।
(ख) ‘गणसूचक-चक्र स्पष्टीकरणीयम्।
(ग) शिखरिणी छन्दसः उदाहरणं लिख्यताम्।
उत्तर:
(क) यस्य प्रत्येकस्मिन् चरणे तगणः, भगणः, जगणः, पुनः जगणः अन्ते च द्वौ गुरुवर्णो यथाक्रमं भवन्ति, चतुर्दशवर्णात्मकं तद्वृतं वसन्ततिलका कथ्यते।
(ख) गणचक्रम्
RBSE Class 12 Sanskrit छन्दोज्ञानम् 1
RBSE Class 12 Sanskrit छन्दोज्ञानम् 2
(ग) [नोट-पूर्व में दिये गये छन्दों के लक्षण एवं उदाहरणों में से शिखरिणी छन्द का उदाहरण देखकर लिखिए।]

निबन्धात्मकप्रश्नाः
प्रश्न 1.
छन्दोभेदाः निरूप्यताम्? उत्तर:
छन्दोभेदाः
पिङ्गल-छन्दःसूत्रेषु लौकिक-छन्दसः द्विविधत्वं प्रतिपादितम्-
1. वर्णच्छन्दः वृत्तं वा,
2. मात्रिकच्छन्दः जाति: वा।

1. वर्णच्छन्दः (वृत्तम्)
“वृत्तमक्षरसंख्यातम्” यच्छन्दः वर्णगणनया परिमीयते तद् वर्णच्छन्दः वृत्तं वा उच्यते। अस्य अपरनाम वर्णिकछन्दोऽपि। एषु छन्दस्सु प्रतिपादं वर्णानानामेव गणना भवति। ‘वृत्तमंजरी’ इति ग्रन्थे उक्तम् यद् अक्षरैर्गणना यत्र वृत्तमिति कथ्यते’। यथा- इन्द्रवज्रा, वंशस्थ, शिखरिणी इत्यादयः।

2. मात्रिकच्छन्दः (जातिः)
‘जातिर्मात्रा कृता भवेत् यच्छन्दः मात्रागणनया परिमीयते तत् मात्रिकच्छन्दः। अस्यापरं नाम जातिः। एषु छन्दस्सु प्रतिपादं मात्राणां गणना विधीयते, मात्रागणनया च छन्दः-स्वरूपं निश्चीयते। उक्तं हि वृत्तमंजर्याम्-‘मात्राभिर्गणना यत्र सा जातिरभिधीयते”। यथा आर्या।

प्रश्न 2.
शार्दूलविक्रीडित छन्दसः लक्षणं सोदाहरणं निरूपयत?
उत्तर:
[नोट-प्रस्तुत छन्द के लक्षण का सोदाहरण विवेचन पूर्व में किया जा चुका है, वहाँ से देखकर लिखिए।]

अन्य महत्त्वपूर्ण प्रश्नोत्तर

अतिलघूत्तरात्मकप्रश्नाः

प्रश्न 1.
निम्नलिखितपंक्तिषु छन्दसः नामोल्लेखं कुरुत

  1. आपद्गतं च न जहाति ददाति काले।
  2. सा निन्दन्ति स्वानि भाग्यानि बाला।
  3. दीर्घग्रीवः स भवति, खुरास्तस्य चत्वार एव।
  4. षष्ठांशवृत्तेरपि धर्म एषः।
  5. मनो मे संमोहस्थिरमपि हुरत्येष बलवान्।
  6. सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ।
  7. पापान्निवारयति योजयते हिताय।
  8. सत्सङ्गतिः कथयं किं न करोति पुंसाम्।
  9. फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहाम्।
  10. पयः स्थाने स्थाने शिशिर मधुरं पुण्यसरिताम्।
  11. मृदुस्पर्शा शय्या सुललितलता पल्लवमयी।
  12. सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः।
  13. पद्माकरं दिनकरो विकेचीकरोति।
  14. चन्द्रो विकासयति कैरवचक्रवालम्।
  15. नाभ्यर्थितो जलधरोऽपि जलं ददाति।
  16. सन्तः स्वयं परहिते विहिताभियोगाः।
  17. मौनान्मूकः प्रवचनपटुर्वातुलो जल्पको वा।
  18. धृष्टः पाश्र्वे वसति च सदा दूरतश्चाऽप्रगल्भः।
  19. क्षान्त्यो भीरुर्यदि न सहते प्रायशो नाभिजातः।
  20. सेवाधर्मः परमगहनो योगिनामप्यगम्यः।
  21. पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरसाः।
  22. परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
  23. मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे।
  24. कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
  25. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्।
  26. विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः।
  27. विद्या बन्धुजनो विदेशगमने विद्या परा देवता।
  28. विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः।
  29. निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु।
  30. लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम्।
  31. अद्यैव वा मरणमस्तु युगान्तरे वा।
  32. न्यायात्पथः प्रविचलन्ति पदं न धीराः।
  33. करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता।
  34. मुखे सत्या वाणी विजयिभुजयोर्वीर्यमतुलम्।
  35. हृदि स्वच्छा वृत्तिः श्रुतिमधिगतं च श्रवणयोः।
  36. विनाऽप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम्।
  37. स्त्रीसंस्थानं चाप्सरस्तीर्थमारा।
  38. अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः।
  39. क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।
  40. त्वमेकं शरण्यं त्वमेकं वरेण्यम्।
  41. शिरसि मा लिख मा लिख मा लिख।
  42. मम विरहजा न तवं वत्से शुचं गणयिष्यसि।
  43. प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।
  44. स्वभाव एवैष परोपकारिणाम्।
  45. प्रियेषु सौभाग्यफला हि चारुता।
  46. रघुपतिवरदूतं वातजातं नमामि।
  47. निजहृदि विकसन्तः सन्ति सन्तः कियन्तः।

उत्तर:
RBSE Class 12 Sanskrit छन्दोज्ञानम् 3

लघूत्तरात्मकप्रश्नाः

प्रश्न 1.
अन्तगुरूः कः गणः कथ्यते?
उत्तर:
अन्तगुरू: ‘सगणः’ कथ्यते।

प्रश्न 2.
प्रतिचरणं एकविंशतिःवर्णाः कस्मिन् छन्दसि भवन्ति?
उत्तर:
स्रग्धरा छन्दसि।

प्रश्न 3.
त्रिलघुः कः गणः भवति?
उत्तर:
नगणः।

प्रश्न 4.
प्रतिचरणं सप्तदशवर्णाः कस्मिन् छन्दसि भवन्ति?
उत्तर:
शिखरिणी-छन्दसि तथा मन्दाक्रान्ता-छन्दसि।

प्रश्न 5.
कस्मिन् गणे सर्वे वर्णाः लघवः भवन्ति?
उत्तर:
नगणे।

प्रश्न 6.
त्रिवर्णानां समूहः कः कथ्यते?
उत्तर:
वर्णत्रयसमूहात्मको गणः कथ्यते।

प्रश्न 7,
गणाः कति भवन्ति? नामानि लिखत।
उत्तर:
गणाः अष्टौ भवन्ति। ते च सन्ति-यगण-मगण-तगण-गण-जगणभगण-नगण-सगणाः।

प्रश्न 8.
छन्दः शास्त्रे ‘पाद’ शब्दस्य अर्थः कः अस्ति?
उत्तर:
‘ज्ञेयः पादश्चतुर्थोऽश:’-छन्दसः चतुर्थो भागः ‘पाद’ इत्युच्यते।

प्रश्न 9.
कः गणः त्रिगुरुः भवति?
उत्तर:
मगणः त्रिगुरुः भवति।

प्रश्न 10.
छन्दः शास्त्रे ‘यतिः’ शब्दस्य कः अर्थः अस्ति?
उत्तर:
पद्यपाठे जिह्वायाः इष्टविश्रामस्थानं यतिः कथ्यते।

प्रश्न 11.
‘यमाताराजभानसलगाः’ इति सूत्रम् कस्य स्वरूपं परिज्ञातुं वर्तते?
उत्तर:
इति सूत्रं गणस्वरूपं परिज्ञातुं वर्तते।

प्रश्न 12.
कोऽपि एकः शब्दः लिख्यताम् यत्र आदिलघुः वर्णः भवेत्।
उत्तर:
जितेन्द्रः (। ऽ ऽ)

प्रश्न 13.
प्रतिचरणं चत्वारः यगणाः कस्मिन् छन्दसि भवन्ति?
उत्तर:
भुजङ्गप्रयातम्’ छन्दसि प्रतिचरणं चत्वारः यगणाः भवन्ति।

प्रश्न 14.
वर्ण: कः कथ्यते?
उत्तर:
‘वृणोति वाङ्मयमिति वर्ण:’, तदेव क्षरणरहित धर्मत्वात् अक्षरमपि कथ्यते।

प्रश्न 15.
हरिणी छन्दसः लक्षणं लिख्यताम्।
उत्तर:
”नसमरसलागः षड्वेदैर्हरिणी मता।”

प्रश्न 16.
शार्दूलविक्रीडितम् छन्दसि कति वर्णान्ते यतिः वर्तते?
उत्तर:
शार्दूलविक्रीडितम् छन्दसि द्वादशवर्णान्ते सप्तवर्णान्ते च यतिः भवति।

प्रश्न 17.
मन्दाक्रान्ता छन्दसि कति वर्णाः भवन्ति?
उत्तर:
मन्दाक्रान्ता छन्दसि सप्तदशवर्णाः भवन्ति।

प्रश्न 18.
कस्मिन् छन्दसि अन्ते गुरुद्वयं भवेत्?
उत्तर:
वसन्ततिलका छन्दसि अन्ते गुरुद्वयं भवेत्।

प्रश्न 19.
‘वसन्ततिलका तभजा जगौ गः’ इत्यस्यार्थः स्पष्टीक्रियताम्।
उत्तर:
यस्य प्रत्येकस्मिन् चरणे क्रमश: तगणः, भगणः, जगणः, जगणः, गुरुः, गुरुश्च भवन्ति, चतुर्दशवर्णात्मकं तवृत्तं वसन्ततिलकेति कथ्यते।

प्रश्न 20.
शिखरिणी छन्दसि कति वर्णाः भवन्ति?
उत्तर:
शिखरिणी छन्दसि सप्तदशवर्णाः भवन्ति।

प्रश्न 21.
‘मन्दाक्रान्ताम्बुधिरसनगै भनौ तौ गयुग्मम्’ इत्यस्य अर्थः संस्कृते लेखनीयः।
उत्तर:
यस्य छन्दसः प्रतिचरणं क्रमश: मगणः भगणः नगणः द्वौ तगणौ, अन्ते च गुरुद्वयं भवेत्, तच्छन्दः मन्दाक्रान्ता नाम।

अस्मिन् छन्दसि अम्बुधिभिः = चतुर्भिः वर्णैः (चतुर्वर्णान्ते), रसैः = षड्वर्णे: (षड्वर्णान्ते), नगैः = सप्तवर्णैः (सप्तवर्णान्ते) यतिः = विरामो भवति।

प्रश्न 22.
कः गणः आदिगुरुः भवति?
उत्तर:
भगणः।

प्रश्न 23.
‘मध्य-गुरुः’ इति नाम्ना कः गणः ख्यातः?
उत्तर:
जगणः।

प्रश्न 24,
गण-विधायकं सूत्रं लिखत।
उत्तर:
यमाताराजभानसलगाः।

प्रश्न 25.
‘गायत्री’ इति पदे को गणः अस्ति?
उत्तर:
मगणः।

प्रश्न 26.
अधोलिखितपरिभाषासु रिक्तस्थानपूर्तिं कुरुत
(i) उक्ता वसन्ततिलका …………………………………………. जगौ गः।
(ii) रसै रुद्वैश्छिन्ना …………………………………………. शिखरिणी।
(iii) मन्दाक्रान्ताम्बुधिरसनगै …………………………………………. गयुग्मम्।
(iv) सूर्याश्वैर्यदिम …………………………………………. शार्दूलविक्रीडितम्।
(v) स्यादिन्द्रवज्रा यदि ………………………………………….।
उत्तर:
(i) तभजा,
(ii) यमनसभलागः
(iii) भनौ तौ,
(iv) सजौ सततगाः,
(v) तो जगौ गः।

प्रश्न 27.
उपजाति-वृत्तस्य उदाहरणं लेख्यम्।
उत्तर:
येषां न विद्या न तपो न दानं, ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति।

प्रश्न 28.
वंशस्थस्य लक्षणं लेखनीयम्।
उत्तर:
“जतौ तु वंशस्थमुदीरितं जरौ।”

प्रश्न 29.
वंशस्थस्य उदाहरणं दीयताम्।
उत्तर:
भवन्ति नम्रास्तरवः फलोद्गमैः
नवाम्बुभिः दूरविलम्बिनो घनाः।

अनद्धता: सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम्॥

प्रश्न 30.
मालिनीवृत्तस्य लक्षणं लक्षणं लेख्यम्।
उत्तर:
ननमयय-युतेयं मालिनी भोगिलोकैः।

प्रश्न 31.
मालिनीवृत्तस्य उदाहरणं लेख्यम्।
उत्तर:
अतुलितबलधामं स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम्।
सकलगुणनिधानं वानराणामधीशं
रघुपतिवरदूतं वातजातं नमामि॥

प्रश्न 32.
वंशस्थस्य उपेन्द्रवज्रायाश्च मध्ये काः समानताः?
उत्तर:
वंशस्थस्य उपेन्द्रवज्रायाश्च द्वयोरपि प्रतिचरणं प्रारम्भिकचरणत्रयोऽपि (जगण, तगण, जगण) समाना: भवन्ति।

प्रश्न 33.
‘ननमयययुतेयं मालिनी भोगिलोकैः’ इत्यस्यार्थः स्पष्टीक्रियताम्।
उत्तर:
यस्मिन् छन्दसि सर्वेषु पादेषु क्रमशः नगण-नगण-मगण-यगण-यगणाः भवन्ति, तत्र मालिनी नामकं वृत्तं भवति। अत्र प्रतिचरणम् अष्टमे (भोगिभिः) सप्तमे (लोकैः) च अक्षरे यतिः भवति।

प्रश्न 34.
‘हितं मनोहारि च दुर्लभं वचः’ अत्र किं छन्दः? तल्लक्षणमपि अत्रे घटयत।
उत्तर:
RBSE Class 12 Sanskrit छन्दोज्ञानम् 4
अत्र क्रमशः जगणः, तगणः, जगणः, रगणश्च वर्तते तथा च द्वादश वर्णाः सन्तिः, अतः वंशस्थं छन्दः वर्तते। तल्लक्षणं यथा_जतौ तु वंशस्थमुदीरितं जरौ।’

प्रश्न 35.
अधोलिखितेषु छन्दोनिर्णयः कार्यः
(अ) विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय।
खलस्य साधोः विपरीतमेतत्।
ज्ञानाय दानाय च रक्षणाये॥
उत्तर:
(अ) अत्र उपजाति: वृत्तम् अस्ति।

(ब) वयमिह-परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः।
स तु भवति दरिद्रो यस्य तृष्णा विशाला।
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः॥
उत्तर:
(ब) अत्र मालिनी-वृत्तम् अस्ति।

(ब) असंशयं क्षत्र-परिग्रह-क्षमा
यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देह-पदेषु वस्तुषु
प्रमाणमन्तः करणप्रवृत्तयः॥
उत्तर:
(स) अत्र वंशस्थवृत्तम् अस्ति।

(द) हिन्दवः सोदराः सर्वे।
न हिन्दूः पतितो भवेत्॥
मम दीक्षा हि रक्षास्य
मम मन्त्रः समानता॥
उत्तर:
(द) अत्र अनुष्टुप् छन्दः वर्तते।

[ नोट-उपर्युक्त पद्यों में निर्दिष्ट छन्दों के लक्षण को गणचिह्न लगाते हुए। अभ्यास कीजिए।]

निबन्धात्मक-प्रश्नाः
1. छन्दोलक्षणं प्रतिपाद्य छन्दोभेदाः निरूप्यताम्।
2. अनुष्टुप्-छन्दसः लक्षणोदाहरणे विलिख्य, उदाहरणे लक्षणं घटयत्।
3. उपेन्द्रवज्रा-वृत्तस्य लक्षणम् उदाहणं च विलिख्य, उदाहरणस्य प्रत्येकस्मिन् चरणे लक्षणं घटयत।
4. वंशस्थवृत्तस्य मालिनीवृत्तस्य च लक्षणोदाहरणं विलिख्य उदाहरणे लक्षणं घटयत्।
उत्तर:
छन्द : परिचय
छन्द-निश्चित वर्ण या मात्राओं को पाद मानकर रचे गये वाक्य या वाक्यसमूह को छन्द कहा जाता है। वर्तमान में व्यवहार के अन्तर्गत संस्कृत भाषा के छन्द को श्लोक भी कहा जाता है, पूर्व में श्लोक केवल अनुष्टुप् छन्द के लिए प्रयोग होता था। छन्द के अन्तर्गत चार पाद होते हैं।

पाद-‘ज्ञेयः पादश्चतुर्थांशः’ अर्थात् छन्द का चतुर्थ भाग पाद कहा जाता है। इसे चरण भी कहते हैं।

छन्दों के भेद छन्द मुख्य रूप से दो प्रकार के होते हैं–

  1. वर्णिक या वर्णवृत्त
  2. मात्रिक छन्द या जाति।।

1. वर्णवृत्त या वर्णिक छन्द-जिन छन्दों के पाद (चरण) वर्गों की संख्या पर निर्भर करते हैं, वे वर्ण छन्द कहलाते हैं। जैसे-इन्द्रवज्रा, वसन्ततिलका आदि।
2. मात्रिक छन्द-जिन छन्दों के पाद (चरण) मात्राओं की संख्या पर निर्भर रहते हैं, वे मात्रिक छन्द कहलाते हैं।

RBSE Solutions for Class 12 Sanskrit

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Class 11

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • RBSE Class 5 Hindi आकलन-II Question Answer
  • RBSE Class 5 Hindi आकलन-I Question Answer
  • RBSE Class 5 Hindi Chapter 14 Question Answer धरती धोरां री
  • RBSE Class 5 Hindi Chapter 13 Question Answer तनु का पत्र
  • RBSE Class 5 Hindi Chapter 16 Question Answer उत्सर्ग
  • RBSE Class 5 Hindi Chapter 15 Question Answer पाँच तरीके
  • RBSE Class 5 Hindi Chapter 12 Question Answer नन्हा ध्रुवतारा
  • RBSE Class 5 Hindi Chapter 11 Question Answer पिकनिक
  • RBSE Class 5 Hindi Chapter 10 Question Answer दोहे और पद
  • RBSE Class 5 Hindi Chapter 9 Question Answer भारत के महान व्यक्तित्व
  • RBSE Class 6 Science Chapter 10 Question Answer in Hindi सजीव – विशेषताओं का अन्वेषण

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2026 RBSE Solutions

 

Loading Comments...