• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 3, 4, 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 12 Sanskrit वैदिकसाहित्यम्

May 31, 2019 by Safia Leave a Comment

Rajasthan Board RBSE Class 12 Sanskrit वैदिकसाहित्यम्

पाठ्यपुस्तक के प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः

प्रश्न 1.
वेदाः भागेषु विभक्ताः सन्ति–
(क) एकस्मिन्
(ख) द्वयोः
(ग) त्रिषु।
(घ) चतुषु
उत्तर:
(घ) चतुषु

प्रश्न 2.
धर्ममूलम् उच्यते-
(क) पुराणानि
(ख) भारतम्
(ग) धर्मशास्त्रम्
(घ) वेदः।
उत्तर:
(घ) वेदः।

प्रश्न 3.
चतुषु वेदेषु प्राचीनतमः वेदः अस्ति।
(क) यजुर्वेदः
(ख) सामवेदः
(ग) ऋग्वेदः।
(घ) अथर्ववेदः।
उत्तर:
(ग) ऋग्वेदः।

प्रश्न 4.
‘अपौरुषेयं वाक्यं वेद इति’ प्रोक्तम्-
(क) सायणेन।
(ख) महीधरेण
(ग) कैय्यटेन
(घ) उव्वटेन।
उत्तर:
(क) सायणेन।

प्रश्न 5.
ऋग्वेदः विभक्तः अस्ति
(क) एकधा
(ख) द्विधा
(ग) त्रिधा
(घ) चतुर्धा।
उत्तर:
(ख) द्विधा

प्रश्न 6.
ऋग्वेदः मण्डलेषु विभक्तः अस्ति
(क) एकस्मिन्।
(ख) त्रिषु
(ग) देशसु
(घ) अष्टसु।
उत्तर:
(ग) देशसु

प्रश्न 7.
ऋग्वेदस्य नवमण्डलस्य नाम अस्ति
(क) पवमानमण्डलम्
(ख) सवितृमण्डलम्
(ग) देवमण्डलम्।
(घ) ऋषिमण्डलम्।
उत्तर:
(क) पवमानमण्डलम्

प्रश्न 8.
यज्ञे ऋत्विजः भवन्ति–
(क) एकः
(ख) द्वौ
(ग) त्रयः
(घ) चत्वारः।
उत्तर:
(घ) चत्वारः।

प्रश्न 9.
सामवेदे कति मन्त्राः सन्ति-
(क) 1359
(ख) 1889
(ग) 1589
(घ) 1669
उत्तर:
(ग) 1589

प्रश्न 10.
‘वेदानां सामवेदोऽस्मि’ प्रोक्तम्-
(क) कृष्णेन
(ख) अर्जुनेन
(ग) युधिष्ठिरेण
(घ) व्यासेन।
उत्तर:
(क) कृष्णेन

प्रश्न 11.
वेदान् अपौरुषेयान् मन्यन्ते–
(क) प्राचीनभारतीयविद्वांसः।
(ख) आधुनिकभारतीयविद्वांसः
(ग) बालगंगाधरतिलकः
(घ) पाश्चात्यविद्वांसः।
उत्तर:
(क) प्राचीनभारतीयविद्वांसः।

प्रश्न 12.
मैक्समूलरमते ऋग्वेदस्य रचना जाता
(क) 1500 ई. पू. समीपे
(ख) 1600 ई. पू. समीपे
(ग) 1150 ई. पू. समीपे
(घ) 800 ई. पू. समीपे।
उत्तर:
(ग) 1150 ई. पू. समीपे

प्रश्न 13.
बालगङ्गधरतिलकमते ऋवेदस्य रचनाकालः अस्ति
(क) 6000 वर्षपूर्वम्।
(ख) 5000 वर्षपूर्वम्
(ग) 4000 वर्षपूर्वम्।
(घ) 3000 वर्षपूर्वम्।
उत्तर:
(क) 6000 वर्षपूर्वम्।

प्रश्न 14.
वेदस्य अङ्गानि सन्ति
(क) पञ्च
(ख) घडू
(ग) सप्त।
(घ) अष्ट।
उत्तर:
(ख) घडू

प्रश्न 15.
येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत, तच्छास्त्रस्य नाम अस्ति
(क) शिक्षा
(ख) कल्पः
(ग) छन्दः
(घ) व्याकरणम्।
उत्तर:
(क) शिक्षा

लघूत्तरात्मक प्रश्नाः
प्रश्न 1.
ऋग्वेदस्य परिचयः संक्षेपेज़ लिखत।
उत्तर:
वैदिकसाहित्यस्य समग्रासु रचनासु ऋग्वेदः प्राचीनतमः महत्त्वपूर्णश्च अस्ति। अस्मिन् वेदे प्राचीनस्य भारतीयादर्शस्य, मर्यादायाः, ज्ञानस्य, मानवतायाः च समग्ररूपेण जीवन्तचित्रणं कृतमस्ति। छन्दोबद्धकारणात् इयं संहिता ‘ऋग्वेदसंहिता इति नाम्ना अभिहिता। छन्दोबद्धानां पद्यात्मकानां मन्त्राणां ऋक् ऋचा वा नाम अस्ति। संहिताशब्दस्य अर्थः, ‘संग्रहः’ विद्यते। एवम् ऋचां विशन्दसंग्रहः एव ऋग्वेदः अस्ति।

प्रश्न 2.
वेदानां रचनाकालविषये विदुषां मतं संक्षेपेण लिखत।
उत्तर:
प्राचीनाः भारतीयाः विद्वांसः वेदान् अपौरुषेयान् मन्यन्ते। तेषां मते वेदरचनाकालविचारः सर्वथा निरर्थकः अस्ति। कतिपये पाश्चात्याः विद्वांसः यथाबुद्धिवैभवं वेदरचनाकालं निर्धारयन्ति। तान् विदुषः अनुसृत्य कतिपये भारतीयाः विद्वांसः अपि तेनैव मार्गेण वेदकालं निर्णोतुं प्रयतन्ते।

एतेषु मैक्समूलरमहोदयस्य मतेन बुद्धात् 600 वर्षतः पूर्वम् छन्दोयुगस्य अस्तित्वं समायाति। प्रत्येकयुगविकासे तेन वर्षशतद्वयं काल:कल्पितः। अतः तन्मते ऋग्वेदस्य रचना 1150 ई. पूर्व समयात् पश्चात्कालिकी न सम्भवति।

डॉ. अविनाशचन्द्रमहानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्वानि आधारीकृत्य गणना द्वारा वेदस्य रचनाकालः 25 सहस्रसंवत्सरपूर्वं मन्यते।

शङ्करबालकृष्णमहोदयः शतपथब्राह्मणे वर्णितस्य कृत्तिकानक्षत्रस्य आधारेण वेदानां कालगणना अकरोत्। तन्मतानुसारेण ऋग्वेदः ईसातः 5500 वर्षप्राचीनः निश्चीयते।

बालगंगाधरतिलकमहोदयः मृगशिरानक्षत्रे वसन्तसम्पातस्य साधकानि बहूनि वेदवाक्यानि संगृह्य वेदरचनायाः कालगणना कृतवान्। तन्मते ऋग्वेदस्य रचनाकालः ईसातः 6000 वर्षपूर्वम् निर्णीतः।

जर्मनविद्वान् याकोबीमहोदयः अपि तिलकमहोदस्य मतं पुष्णाति। तेन ऋग्वेदस्य रचनाकाल: 4500 ईशवीतः पूर्वमेव निर्धार्यते।

उपर्युक्तमतानां आलोचनेन कथयितुं शक्यते यत् वेदस्य रचनाकालस्य पूर्वसीमा 4500 ई.पू. वर्षतः आरभ्य 1500 ई. पूर्वं यावत् अन्तिमा स्थितिः अवश्यमेव भवितव्या।

प्रश्न 3.
वेदाङ्गानि कति सन्ति? संक्षेपेण वर्णयत।
उत्तर:
संहिता-ब्राह्मण-आरण्यक-उपनिषद-एभ्यः अतिरिक्त वेदस्य षड् अङ्गानि सन्ति-शिक्षा, कल्पः, निरुक्तम्, व्याकरणम् छन्दः ज्योतिषञ्च। महर्षिणा पाणिनिना स्वशिक्षायाम् एवम् उल्लिखितम्।-

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते।
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्।
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते।

1. शिक्षा
शिक्षा नाम तत् शास्त्रम् येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्यते। वेदे स्वराणां प्राधान्यं सर्वविदितिम् स्वरज्ञानं च शिक्षाया अधीनम्, अत एव इदं शिक्षाशास्त्रं वेदाङ्गम्। सम्प्रति त्रिंशत्सङ्ख्याकाः शिक्षाग्रन्थाः उपलभ्यन्ते। पाणिनीया शिक्षा तु सर्वतोऽधिकं प्रसिद्धा अस्ति।

2. कल्पः
ब्राह्मणकाले यागस्य तावान् प्रचारः जातः यत् तेषां यथावत् ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानां आवश्यकता अनुभूयते स्म। तामेव आवश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणां रचना जाता।

कल्पसूत्राणि द्विविधानि सन्ति-श्रौतसूत्राणि स्मार्त सूत्राणि च। श्रुत्युक्तयागविधिप्रकाशकानि श्रौतसूत्राणि। स्मार्तसूत्राणि अपि द्विविधानि–गृह्यसूत्राणि धर्मसूत्राणि च।

3. निरुक्तम्
निरुच्यते नि:शेषेण उपदिश्यते निर्वचनविधया तत्तत् अर्थबोधनाय पदजातं यत्र तत् निरुक्तम्। यद्यपि व्याकरणेनापि निर्वचनमुखेन पदानाम् अर्थावबोधः सिद्धयति तथापि निरुक्तानुसारेणैव अथ : निर्वक्त व्याः इति मुन्यनुशासनाद् व्याकरणसाध्यकतिपयकार्यविधायित्वाच्च शास्त्रमिदं पृथक् प्रणीतम्।

उपलभ्यमानो निरुक्तग्रन्थो योस्कस्य कृतिः। पाणिनेः प्राचीनोऽयं यास्कः 900 ई. पूर्वकालिकः स्यादिति विदुषामभिप्रायः।

4. व्याकरणम्
भाषा लोकव्यवहारसाधिका भवति। यदि भाषा न स्यात् तर्हि इदं जगत् अन्धे तमसि निमज्जेत्। यथा हि दण्डिना कथितम्

इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम्।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते।

भाषायाः व्युत्पादनाय शुद्धये वा व्याकरणस्य अपेक्षा भवति। व्याकरणज्ञानविरहितः मनुष्यः साधून शब्दान् प्रयोक्तुं समर्थः न भवति। वेदस्य रक्षार्थमपि व्याकरणाध्ययनम् आवश्यकम्। वेदरक्षाक्षमतयैव व्याकरणस्य वेदाङ्गत्वमपि समर्थ्यति। महर्षिणा पतञ्जलिना व्याकरणस्य अध्ययनस्य सर्वाणि प्रयोजनानि महाभाष्ये उक्तानि, यथा— ‘रक्षोहागमलघ्वसन्देहा: प्रयोजनम्।’

5. छन्दः
मन्त्राणां छन्दोबद्धतया छन्दसां ज्ञानं विना वेदमन्त्रा: साधु उच्चारयितुं न शक्याः। शौनकविरचिते ऋक्प्रातिशाख्यस्य चरमे भागे छन्दसां पर्याप्तं विवेचनं प्राप्यते। अस्य छन्दःशास्त्रस्य पिङ्गलच्छन्दःसूत्रनाम्ना ग्रन्थः सर्वाधिक प्रसिद्धः। अयं केनचित् पिङ्गलनामकेन आचार्येण विरचितः। अत्र वैदिकानि लौकिकानि च छन्दांसि विवेचितानि सन्ति।

6. ज्योतिषम्
इदं कालविज्ञापकं शास्त्रम्। मुहूर्त शोधयित्वैव क्रियमाणाः यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते, नान्यथा, तन्मुहूर्तज्ञानञ्च ज्योतिषशास्त्राधीनम्, आर्चज्योतिषेऽपि एवमेव उक्तम्

वेदा हि यज्ञार्थमभिप्रवृताः कालानुपूर्वा विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिष वेद स वेद यज्ञम्।

निबन्धात्मकप्रश्नाः
प्रश्न 1.
यजुर्वेदस्य भेदविषये पौराणिकमतं विवेचयत?
उत्तर:
यजुर्वेदः मुख्यतया द्विधा विभक्त : अस्ति–”कृ ष्णयजुर्वेदः, शुक्लयजुर्वेदश्च। पौराणिकमतानुसारम्-व्यासः वैशम्पायनाय वेदं प्रोवाच, सः स्वशिष्याय याज्ञवल्क्याय प्रोक्तवान्। कस्माच्चिदपि कारणात् रुष्टो वैशम्पायनो याज्ञवल्क्यम् उवाचदेहि मदधीतं वेदमिति। याज्ञवल्क्यः गुरुवचनस्य अनुपालनाय ततः अधीतं वेदस्य सद्यः वमनं कृतवान्। वैशम्पायनस्य अन्ये शिष्याः तित्तिरिरूपं धारयित्वा याज्ञवल्क्येन वान्तं वेदं. गृहीतवन्तः। स एवायं वान्तगृहीतः वेदः कृष्णयजुर्वेदः अस्ति।”

वैशम्पायने कुपिते सति तस्मात् अधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदसम्प्राप्तये सूर्यदेवम् आराधितवान्, सूर्यदेवात् सम्प्राप्तः वेदः शुक्लयजुर्वेदनाम्ना प्रसिद्धः। अनयो: द्वयोः वेदयोः मध्ये महदन्तरं दृश्यते।।

शुक्लयजुवेंदे विनियो गवाक्यरहिता: मन्त्राः सन्ति। कृष्णयजुर्वे दे विनियोगवाक्यात्मका: मन्त्राः सन्ति। शुक्लयजुर्वेदः अमिश्रितरूप: कृष्णयजुर्वेदस्तु मिश्रितरूपः अस्ति।

सोऽयं यजुर्वेदः 40 अध्यायान्, 303 अनुवाकान्, 1975 कण्डिका (मन्त्रान्), 29625 शब्दान्, 88875 अक्षराणि च धारयति (युनक्ति)। अस्य वेदस्य प्रथमेऽध्याये दर्शपौर्णमासौ, द्वितीये पिण्डपितृयज्ञः, तृतीये अग्निहोत्रं चातुर्मासस्येष्टिः, चतुर्थाध्यायात् अष्टमाध्यायपर्यन्तम् अग्निष्टोमविधानं सोमयागः, नवमे वाजपेयः राजसूयश्च दशमे सौत्रामणिः, एकादशाध्यायात् अष्टादशाध्यायपर्यन्तम् अग्निचयनम् उखाभरणम्, चितयः, रुद्रहः, शतरुद्रियम्, वसोर्धारा, राष्ट्रभृत् च। अस्मात् परं चत्वारिंशदध्यायपर्यन्तम् अश्वमेधपुरुषमेधपितृमेधसर्वमेधः सदृशाः विविधाः यागाः वर्णिताः सन्ति। अस्यान्तिमः अध्यायः ईशावास्योपनिषदूपः अस्ति।

शुक्लयजुर्वेदस्य संहिता वाजसनेविसंहिता अपि कथ्यते। अस्याः नामकरणप्रसङ्गे इदं प्रसिद्धं यत् याज्ञवल्क्येन आराधितः सूर्यः वाजी भूत्वा तस्मै वेदस्य उपदेशं कृतवान्, तत्कालादेव इयं संहिता वाजसनेयिसंहिता नाम्ना प्रसिद्धा जाता।

प्रश्न 2.
सामवेदस्य महत्त्वं स्पष्टयत।
उत्तर:
वैदिके वाङ्मये सामवेदस्य अपि स्थानम् अतिमहत्त्वपूर्णमस्ति। भगवता श्रीकृष्णेन, ‘वेदानां सामवेदोऽस्मि’ इति ब्रुवन् अस्य महिमानम् उद्धोषितम्। महर्षिणा शौनकेन अपि उक्तम्-‘सामानि यो वेत्ति स वेदतत्त्वम्। तात्पर्यमिदम् अस्ति यत् यः साम जानाति स एव वेदरहस्यं जानाति। ऋग्वेदे अथर्ववेदे चापि अस्य महत्त्वं प्रतिपादितम् वर्तते। ऋग्वेदः कथयति “यो जागार तमु सामानि यन्ति’, अर्थात् यः जागरणशीलः तस्मै सामस्य प्राप्तिः भवति। अथर्ववेदेऽपि उक्तम्- ‘सामानि यस्य लोमानि’ इति। अस्य तात्पर्यमस्ति यत् सामानि परब्रह्मणः लोमानि सन्ति। एवम् सामगानस्य परम्परा अतिप्राचीना अस्ति। ऋग्वेदकालेऽपि यज्ञानुष्ठाने ऋत्विजः उच्चस्वरैः सामगानं कुर्वन्ति स्म। इदमेव सामगानं संगीतशास्त्रस्य मूलम् अस्ति।

सामवेदस्य गानप्रचुरता प्रसिद्धा। ऋचः एव गीयन्ते। सामवेदे 1548 मन्त्राः सन्ति, तेषु 75 मन्त्राः एवंविधाः ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः ऋग्वेदे अपि सन्ति। सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते। ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रयः एव स्वराः। एतावानेव उभयवेदसाधारणानां साममन्त्राणाम् ऋग्वेदमन्त्रेभ्यः भेदः।

वस्तुत: सामगानस्य प्राणाः स्वराः सन्ति। ‘साम’ इत्युस्य आरम्भः अवसानं च ‘ओम्’ इति शब्देन भवति।

प्रश्न 3.
अथर्ववेदस्य वण्र्यविषयं संक्षेपरूपेण प्रतिपादयत।
उत्तर:
अथर्ववेदस्य वय॑विषयः त्रिषु भागेषु विभक्तः अस्ति-अध्यात्मम्, अधिभूतम् अधिदैवतञ्च। अध्यात्मविभागान्तर्गते ब्रह्मणः, परमात्मनः चतुर्णाम् आश्रमाणाम् च निर्देशः प्राप्यते। अधिभूतान्तर्गते राजा-राज्य-संग्रामादीनां विषयाणां वर्णनम् अस्ति। अधिदैवतविभागे देवता-यज्ञ-काल-सम्बन्धिविषयाणां विवेचनं प्राप्यते।।

अथर्ववेदे रोगनिवारकाः अनेके मन्त्राः सङ्कलिताः ये ‘भैषज्यानि’ कथ्यन्ते। अत्र रुजः (रोगाः) दानवरूपेण कल्पिताः यैः रोगोत्पत्तिः भवति। अत्रैव रुजठः (रोगान्) दूरीकर्तुम्, तेषां प्रवर्तकानां असुराणां विनाशं कर्तुम् च. विविधोपायः वर्णितः अस्ति। कासं दूरीकर्तुम् एकस्मिन् स्थले एवम् प्रार्थना कृतास्ति

यथा सूर्यस्य रश्मयः, परापतन्त्याशुभत्।।
एवा त्वां कासे प्रपत समुद्रस्यानु विक्षरम्।।

अत्र ‘आयुष्यसूक्ते’ स्वास्थ्य-दीर्घायुष्ययोः प्राप्तये अनेके प्रार्थना-मन्त्राः सङ्कलिताः सन्ति। अत्रैव दीर्घायुष्याय ‘जीवेम शरदः शतम्’ इति प्रार्थना अस्ति। अथर्ववेदे कतिपयेषु सूक्तेषु अनिष्टनिवारणाय, पशुरक्षणाय, हल-प्रवहणाय, बीजवपनाय, अन्नवृधयै विविधविषयसम्बन्धिताः प्रार्थना-मन्त्राः सन्ति ये ‘पौष्टिकानि’ कथ्यन्ते।।

‘प्रायश्चित्तम् इत्यस्य अन्तर्गते विभिन्नेषु यज्ञयागादिषु अनुष्ठानेषु विहितानाम् दोषाणां परिमार्जनाय पापमोचनार्थम् प्रायश्चित्तविधानं कृतमस्ति। अपराधमोचनस्य एकः मन्त्रः एवम् अस्ति

यदि जाग्रत यदि स्वप्नेन एनस्योऽकरम्।
भूतं मा तस्माद् भव्यं च दपदादिव मुञ्चताम्।।

अत्र कतिपयेषु मन्त्रेषु तत्कालीन राजनैतिकदशायाः चित्रणम् अपि प्राप्यते। ते मन्त्राः ‘राजकर्माणि’ रूपेण प्रसिद्धाः सन्ति।।

अथर्ववेदे विज्ञानस्य विविधानाम् अङ्गानां विकासः अपि दृश्यते। अस्य विशदपर्यालोचनेन इदं ज्ञायते यत् तत्समये ‘विज्ञानम्’ विकसितावस्थायाम् आसीत्। रोगोत्पादकृमीणां विस्तरेण वर्णनं तान् विनाशयितुम् उपायाः अपि वर्णिताः। अत्र शल्यचिकित्सायाः अपि चर्चा प्राप्यते। एवमेव अभिचार-क्रियायाः प्रधानतयाऽपि आध्यात्मिक उच्चतायाः, राजनैतिकनिपुणतायाः, कृषि-कर्मणः, नीतिशास्त्रस्य स्वास्थ्यविज्ञानस्य च उच्चतमावस्थायाः दर्शनं भवति।।

प्रश्न 4.
वैदिकसाहित्यस्य पूरकसंहिताः आधारीकृत्य संक्षेपेण विवेचन कुरुत।।
उत्तर:ब्राह्मणम्, आरण्यकम्, उपनिषदश्च वैदिकसाहित्यस्य पूरकसंहिताः सन्ति। तेषां संक्षेपेण वर्णनमत्र क्रियते-
(i) ब्राह्मणग्रन्थाः-वेदो द्विविधः मन्त्रभागः ब्राह्मणभागश्च। मन्त्रभागेन सदृशः ब्राह्मणभागः अपि वेदः एव अस्ति। संहितानन्तरम् अस्य द्वितीय स्थानम् अस्ति। ब्राह्मणग्रन्थाः वेदव्याख्यारूपाः सन्ति। वेदशेषभूता इमे ब्राह्मणग्रन्थाः यज्ञानुष्ठानस्य विस्तृतं वर्णनं कुर्वन्ति। कतिचन कथा अपि ब्राह्मणेषु प्राप्यन्ते।।

अत्र यज्ञक्रियायाः रहस्यमयस्य अर्थस्य प्रतिपादनम् अस्ति, अनेकेषु स्थलेषु वैदिकमन्त्राणां दार्शनिकः विचारः दृश्यते। यज्ञक्रियारीते: व्यवधानवर्णनम्, यजमानस्य यज्ञफलप्राप्तेः सम्यक् निरूपणम् च अत्र कृतमस्ति।

प्रत्येकवेदशाखानुसारेण ब्राह्मणानि आरण्यकग्रन्थाश्च भिन्नाः सन्ति

(ii) आरण्यकम्-यस्य साहित्यस्य अध्ययन अध्यापनं च नगरग्रामाभ्यां दूरात् अरण्ये भवति स्म तत् साहित्यम्’ आरण्यकम्’ कथ्यते अरण्येषु निवासिनां वानप्रस्थानाम् यज्ञादेः कर्मविवेचनात्मकाः ग्रन्थाः ‘आरण्यकम्’ कथ्यन्ते। आचार्यसायणमते अरण्येषु अध्यापनकारणादेव एतत् साहित्यम् ‘आरण्यकम्’ इति नाम्ना प्रसिद्धम्।

एतेषु आरण्यकेषु यज्ञानां आध्यात्मिकानां विषयाणां विवेचनं कृतमस्ति एतेषु विशेषरूपेण प्राणविद्यायाः महिमा प्राप्यते ऐतरेये आरण्यके प्राणस्य विभिन्नगुणानां उल्लेखः प्राप्यते-“प्राणेन एव अन्तरिक्षस्य वायोः च स्रष्टा अस्ति। प्राण एव पिता अस्ति।” आरण्यकेषु प्राणः ऋषिरूपेण कल्पितः अस्ति एवम् आरण्यसाहित्यस्य विवेच्यः विषयः ‘प्राणविद्या’ अस्ति यस्याः साधना शान्ते एकान्ते च वातावरणे भवति।।

(iii) उपनिषद्ग्रन्था-वेदानाम् अन्तिमो भागः वेदान्तः वेदान्त एव उपनिषद् कथ्यते उपनिषच्छब्दः उप-नि-उपसर्गद्वयपूर्वस्य क्विप्रत्ययान्तस्य ‘षद्लू’ धातो: योगात् निष्पन्नः भवति।’षद्ल’ धातोः अर्थद्वयम् अस्ति-विशरणं = नाशम्, गतिः = प्राप्तिः, अवसादनं = शिथिलनम् च अस्य अर्थः भवति यत् या विद्या परम्परया गुरोः समीपे उपविश्य प्राप्यते, यथा च यया समस्तानर्थोत्पादिकानां सांसारिकक्रियाणां नाशः भवति, संसारस्य कारणभूताया अविद्यायाः बन्धनं शिथिलं भवति, ब्रह्मसाक्षात्कारः च भवति, सा विद्या उपनिषद् कथ्यते अत्र ब्रह्म-जीव-जगत्सम्बन्धिविषयाणां विशदं विवेचनं प्राप्यते उपनिषत्सु ब्रह्म-जीव-संसार-सम्बन्धिरहस्यमापि प्रतिपादितमस्ति।

मुक्तोनिषदि उपनिषदां संख्या 108 उल्लिखिता। तासु दश उपनिषदः प्रसिद्धाः– ईश-केन-कठ-प्रश्न-मुण्डक-माण्डूक्य-तैत्तिरीय-ऐतरेय-छान्दोग्य-बृहदारण्यकोपनिषदः श्वेता- श्वतरोपनिषदेकादश्यपि प्रसिद्धा अस्ति।

उपनिषदः भारतीयाध्यात्मविद्यायाः ज्वलन्ति रत्नानि महर्षयः यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन् तानि सर्वाणि तत्त्वानि अत्र वर्णितानि सन्ति।

अन्य महत्त्वपूर्ण प्रश्नोत्तर

वस्तुनिष्ठप्रश्नाः
प्रश्न 1.
वैदिकसाहित्यस्य समग्रासु रचनासु प्राचीनतमा रचना अस्ति
(अ) सामवेदः
(ब) ऋग्वेदः
(स) यजुर्वेदः
(द) अथर्ववेदः।,
उत्तर:
(ब) ऋग्वेदः

प्रश्न 2.
यस्य साहित्यस्य अध्ययनम् अध्यापनं च नगरग्रामाभ्यां दूरात्तरं भवति स्म तत् साहित्यं कथ्यते
(अ) ब्राह्मणम्
(ब) आरण्यकम्।
(स) उपनिषदः
(द) वेदान्तः।
उत्तर:
(ब) आरण्यकम्।

प्रश्न 3.
भारतीयानां मते वेदरचनाकालविचारः सर्वथा निरर्थकोऽस्ति यतो हि वेदाः
(अ) अपौरुषेयाः
(ब) काल्पनिकाः
(स) नाशरहिताः
(द) चत्वारः।
उत्तर:
(अ) अपौरुषेयाः

प्रश्न 4.
रोग-निवारकाः मन्त्राः कस्मिन् वेदे संकलिताः?
(अ) ऋग्वेदे
(ब) यजुर्वेदे।
(स) सामवेदे
(द) अथर्ववेदे।
उत्तर:
(द) अथर्ववेदे।

प्रश्न 5.
छन्दोबद्धानां पद्यात्मकानां मन्त्राणां नाम अस्ति
(अ) ऋक्
(ब) यजुः
(स) साम
(द) अथर्व।
उत्तर:
(अ) ऋक्

प्रश्न 6.
पौराणिकमतानुसारं व्यासः वेदं प्रोवाच
(अ) याज्ञवल्क्याय
(ब) कश्यपाय
(स) वैशम्पनाय
(द) वसिष्ठाय
उत्तर:
(स) वैशम्पनाय

प्रश्न 7.
‘सामानि यो वेत्ति स वेदतत्त्वम्’ इति उक्तम्
(अ) सायणेन
(ब) शौनकेन
(स) श्रीकृष्णेन
(द) महीधरेण
उत्तर:
(ब) शौनकेन

प्रश्न 8.
संगीतशास्त्रस्य मूलमस्ति
(अ) अग्निसूक्तम्
(ब) पृथिवीसूक्तम्
(स) नाट्यशास्त्रम्
(द) सामगानम्।
उत्तर:
(द) सामगानम्।

प्रश्न 9.
‘साम’ इत्यस्य आरम्भः अवसानं च भवति–
(अ) ‘ओम्’ शब्देन
(ब) ‘भो:’ शब्देन
(स) ‘हे’ इति शब्देन
(द) ‘आः’ इति शब्देन
उत्तर:
(अ) ‘ओम्’ शब्देन

प्रश्न 10.
वेदव्याख्यारूपाः सन्ति
(अ) उपनिषद्ग्रन्थाः
(ब) आरण्यकग्रन्थाः
(स) ब्राह्मणग्रन्थाः
(द) व्याकरणम्।
उत्तर:
(स) ब्राह्मणग्रन्थाः

प्रश्न 11.
वेदान्त एवं कथ्यते
(अ) आरण्यकम्।
(ब) उपनिषद्
(स) ब्राह्मणम्।
(द) शिक्षा।
उत्तर:
(ब) उपनिषद्

प्रश्न 12.
उपलभ्यमानो निरुक्तग्रन्थोऽस्ति
(अ) याज्ञवल्क्यस्य
(ब) पाराशरस्य
(स) पतञ्जलेः
(द) यास्कस्य।
उत्तर:
(द) यास्कस्य।

प्रश्न 13.
कालविज्ञापकं शास्त्रं वर्तते–
(अ) ज्योतिषम्
(ब) छन्दः
(स) शिक्षा
(द) व्याकरणम्।
उत्तर:
(अ) ज्योतिषम्

लघूत्तरात्मकप्रश्नाः
प्रश्न 1.
वेदान् अपौरुषेयान् के मन्यन्ते?
उत्तर:
सायणादयः सर्वे मनीषिणः वेदान् अपौरुषेयान् मन्यन्ते।

प्रश्न 2.
वेदानां सामवेदोऽस्मि’ इति ब्रुवन् सामवेदस्य महिमा केन उद्घोषिताः?
उत्तर:
इति ब्रुवन् सामवेदस्य महिमा श्रीकृष्णेन उद्घोषितमा।।

प्रश्न 3.
‘छन्दः शास्त्रम्’ ग्रन्थः केन आचार्येण विरचितः?
उत्तर:
‘छन्दः शास्त्रम्’ ग्रन्थः पिङ्गलाचार्येण विरचितः।

प्रश्न 4.
शिक्षा वेदस्य किं अस्ति?
उत्तर:
शिक्षा वेदस्य घ्राणम् अस्ति।

प्रश्न 5.
सूक्तमण्डलभेदेन कः वेदः विभक्तः?
उत्तर:
सूक्तमण्डलभेदेन ऋग्वेदः विभक्तः।

प्रश्न 6.
वेदानां रचनाकालविषये तिलकमहोदयस्य मतं लिखत।
उत्तर:
तिलकमहोदयेन मृगशिरानक्षत्रे वसन्तसम्पातस्य साधकानि बहूनि वेदवाक्यानि संगृहीतानि। मृगशिरायां वसन्तसम्पातस्य कालः कृत्तिकाकालात् प्रायः 2000 वर्षपूर्वं सम्भवति। अस्य गणनाधारेण तिलकमहोदयस्य मते ऋग्वेदस्य रचनाकालः 6000 वर्षपूर्व वर्तते।।

प्रश्न 7.
ऋग्वेदस्य प्रमुखचतसृणां शाखानां नामानि लिखत।
उत्तर:
ऋग्वेदस्य प्रमुखशाखानां नामानि सन्ति-शाकलः, वाष्कलः, आश्वलायनः, सांख्ययनः, माण्डूकायनश्च।

प्रश्न 8.
वेदशब्दस्य का व्युत्पत्तिः किञ्चार्थः?
उत्तर:
ज्ञानार्थक—‘विद्’ धातोः ‘घ’ प्रत्यययोगात् ‘वेद’ शब्दः निष्पद्यते। वेदशब्दस्य अर्थः ज्ञानम् अस्ति। अर्थात् येन धर्मस्य ब्रह्मणः क्रियामयस्य ब्रह्मणः वा ज्ञानं भवति, सः वेदः कथ्यते।।

प्रश्न 9.
महर्षिणा शौनकेन सामविषये किम् उक्तम्?
उत्तर:
महर्षिणा शौनकेन उक्तं यत्- ‘सामानि यो वेत्ति से वेदतत्त्वम्।’ अर्थात् यः साम जानाति स एव वेदरहस्यं जानाति।

प्रश्न 10.
यज्ञे कति ऋत्विजः भवन्ति? तेषां नामानि अपि लिखत।
उत्तर:
यज्ञे चत्वारः ऋत्विजः भवन्ति-

  • होता,
  • अध्वर्युः,
  • उद्गाता,
  • ब्रह्मा च।

प्रश्न 11.
सामविकारः किम् कथ्यते? कतिविधाश्च सामविकाराः?
उत्तर:
सामगाने संगीतानुरूपं यत् शाब्दिकं परिवर्तनं क्रियते तत् ‘सामविकारः कथ्यते। सामविकाराः षविधाः भवन्ति–विकार-विश्लेषण-विकर्षण-अभ्यास-विरामस्तोमरूपादयः।

प्रश्न 12.
ऋग्वेदस्य अथर्ववेदस्य च ब्राह्मणग्रन्थानां नामानि लिखत।।
उत्तर:
ऋग्वेदस्य ऐतरेयब्राह्मणम्, कौषीतकिब्राह्मणञ्चेति ब्राह्मणद्वयमस्ति। अथर्ववेदस्य गोपथब्राह्मणमस्ति।।

प्रश्न 13.
कीदृशाः ग्रन्थाः ‘आरण्यकम्’ कथ्यन्ते?
उत्तर:
अरण्येषु निवासिनां वानप्रस्थानाम् यज्ञादेः कर्मविवेचनात्मकाः ग्रन्थाः ‘आरण्यकम्’ कथ्यन्ते। सायणमते अरण्येषु अध्यापनकारणादेव एतत् साहित्यम्’ आरण्यकम्’ इति नाम्ना प्रसिद्धम्।

प्रश्न 14.
का विद्या उपनिषद् कथ्यते?
उत्तर:
या विद्या परम्परया गुरो: समीपे उपविश्य प्राप्यते, तथा च यया समस्तानर्थोत्पादिकानां सांसारिकक्रियाणां नाशः भवति, संसारस्य कारणभूताया अविद्यायाः बन्धनं शिथिलं भवति, ब्रह्मसाक्षात्कारः च भवति, सा विद्या उपनिषद् कथ्यते।।

प्रश्न 15.
वेदाङ्गानि कति सन्ति? तेषां नामानि लिखत।
उत्तर:
वेदाङ्गानि षड् सन्ति-शिक्षा, कल्पः, निरुक्तम्, व्याकरणम्, छन्दः, ज्योतिषञ्च।।

प्रश्न 16.
श्रौतसूत्रेषु के विषयाः विवेचिताः सन्ति?
उत्तर:
श्रौतसूत्रेषु अग्नित्रयाधानम्, अग्निहोत्रम्, दर्शपूर्णमासौ, पशुयागः, नानाविधाः सोमयागाः चेति विषयाः सम्यक् विवेचिताः सन्ति।

प्रश्न 17.
ज्योतिःशास्त्रप्रवर्तकाः महर्षयः के सन्ति?
उत्तर:

सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः।।
कश्यपो नारदो गर्ग: मरीचिर्मनुरङ्गिराः।।
लोमशः पौलिशश्चैव च्यवनो यवनो भृगुः।
शौनकोऽष्टादशाश्चैते ज्योति:शास्त्रप्रवर्तकाः।।

RBSE Solutions for Class 12 Sanskrit

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Class 12

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • RBSE Class 5 EVS Chapter 3 Question Answer in Hindi हमारे कुशल सहयोगी
  • RBSE Class 5 EVS Chapter 4 Question Answer in Hindi यातायात एवं संचार के साधन
  • RBSE Class 5 EVS Chapter 2 Question Answer in Hindi पशु-पक्षी हमारे साथी
  • RBSE Class 5 EVS Chapter 1 Question Answer in Hindi बासोड़ा की थाली
  • RBSE Class 5 EVS Chapter 16 Question Answer My Rajasthan
  • RBSE Class 5 EVS Chapter 14 Question Answer Pranayama: A Gift to Mind and Body
  • RBSE Class 5 EVS Chapter 15 Question Answer Our Inspirations
  • RBSE Class 5 EVS Chapter 11 Question Answer The Art of Map Craft: Direction and Measurement
  • RBSE Class 5 EVS Chapter 10 Question Answer India’s Map and Geographical Diversity
  • RBSE Class 5 EVS Chapter 9 Question Answer Our Past and Present
  • RBSE Class 5 EVS Chapter 12 Question Answer Our Life Style and Climatic Changes

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2026 RBSE Solutions