• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 3, 4, 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम्

June 3, 2019 by Safia Leave a Comment

Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् सङ्केताधारित-वर्णनम्

पाठ्य-पुस्तक के संकेताधारित वर्णन

प्रश्न : प्रदत्त संकेतानुसारं वर्णनं लिखत

1. संकेतपदनि

रेलस्थानकम्, महान् कोलाहलः, भारवाहकाः, रेलयानानि, हरितदीपं, रक्तदीपं, विटिका, पृच्छावातायनम्, जलपानगृहाणि, कार्यालयः, सुन्दरं दृश्यम्।

उत्तर:
एकदा मम विद्यालयस्य के चन छात्राः भ्रमणार्थं रेलयानेन जयपुरनगरम् अगच्छन् वयं सर्वे छात्राः जयपुर-रेलस्थानकात् बहिः अवातरामतत्र महान् कोलाहलः श्रूयते स्म तत्र एकः सुन्दरः कार्यालयः आसीत् अस्माभिः तत्र उपस्थितम् एकम् अधिकारिणम् निवेदित यत् अस्माकं प्रयोगार्थ भारवाहकानां व्यवस्था करोतु येन वयं जलयानं ग्रहीतुं शक्नुमःअनन्तरं वयं एक सुन्दरं दृश्यम्अवलोकयितुं रेलस्थानकात् बहिः गताःतत्र बहवः रेलयानानि आसन् रेलयानं हरितदीपस्य संकेतं प्राप्य चलति, रक्तदीपम् अवलोक्य रेलचालकः रेलयानं वारयति रेलस्थानके यात्रिणां सम्मर्दः आसीत् ते स्व-स्व स्थानं गच्छन्ति स्म वयमपि स्व विद्यालयं निवर्तयामास।

2. संकेतपदानि

(अभ्यासार्थ) महाकविः कालिदासः, श्रेष्ठः कविः, सप्त कृतयः, प्रसिद्धतमं नाटकं, उपमाप्रयोगः, वैदर्भी रीति, महाकाव्यद्वयं, खण्डकाव्यद्वयं, कला पक्षः भावपक्षः, विश्वसाहित्ये स्थानम्।

उत्तर:
महाकविः कालिदासः
अस्मिन् संसारे न कोऽपि देशो प्रान्तो वा विद्यते यत्रत्याः जनाः कालिदास न विंदन्ति भारतीयेषु कविषु, कालिदास एव भूयसी कीर्तिमलभतसर्वेषु कविषु महाकविः कालिदासः श्रेष्ठतमः कविः वर्तते आनन्दवर्धनाचार्यः कालिदास महाकविमाहप्रसन्नराघवस्य कर्ता जयदेवस्तं ‘कविकुलगुरुः कालिदासो विलासः अकथयत् कविकुलगुरुर्महाकविकालिदासः संस्कृत-साहित्यस्य अद्यावधि कनिष्ठिका-धिष्ठितः कविरस्ति।

कालिदासस्य सप्त कृतयः सन्ति तेषु रघुवंश कुमारसंभवञ्चेति द्वे महाकाव्ये, मेघदूत ऋतुसंहारमिति खण्डकाव्यद्वयम् मालविकाग्निमित्रं विक्रमोर्वशीयं अभिज्ञानशाकुन्तलादीनि त्रीणि नाटकानि संस्कृतनाटकेषु ‘अभिज्ञानशाकुन्तलम् तु प्रसिद्धतमं नाटकं वर्तते वैदर्भीरीतिप्रयोगे तथा उपमा क्षेत्रे तु कालिदासः अद्वितीयः कविरस्ति संस्कृतसाहित्ये ‘उपमा कालिदासस्य’ इत्युक्तिः प्रसिद्धा वर्तते कालिदासस्य ग्रन्थेषु कलापक्षः भावपक्षः च वैशिष्ट्यपूर्ण वर्तते विश्वसाहित्ये कालिदासविरचितसाहित्यस्य प्रमुख स्थानं विद्यते।

3. संकेतपदानि

(अभ्यासार्थ) अस्माकं, मातृभूमौ, स्मरिष्यति, अत्र, मधुरतराणि, परमेश्वराः, नानाविधानि, जन्मभूमिश्च

उत्तर:
अस्माकं मातृभूमिः
अस्माकं मातृभूमिः वीराणां विदुषां शूराणां च भूमिः अस्ति अस्माकं मातृभूमौ गंगायमुनाप्रभृतयः देवनद्यः प्रवहन्ति अत्र मधुरतराणि विविधानि फलानि सन्ति अत्रप्राकृतिकसौन्दर्यं सर्वेषां मनांसि मोहयति विविधतायाम एकता अस्याः प्रमुखा विशेषता अस्तिअस्माकं मातृभूमौ अनेके परमेश्वराः अवतरिताःअत्र नानाविधानि रमणीयस्थलानि सन्ति ज्ञानविज्ञाने इयं भूमिः विश्वगुरुः इति कथ्यते वस्तुतः इयं भूमिः शस्यश्यामला, धनधान्यैः पूर्णा वीरप्रसूता चास्तिअस्याः महत्त्वविषये सत्यमेव कथितम्–

”जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।”

अन्यमहत्त्वपूर्ण संकेताधारितम् वर्णनम्

प्रश्नः-प्रदत्तसंकेतानुसारं वर्णनं लिखत

1. संकेतपदानि

सत्सङ्गतिः, मानवः, प्राप्नोति, बुद्धिः, सज्जनैः, सज्जनः, असज्जनैः, असज्जनः, जनैः, सत्सङ्गते:, सुखम्, मनः, पवित्रम्, सर्वे, आदरम्, पूज्यः

उत्तर:
सत्सङ्गते महत्त्वम् सतां सज्जनानां वा सङ्गतिः सत्सङ्गतिः कथ्यते सत्सङ्गते मानवजीवने अतिमहत्त्वं वर्तते सत्सङ्गत्या मानवः सर्वत्र यशः सुखं च प्राप्नोति तस्य बुद्धिः निपुणाः भवति मनः पवित्रं जायते मानवः यादृशैः जनैः सङ्गति करोति सः तादृश एव भवति सज्जनैः सह सङ्गत्या सज्जनः तथा असज्जनैः सह सङ्गत्या असज्जनः जायते सज्जनानां सङ्गत्या मानवः सर्वत्र पूज्यः भवति तथा आदरं विद्याकीर्तिश्च लभते कुसंगत्या मानवस्य पतनं विनाशं च भवति अतः जनैः सर्वदा सत्सङ्गतिः करणीया।

2, संकेतपदानि

संस्कृत भाषा, प्राचीनतमा, शुद्धं, संस्कृतम्, संस्कृतिः संस्कृते, वेदाः भारतस्य, जननी, भाषा, सरला, सङ्गणकस्य, विज्ञानम्, ज्ञानम्, वयं, संस्कृत, संस्कृतेन, कुरु

उत्तर:
संस्कृतभाषायाः महत्त्वम्।
संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा वर्तते इयं भाषा सर्वासां भाषाणां जननी वर्तते संस्कृतभाषायां भारतस्य प्राचीनग्रन्थाः चत्वारो वेदाश्च सन्ति इयं सरला शुद्धा सुसंस्कृतं च भाषा अस्तिअस्माकं सर्वमपि ज्ञानं विज्ञानं च संस्कृते एव निहितमस्ति भारतीयसंस्कृतिः संस्कृतभाषायामेव दृश्यतेसङ्गणकस्य कृते संस्कृतभाषा एवं सर्वोत्तमा वर्तते वयं संस्कृतेनैव भारतीयसंस्कृते स्वरूपस्य ज्ञान प्राप्तुं शक्नुमःइयं भाषा अस्माभिः भारतीयैः रक्षणीया पठनीया संवर्द्धनीया च।।

3. संकेतपदानि

विनयगुणः, प्रधानः, विनयवान्, सर्वेषां, प्रेमास्पदं, विनयरहितः, अनादृतः, विनयी, प्रतिष्ठा, प्राप्नोति, मानवस्य, महद्भूषणम्, विनयवतः कोऽपि शत्रुः न, शान्त्यै, समृद्धये, विनयस्य महती, आवश्यकता

उत्तर:
विनयगुणः सर्वेषु गुणेषु विनयगुणः
प्रधानः वर्तते संसारे विनयवान् जनः सर्वेषां कृते प्रेमास्पदं भवति सर्वे जनाः तस्य आदरं कुर्वन्तिविनयरहितः तु सर्वत्र अनादृतः भवति विनयी एव संसारे प्रतिष्ठा प्राप्नोति वस्तुतः मानवस्य विनयगुणः एव वास्तविकं महभूषणं भवति विनयवतः कोऽपि शत्रुः न भवतिसर्वे जनाः तेन सह मित्रतायुक्तं व्यवहरन्ति मानव-जीवने सुख-शान्त्यै, समृद्धये च विनयस्य महती आवश्यकता वर्तते।

4. संकेतपदानि

प्रात:कालम्, रमणीयं, दृश्यम्, वातावरणं विशुद्धम्, शीतलवायुः, सूर्योदयः, रम्यः, सर्वत्र प्रकाशः, पुष्पाणि विकसन्ति, मधुरं भ्रमरगुञ्जनम्, खगाः गीतं, प्रातः, भ्रमणं, अतीव हितकरं, केचन व्यायाम, क्रीडनं, स्व स्व कार्यं कुर्वन्ति।

उत्तर:
प्रातःकालम्
प्रातःकालम् अतीव रमणीयं भवति प्रात:कालस्य दृश्यं मनोहारी स्वास्थ्यवर्धकञ्च भवति प्रातःकाले वातावरणं नितान्त विशुद्धं शान्तं च भवतिप्रात:काले शीतलवायुः मन्दं मन्दं प्रवहति प्रातः सूर्योदयः भवतिसः कालः अतीव रम्यः भवति यदा सूर्योदयः भवति तदा सर्वत्र प्रकाशः जायते उद्यानेषु विविधानि पुष्पाणि विकसन्ति तेषु मधुरं भ्रमरगुञ्जनम् अतीव मनोहारि भवति प्रात:काले खगाः गीतं गायन्ति प्रातः उद्यानेषु भ्रमणं स्वास्थ्यवर्धकम् अतीव हितकरं च भवति प्रात:काले केचन जनाः व्यायामं, केचन क्रीडनं केचन च स्व स्व कार्यं कुर्वन्ति।

5. संकेतपदानि

भारते उत्सवाः द्विविधाः, राष्ट्रियाः, अगस्तमासस्य, देशः स्वतन्त्रः, देशेउत्सवाः जनवरी मासस्य, राष्ट्रियाः उत्सवाः, संस्कृतज्ञाः संस्कृतोत्सवः, अस्माभिः संस्कृतकार्यक्रमेषु, विदुषां, संस्कृतञ्चैव संस्कृतिः

उत्तर:
राष्ट्रियाः उत्सवा
भारते उत्सवाः द्विविधाः भवन्ति-राष्ट्रियाः लौक़िकाश्च राष्ट्रियोत्सवेषु स्वतन्त्रता-दिवसः, गणतन्त्रदिवसश्च प्रमुखः वर्तते 1947 तमे वर्षे अगस्तमासस्य पञ्चदशदिनाङ्के अस्माकं देशः स्वतन्त्रः संजातःअस्मिन् दिने प्रतिवर्ष स्वतन्त्रता-दिवसस्य उत्सवः सम्पूर्णभारतदेशे आयोज्यते एवमेव जनवरी-मासस्य षड्वंशतिः दिनाङ्के गणतन्त्रदिवसस्य उत्सवः भवति अन्येऽपि अनेके राष्ट्रियः उत्सवाः सन्तिरक्षा-बन्धनदिवसे संस्कृतज्ञाः संस्कृतोत्सवस्य आयोजनं कुर्वन्तिअस्माभिः संस्कृतकार्यक्रमेषु सोत्साह भागं गृह्यते अस्मिन् दिवसे संस्कृतस्य विदुषां सम्मानमपि भवति वस्तुतः संस्कृतञ्चैव संस्कृतिः वर्तते।

6. संकेतपदानि

यत् परितः, पर्यावरणम्, साकं मानवजीवनस्य, प्रकृत्याः वर्तमानकाले सुखस्वरूपा, सुखशान्तियुता अस्ति, वृक्षलतागुल्मवायुजलजीवाः, दुर्लभाः विलुप्यन्ते, अस्माभिः, विषपानं, ऊष्मा, आप्नोति, दु:खमयं सञ्जातम्, पर्यावरणस्य, भूयः भूयः, पर्यावरणदिवसः, प्रवर्धमाना मानवसभ्यतायाः, वर्तते।

उत्तर:
पर्यावरण-संरक्षणम्
अस्मान् यत् परितः आवृणोति तत् पर्यावरणं कथ्यतेपर्यावरणेन साकं मानवजीवनस्य घनिष्ट सम्बन्धं वर्ततेप्रकृत्याः शुद्धता एव वर्तमानकाले सुखस्वरूपा भवितुं शक्नोति अद्य प्रदूषणेन प्रकृतिः न कुत्रापि सुखशान्तियुता अस्तिवृक्षलतागुल्मवायुजलजीवाः सर्वेऽपि पर्यावरणसर्जकाः सन्ति वनेषु अनेके जीवाः दुर्लभाः विलुप्यन्ते वायुप्रदूषणेन अस्माभिः प्रतिक्षणं विषपानं क्रियते वाहनैः ऊष्मा वृद्धिम् आप्नोति सकलं मानवजीवनं दु:खमयं सञ्जातम् पर्यावरणस्य संरक्षणार्थं भूयः भूयः पर्यावरणदिवसः आयोज्यतेप्रवर्धमानायाः मानवसभ्यतायाः संरक्षणार्थं पर्यावरणसंरक्षणम् अस्माकं कर्त्तव्यं वर्तते।

7. संकेतपदानि

जगति सत्यस्य आवश्यकता, सत्येनैव, सत्यभाषणेन, अभ्युदयः सत्यमाश्रयति, सफलं भवति, समाजस्य देशस्य, सत्यात् परोधर्मः, पातकं परम्, सत्यपालनार्थमेव, भारतस्य, सत्यमेव जयते।।

उत्तर:
सत्यमेव जयते
जगति सत्यस्य अत्यधिकं आवश्यकता भवतिसत्येनैव संसारस्य स्थितिः वर्तते सत्यभाषणेन मनः पवित्रं भवति जनानां सकलः अभ्युदयः सत्यमाश्रयति सत्येन एव मानवजीवनं सफलं भवति सत्यमेव समाजस्य देशस्य वो आधारः अस्तिन कोऽपि सत्यात् परोधर्मः वर्तते असत्यं पातकं परं मन्यते सत्यपालनार्थमेव राजा दशरथः स्वप्राणान् अत्यजत् भारतस्य विश्वे या प्रतिष्ठा वर्तते सा सत्याधारेणैवास्ति वस्तुतः सत्यमेव जयते नानृतम्।

8. संकेतपदानि

शिक्षाक्षेत्रे संगणकाना, शिक्षणे उपयोगः, परीक्षा-कार्येषु, पुस्तकादिप्रकाशनेऽपि, कम्प्यूटर-माध्यमेन, आदर्श चित्रं सारल्येन, व्यापारक्षेत्रे, वित्तीय-संस्थानां कृते, यत् किंचिद् ज्ञानम्, माध्यमेन विधीयते

उत्तर:
संगणकम् आधुनिकयुगे न केवलं शिक्षाक्षेत्रे अपितु सर्वेषु क्षेत्रेषु संगणकानां बहुमहत्त्वं वर्तते शिक्षणे, परीक्षा-कार्येषु, पुस्तकादिप्रकाशनेऽपि च संगणकयन्त्रस्य अतीव उपयोगः भवतिआंग्लभाषायाम् अस्य कृते कम्प्यूटर इति शब्दः अस्तिकम्प्यूटरमाध्यमेन आदर्शचित्रं सारल्येन निर्मातुं शक्यते व्यापारक्षेत्रे वित्तीयसंस्थानां कृते च संगणकयन्त्रस्य बहूपयोगः दृश्यते अधुना वयं यत् किंचिद् ज्ञानं प्राप्नुमः तत् सर्वमेव संगणकमाध्यमेन विधीयते।

9. संकेतपदानि

मानवजीवनस्य, विज्ञानस्य, आविष्कारेण, प्रभावितः, युवा, युवतिः, यापयितुं न शक्नोति, ग्रामेष्वपि, साधनं, ज्ञानवर्द्धकम्, विविधकार्यक्रमाः, लोकसभायाः, राज्यसभायाः, बौद्धिकविकासाय।।

उत्तर:
दूरदर्शनस्य महत्त्वम्
इदानीम् मानवजीवनस्य प्रत्येकस्मिन् क्षेत्रे विज्ञानस्य प्राधान्यं वर्तते दूरदर्शनाविष्कारेण तु मानवः अति प्रभावितःवर्तमानसमये कोऽपि युवा युवतिर्वा दूरदर्शनं विना जीवनं यापयितुं न शक्नोतिन केवलं नगरेषु अपितु ग्रामेष्वपि अस्य प्रभावः परिलक्ष्यते इदं दूरदर्शनं न केवलं मनोरञ्जनस्य साधनं अपितु ज्ञानवर्द्धकमपि वर्तते।

दूरदर्शनमधुना जीवनस्य अभिन्नमंगं वर्तते दूरदर्शने प्रात:कालादारभ्य मध्यरात्रिर्यावत् विविधकार्यक्रमाः चलन्तिवर्तमानसमये न केवलं संगीतानि अपितु भजनानि, विविध धारावाहिकाश्च वयं दूरदर्शने पश्यामःलोकसभायाः राज्यसभायाश्च कार्यक्रमाणां प्रसारोऽपि दूरदर्शने वयं पश्यामःएवं युवकयुवतीनां बौद्धिकविकासाय दूरदर्शनस्य महती भूमिका वर्तते अस्य आविष्कारस्य सर्वैः सदुपयोगः करणीयः।

10. संकेतपदानि

सताम् आचारः, सज्जनाः, आचरन्ति, सर्वैः, व्यवहार, विनयः, अक्रोधः, क्षमा, सद्गुणाः, सत्तयैव, उन्नतिं, देशस्य, राष्ट्रस्य, जनस्य, महती आवश्यकता, ब्रह्मचारिणो, शरीरं परिपुष्टं बुद्धिः वर्धते

उत्तर:
सदाचारः
सताम् आचारः सदाचारः इति कथ्यते सज्जनाः यथा आचरन्ति तथैव आचरणं सदाचारो भवतिते सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्तितेषु सत्याचरणं, वाक्संयमः, विनयः, अक्रोधः, क्षमा, धर्माचरणमित्यादयः सद्गुणाः दृश्यन्ते सदाचारस्य सत्तयैव संसारे जनः उन्नतिं करोतिदेशस्य, राष्ट्रस्य, समाजस्य, जनस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति सदाचारेणैव शरीरं परिपुष्टं भवति सदाचारेण बुद्धिः वर्धते।

11. संकेतपदानि

मेवाडराज्यं, शूराणां जन्मभूमिः, राजा, सिंहासनम् आरूढवान्, हस्तच्युतानां, प्रतिप्राप्तिः, विचिन्त्य, पुरप्रमुखाणां सभाम्, प्रतिज्ञां, सुवर्णपात्रे, राजप्रासादे, वासं न करिष्यामि, मृदुतल्पे शयनम्, अवदन्, त्यक्ष्यामः, दास्यामिः, सैन्यं।

उत्तर:
राणाप्रतापः
मेवाडराज्यं बहूनां शूराणां जन्मभूमिःतस्य राजा राणाप्रतापः सिंहासनम् आरूढवान् ‘हस्तच्युतानां भागानां प्रतिप्राप्तिः कथम्’ इति विचिन्त्य सः पुरप्रमुखाणां सभाम् आयोजितवान् तत्र सः प्रतिज्ञां कृतवान्–’चित्तौडस्थानं यावत् न प्रतिप्राप्स्यामि तावत् सुवर्णपात्रे भोजनं न करिष्यामि राजप्रासादे वासं न करिष्यामिमृदुतल्पे शयनम् अपि न करिष्यामि’ इति तदा पुरप्रमुखाः अवदन् ‘वयम् अपि सुखसाधनानि त्यक्ष्यामःदेशाय यथाशक्ति धनं दास्यामिःअस्मत्पुत्रान् सैन्यं प्रति प्रेषयिष्यामः’ इति।।

12, संकेतपदानि

दीपावली, राष्ट्रियोत्सवः, सर्वे जनाः, भेदभावं ति॒िस्मृत्य आनन्दमग्नाः, श्रीरामः वनात्, सीतालक्ष्मणाभ्यां सह, स्वागतं व्याहर्तुम् अयोध्यावासिनः, दीपा प्रज्वालितवन्तः, आरभ्य, कार्तिकमासे अमावस्यां, उत्साहेन, गृहाणि परिष्कुर्वन्ति, उपहारान्, अभिनन्दन्ति, मिष्टान्नं, स्फोटनकानि, शुभेच्छाः।।

उत्तर:
दीपावली-महोत्सवः
दीपावली अस्माकं राष्ट्रियोत्सवः वर्तते अस्मिन् उत्सवे सर्वे जनाः परस्परं भेदभावं विस्मृत्य आनन्दमग्नाः भवन्ति श्रीरामः वनात् अस्मिन् एव दिने सीतालक्ष्मणाभ्यां सह अयोध्या प्रत्यावर्तितवान्तान् स्वागतं व्याहर्तुम् अयोध्यावासिनः नगरे सर्वत्र दीपान् प्रज्वलितवन्तःतदा आरभ्य अद्यावधिः प्रतिवर्ष कार्त्तिकमासे अमावस्यायां तिथौ भारते दीपावली-महोत्सवः महता उत्साहेन आयोजितः भवति।।

दीपावल्यां जनाः गृहाणि परिष्कुर्वन्ति अस्मिन्नवसरे ते स्वमित्रेभ्यः बन्धुभ्यश्च उपहारान् यच्छन्ति, परस्परम् अभिनन्दन्ति च बालकेभ्यः मिष्टान्नं यच्छन्तिपितरः स्वसन्ततिभ्यः स्फोटनकानि ददतिअस्मिन् महोत्सवे सर्वे सर्वेभ्यः सुखाय समृद्धये च शुभेच्छाः प्रकटयन्ति।

13. संकेतपदानि

संसारे एकतायाः, कलियुगे, संहतिः, सामाजिकं राष्ट्रियं च, निर्माणाय रक्षणाय, परमावश्यकम्, अद्यत्वे, अभावः, सद्य एव परतन्त्रतापाशबद्धं, अनया, सहयोगेन, विच्छिन्नं, गान्धिमहोदयेन, देशभक्तैः, छेदनं विहितम्, राष्ट्रं, स्वोन्नतिं विदधाति।

उत्तर:
एकतायाः महत्त्वम्
संसारे एकतायाः अतीवावश्यकता वर्तते विशेषतः कलियुगेऽस्मिन् संहतिः कार्यसाधिकायतो हि वर्तमाने काले यादृशं सामाजिकं राष्ट्रियं च जीवनमस्ति, तस्य निर्माणाय रक्षणाय च संगठनं परमावश्यकम्अद्यत्वे संसारे यस्मिन् राष्ट्रे एकतायाः अभावोऽस्ति, तत् राष्ट्रं सद्य एव परतन्त्रतापाशबद्धं भवति अस्माकं देशस्य पारतन्त्र्यम् अनया एव एकतया सहयोगेन वा विच्छिन्नं जातम्महात्मना गान्धिमहोदयेन तथैवान्यैश्च देशभक्तैः भारतीयसमाजे सर्वत्र एकत्वभावनोदयेन पराधीनतापाशस्य छेदनं विहितम्अधुना लोकतन्त्रात्मकस्माकं राष्ट्रं संघटनबलेलैव स्वोन्नतिं विदधाति।

14. संकेतपदानि

मानव-जीवने, सर्वे जनाः, सुखसमृद्धिं प्राप्नोति, वाञ्छति, अभिलषति, समुन्नतिं कांक्षते, श्रममेव, स्वाभिमानं शारीरिक-शक्तिं, दक्षतां आपादयति, साफल्यं मिलति, कर्तव्यः, सम्पत्तेरुद्भवो, पापभाक्, प्रज्ञाः तुर्येऽपि वयसि, न त्यजेयुः, वसुन्धरा, च उन्नतये

उत्तर:
श्रमस्य महत्त्वम् मानव-जीवने श्रमस्य महत्त्वं सर्वे जनाः जानन्तिमानवः श्रममाश्रित्यैव सुखसमृद्धिं प्राप्नोति जनः सुखं वाञ्छति, मनोरथं पूरयितुमभिलषति, जीवने समुन्नतिं कांक्षते, तत्सर्वस्य साधनं श्रममेव वर्तते श्रम एव मानवस्य स्वाभिमानं शारीरिक-शक्तिं च प्रसारयति, सर्वेषु कार्येषु तस्य दक्षतामापादयति अतएव श्रमेणैव सर्वत्र साफल्यं मिलति।।

जनैः सदा सः श्रमः कर्त्तव्यः यतः सम्पत्तेरुद्भवो भवति, यतोहि व्यर्थ परिश्रमं कुर्वन् नरः पापभाक् भवति प्रज्ञाः तुर्येऽपि वयसि परमं श्रमं न त्यजेयुःयस्मिन् देशे जनाः पूर्णश्रमपरायणाः भवन्ति, तत्र वसुन्धराः धनैर्धान्यैः पूर्णा विराजते अतएव स्वस्य लोक़स्य चोन्नतये सदैव श्रमः कर्त्तव्यः।।

15. संकेतपदानि

पुण्यः, भौगोलिकदृष्ट्या, सांस्कृतिकदृष्ट्या, महत्त्वपूर्ण स्थानं, भारतीयसंस्कृतिः विश्ववन्द्याः, सर्वग्राह्याः, सम्प्रदायानां, देवानाम्, ‘भिन्नत्वे एकत्वम्’, वृहत्स्वरूपात्मकं जनतन्त्रात्मकं राष्ट्र, वन्दनीयः, सुखदा, रत्नाकरत्वं, वृणीते।।

उत्तर:
भारतदेशस्य महत्त्वम्
पुण्योऽस्माकं देशः भारतवर्षःन केवलं भौगोलिकदृष्ट्या अपितु सांस्कृतिकदृष्ट्या अपि अस्य देशस्य महत्त्वपूर्ण स्थानं वर्तते विश्वेऽस्मिन् भारतीयसंस्कृतिः विश्ववन्द्याः सर्वग्राह्याश्च भारतदेशे विभिन्नसम्प्रदायानां विविधभाषाणाम्, अनेकदेवानाम्, भिन्नभिन्नानां दर्शनानां च प्रचारः प्रचलत्येव तथापि भारतीयानां भिन्नत्वे एकत्वमिति’ कथनं सर्वेष्वपि क्षेत्रेषु दृश्यते।

भारतदेशः विश्वस्य सर्वोत्कृष्टं वृहत्स्वरूपात्मकं जनतन्त्रात्मकं राष्ट्रं वर्ततेअत्र देवस्वरूपः हिमालयः मुकुटमणिरिव शोभते भारते मधुरजलयुक्ताः गंगायमुनासरयूकृष्णादयः नद्यः वहन्ति अयं देश: नानातीर्थेः रमणीयः, मुनिजनदेवैः च वन्दनीयोऽस्ति भारतस्य भूमिः अध्यात्ममयी, गौरवपूर्णा, शान्तिवहा, सुखदा, सस्यश्यामला, हिरण्यरूपा, अतिकमनीया चास्ति रत्नाकरोऽपि स्वस्य रत्नाकरत्वं पुनरपि प्राप्तुं भारतभव्यभूमेः चरणौ वृणीते।

16. संकेतपदानि

बौद्धिकविकासाय ज्ञानवर्धनाय, पुस्तकालयानां, संग्रहो, पत्र-पत्रिकाः, रमणीये स्थाने, दशसहस्राणि पुस्तकानि, वाचनालयः, स्वाध्यायं, भवनं विशालं, प्रशंसां, महती भूमिका, आदर्शः।।

उत्तर:
अस्माकं पुस्तकालयः
मानवस्य बौद्धिकविकासाय ज्ञानवर्धनाय च पुस्तकालयानां महत्त्वपूर्ण स्थानं वर्तते पुस्तकालयेषु विविधपुस्तकानां संग्रहो भवतिअत्र विविधभाषाणां पत्रपत्रिकादयोऽपि प्रतिदिनं आयान्तिअस्माकं पुस्तकालयः नगरस्य रमणीय स्थाने वर्तते अस्मिन् दशसहस्राणि पुस्तकानि सन्ति अस्माकं पुस्तकालये हिन्दी-आंग्लसंस्कृतभाषाणां पत्र-पत्रिकाः प्रतिदिनं आयान्तिअस्य समीपे एकः वाचनालयः वर्तते यत्र बहवः जनाः, छात्राः, युवतयश्च प्रतिदिनं आगत्य स्वाध्यायं कुर्वन्ति।

अस्माकं पुस्तकालयस्य भवनं विशालं रमणीयञ्च वर्तते अस्य पुस्तकालयस्य सर्वे जनाः प्रशंसां कुर्वन्ति अस्माकं ज्ञानवर्धनाय अस्य महती भूमिका वर्ततेअयम् एकः आदर्शः पुस्तकालयः विद्यते।

17. संकेतपदानि

भूमिः वीराणां, वीरांगनाम्, जननी, महाराणा प्रतापः, सांगा, दुर्गादास, अत्रैव पमिनी पन्ना, समुत्पन्नाः, देशसेवायां तत्पराः, विदुषां जन्मस्थली कार्यस्थली, विद्वान्सः, जयपुरं, लघुकाशी, विविधखनिजद्रव्याणि, संगमरमर पाषाणस्य, प्रसिद्धिः, ताम्रोत्पादने, प्रमुखः, ताम्रनिधिः।

उत्तर:
राजस्थान-प्रदेशः राजस्थान प्रदेशस्य भूमिः वीराणां वीरांगनानाञ्च जननी वर्तते अत्र महाराणा प्रतापः, महाराणा सांगा-वीरवर दुर्गादास सदृशाः वीराः समुत्पन्नाः अत्रैव पमिनी पन्ना सदृश्यः वीरांगनाः समुत्पन्नाःअद्यापि राजस्थानस्य अनेके वीराः देशसेवायां तत्पराः वर्तन्ते।

अयं प्रदेशः न केवलं वीराणां भूमिः अपितु विदुषां जन्मस्थली कार्यस्थली च वर्तते अत्र अनेके विद्वान्सः काले-काले समुत्पन्नाःराजस्थानस्य राजधानी जयपुर तु लघुकाशी मन्यतेअत्र संस्कृतस्य अनेके विद्वान्सः अभवन् राजस्थानप्रदेशे विविधखनिजद्रव्याणि प्राप्यन्ते अत्रत्य ‘संगमरमर’ इत्याख्यस्य पाषाणस्य तु प्रसिद्धिः सर्वत्र वर्तते ताम्रोत्पादनेऽपि राजस्थानप्रान्तो देशंस्य प्रमुखः ताम्रनिधिरस्ति।

18. संकेतपदानि

देशाटनस्य, गुणाः, नानादेशजलवायुप्रभावेण, स्वास्थ्यलाभो, कलाकौशल, नागरिकाः, पर्यटनप्रियाः, ब्रिटिशशासनकाले, रुचिं नोत्साहयन्ति स्म, प्रेरणां विना, परतन्त्राः, आपद्यते, प्रोत्साहयेयुः, अमरीका, देशेषु, गताः, स्वदेशमागत्य, ज्ञानेन, उन्नमयिष्यन्ति।

उत्तर:
देशाटनस्य महत्त्वम्।
देशाटनस्य बहवो गुणाः भवन्ति नानादेशजलवायुप्रभावेणास्माकं स्वास्थ्यलाभो भवति देशान्तरकला-कौशलज्ञानेन वयं स्वदेशमपि कलाकौशलसम्पन्नं कुर्मः अधिकोन्नतस्य देशस्य नागरिकाः प्रायः पर्यटनप्रियाः भवन्ति ब्रिटिशशासनकाले शासकी भारतीयानां देशाटनरुचिं नोत्साहयन्ति स्मभारतीयाश्च प्रेरणां विना न किमपि कुर्वन्तीति सर्वविदितम् परमधुना न वयं परतन्त्राः, अतः शासकानामेतत् कर्तव्यमापद्यते यत्ते भारतीयानां देशाटनं प्रत्यभिरुचिं प्रोत्साहयेयुःअधुना बहवो भारतीयाश्छात्रा अमरीका-इङ्गलैण्डरूसप्रभृतिदेशेषु विविधकलाकौशलज्ञानार्जनाय गताः सन्ति स्वदेशमागत्य ते स्वोपार्जितज्ञानेन  देशमवश्यमेवोन्नमयिष्यन्तीति जानीमः।

RBSE Solutions for Class 12 Sanskrit

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Class 12

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • Class 7 Hamara Rajasthan Chapter 9 Question Answer in English The Contribution of Rajasthan in the Making of the Constitution
  • Class 7 Hamara Rajasthan Chapter 8 Question Answer in English Social and Educational Reforms in Rajasthan before Independence
  • Class 7 Hamara Rajasthan Chapter 7 Question Answer in English Independence Movement and Rajasthan
  • Class 7 Hamara Rajasthan Chapter 6 Question Answer in English The Prominent Rulers of Rajasthan
  • Class 7 Hamara Rajasthan Chapter 5 Question Answer in English Trade in Rajasthan
  • Class 7 Hamara Rajasthan Chapter 4 Question Answer in English Agricultural Marketing in Rajasthan
  • Class 7 Hamara Rajasthan Chapter 3 Question Answer in English Agriculture and Irrigation
  • Class 7 Hamara Rajasthan Chapter 2 Question Answer in English Minerals and Power Resources
  • Class 7 Hamara Rajasthan Chapter 1 Question Answer in English Forest, Wildlife and its Conservation
  • हमारा राजस्थान कक्षा 7 पाठ 9 के प्रश्न उत्तर संविधान निर्माण में राजस्थान का योगदान
  • हमारा राजस्थान कक्षा 7 पाठ 8 के प्रश्न उत्तर आजादी से पूर्व राजस्थान में सामाजिक-शैक्षणिक सुधार

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2026 RBSE Solutions