Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 2 विद्यायाः बुद्धिरुत्तमा
RBSE Class 8 Sanskrit रञ्जिनी Chapter 2 पाठ्यपुस्तक के प्रश्नोत्तर
RBSE Class 8 Sanskrit रञ्जिनी Chapter 2 मौखिक प्रश्न:
प्रश्न 1.
अधोलिखितानां शब्दानाम् उच्चारणं कुरुतकस्मिंश्चिद् शास्त्रपारङ्गता शास्त्रविमुखः प्रभूतम् मन्त्रणाम् अस्थिसञ्चयः तेनोत्सुकतया।
उत्तरम्:
[ नोट: उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि वदत-
(क) कतिपुत्राः बुद्धिरहिताः आसन्?
उत्तरम्:
त्रयः पुत्राः।
(ख) कस्य समीपं विद्या नासीत्?
उत्तरम्:
चतुर्थस्य बुद्धियुक्तस्य।
(ग) चर्ममांसरुधिरं केन संयोजितम्?
उत्तरम्:
द्वितीयेन।
(घ) सिंहं सजीवं कः करोति?
उत्तरम्:
तृतीयः।
(ङ) का वरम् अस्ति ?
उत्तरम्:
बुद्धिः वरम्।
RBSE Class 8 Sanskrit रञ्जिनी Chapter 2 लिखितप्रश्नाः
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तरा लिखत
(क) धनार्जनाय ब्राह्मणपुत्राः कुत्र गच्छन्ति?
उत्तरम्:
पूर्वदेशम्।
(ख) “एषः सिंहः रच्यते” इति कः उक्तवान्?
उत्तरम्
बुद्धिमान्/चतुर्थः।
(ग) शास्त्रविमुखः कः आसीत्?
उत्तरम्-
बुद्धिमान्/चतुर्थः।
(घ) ते त्रयः केन मारिता:?
उत्तरम्:
सिंहेन।
(ङ) कस्मात् बुद्धिःउत्तमा?
उत्तरम:
विद्यायाः।
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
(क) प्रस्तुतः पाठः कस्मात् ग्रन्थात् सङ्कलित:?
उत्तरम्:
प्रस्तुतः पाठः पञ्चतन्त्रात् कथाग्रन्थात् सङ्कलितः।
(ख) केन प्रभावेण सिंह: सजीवः अभवत्?
उत्तरम्:
विद्यायाः प्रभावेण सिंह: सजीवः अभवत्।
(ग) “भो: तिष्ठतु भवान्” इति कः निषेधितवान्?
उत्तरम्:
इति बुद्धिमान् चतुर्थ: निषेधितवान्।
(घ) सुबुद्धिः कस्माद् अवतीर्य गृहं गतः?
उत्तरम्:
सुबुद्धिः वृक्षाद् अवतीर्य गृहं गतः।
(ङ) के विनश्यन्ति?
उत्तरम्:
बुद्धिहीना: विनश्यन्ति।
प्रश्न 3.
रेखाङ्कितपदान् आधारीकृत्य प्रश्ननिर्माणं कुरुत-
(क) ते मन्त्रणाम् अकुर्वन्।
(ख) कस्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्राः वसन्ति स्म।
(ग) तेन सिंह: सजीवः कृतः।
(घ) प्रथमः अस्थिसञ्चयं करोति।
(ङ) सुबुद्धिः वृक्षाद् अवतीर्य गृहं गतः।
उत्तरम्:
प्रश्न-निर्माणम्
(ख) कस्मिंश्चिद् ग्रामे चत्वारो के वसन्ति स्म?
(ग) तेन कः सजीवः कृतः?
(घ) प्रथमः किम् करोति?
(ङ) कः वृक्षाद् अवतीर्य गृहं गतः।
प्रश्न 4.
मजूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत |सिंहेन, वृक्षाद्, बुद्धिमान्, बाल्यकालाद्, एकः, चतुर्थ:, विद्या, विद्यायाः, विफल
उत्तरम्:
(क) एकस्तु बुद्धिमान् किन्तु शास्त्रविमुखः।
(ख)अहो अस्मासु एकः मूढः।
(ग) त्वं स्वगृहं गच्छ यतस्ते विद्या नास्ति।
(घ) वयं बाल्यकालाद् एव एकत्र क्रीडिताः।
(ङ) ते त्रयः अपि सिंहेन उत्थाय मारिताः।
प्रश्न 5.
उदाहरणं दृष्ट्वा निर्देशानुसारं रिक्तस्थानानि
पूरयत:
उदाहरणम:
अतः…………………….स्वोपार्जितं धनं न दास्यामि।
(एतशब्दः चतुर्थीविभक्तिः एकवचनम्)
उत्तरम्:
अतः अस्मै स्वोपार्जितं धनं न दास्यामि।
(क) गच्छ यतः …………………. विद्या रहितः असि। (युष्मशब्दः प्रथमाविभक्तिः एकवचनम् )
(ख) ते मार्गे …………………. अन्तः कतिचिद् अस्थीनि अपश्यन्। (अरण्यशब्दः षष्ठीविभक्तिः एकवचनम्)
(ग) अहं …………………. विफलां न करोमि। (विद्याशब्दः, द्वितीयाविभक्तिः एकवचनम्)
(घ) …………………. अवतीर्य गृहं गतः। (वृक्षशब्दः पञ्चमीविभक्तिः एकवचनम्)
उत्तरम्:
(क) गच्छ यतः त्वम् विद्यारहितः असि।
(ख) ते मार्गे अरण्यस्य अन्तः कतिचिद् अस्थीनि अपश्यन्।
(ग) अहं विद्यां विफलां न करोमि।
(घ) वृक्षाद् अवतीर्य गृहं गतः।
प्रश्न 6.
उचितपदेन सह सुमेलनं कुरुत
(क) एकेन । (अ) मारिताः।
(ख) द्वितीयेन (आ) वृक्षारोहणम् ।
(ग) तृतीयेन । (इ) अस्थिसञ्चयम् ।
(घ) चतुर्थेन (ई) चर्ममांसरुधिरसंयोजनम् ।
(ङ) सिंहेन। (उ) जीवनं सञ्चारणम्।
उत्तरम्:
(क) एकेन (इ)अस्थिसञ्चयम्।
(ख) द्वितीयेन (ई) चर्ममांसरुधिरसंयोजनम्
(ग) तृतीयेन (उ) जीवनं सञ्चारणम्
(घ) चतुर्थेन (आ) वृक्षारोहणम् ।
(ङ) सिंहेन (अ) मारिताः।
प्रश्न 7.
उचित अव्ययेन रिक्तस्थानम् पूरयत
(क) गृही ………………. केशेषु मृत्युना धर्ममाचरेत्। (सह, खलु, इव, च)
(ख) न चौरहार्यं न ………………. राजहार्यं न, भ्रातृभाज्यं न च भारकारि। (यथा, च, तु, ना)
(ग) व्यये कृते वर्धते ………………. नित्यं विद्याधनं। सर्वधनप्रधानम्। (एव, इव, च, पुनः)
(घ) आत्मनः प्रतिकूलानि परेषां ………………. समाचरेत। (च, यद्यपि, क्व, न)
(ङ) सत्यम्ज ………………. यते नानृतम्। (श्वः, अद्य, तदा, एव)
उत्तरम्:
(क) गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
(ख) न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
(ग) व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधनप्रधानम् ।
(घ) आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
(ङ) सत्यम् एव जयते नानृतम् ।
योग्यता-विस्तारः
(क) ग्रन्थ-परिचय:
पञ्चतन्त्र नामक कथाग्रन्थ के रचयिता विष्णु शर्मा हैं।
इस ग्रन्थ में पाँच तन्त्र (अध्याय) हैं
1. मित्र भेद,
2. मित्रसम्प्राप्ति
3. काकोलूकीय,
4. लब्धप्रणाश तथा
5. अपरीक्षितकारक।
महिलारोप्य नामक नगर में अमरशक्ति नाम का राजा था। उसके बाहुशक्ति, उग्रशक्ति और अनन्तशक्ति नामक तीन मूर्ख पुत्र थे। विष्णु शर्मा ने उन बालकों को ज्ञान कराने के लिए इस कथाग्रन्थ की रचना की थी। इस ग्रन्थ में पशुपक्षियों को पात्र मानकर सरल भाषा में विभिन्न ग्रन्थों से सूक्तियों और उदाहरणों का संकलन करके बाल-कथाओं की रचना की। निश्चय ही यह कथाग्रन्थ बालकों के लिए बहुत प्रेरणादायक है। इसी प्रकार के कथाग्रन्थ शुकसप्तति, वैताल पञ्चविंशति, सिंहासनद्वात्रिंशिका, हितोपदेश, कथासरित्सागर आदि हैं।(ख)भाषा-विस्तार :
अव्यय-प्रयोग
जो तीनों लिंगों, सभी विभक्तियों और सभी वचनों में समान होता है, उसके रूप में परिवर्तन नहीं होता है, उसे अव्यय कहते हैं-
सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु ॥
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
अव्ययों के प्रकार-
1. उपसर्गा:
2. क्रियाविशेषणम्
3. समुच्चयबोधकम्
4. मनोविकारसूचकम्
5. अन्यप्रकीर्णानि चा
RBSE Class 8 Sanskrit रञ्जिनी Chapter 2 अन्य महत्त्वपूर्ण प्रश्नोत्तरवस्तुनिष्ठप्रश्नाः
1. ‘विधायाः बुद्धिरुत्तमा’ इति पाठः मूलतः उद्धृत:
(क) पञ्चतन्त्रतः
(ख) हितोपदेशतः
(ग) शुकसप्ततितः
(घ) कथासरित्सागरतः।
2. ‘पञ्चतन्त्रस्य रचयिता’ अस्त
(क) अमरसिंह
(ख) पं. नारायणः
(ग) विष्णुशर्मा
(घ) कालिदासः।
3. चर्ममांसरुधिरं संयोजितम्-रेखांकितपदे का विभक्ति?
(क) द्वन्द्व
(ख) द्विगु
(ग) तत्पुरुष
(घ) अव्ययीभाव।
4. ब्राह्मणपुत्राः आसन्
(क) पञ्च
(ख) त्रयः
(ग) सप्त ।
(घ) चत्वारः।
5. स: अकथयत्-‘धी मूर्ख ! …..भव।”
(क) सम्प्रति
(ख) यावत्
(ग) तूष्णीं
(घ) तर्हि ।
6.”एकस्तु बुद्धिमान् शास्त्रविमुखः।” रिक्तस्थाने उचितस्य अव्ययस्य प्रयोगं कुरुत् ।
(क) एव
(ख) किन्तु
(ग) अतः
(घ) विना ।
7.’अस्मै स्वोपार्जितं धनं न दास्यामि।’ अस्मिन् वाक्ये सर्वनामपदं किम्?
(क) धनं
(ख) दास्यामि
(ग) न .
(घ) अस्मै ।
8.’ते सिंहेन उत्थाय मारिताः।’ अत्र रेखांकितपदे कः प्रत्ययः?
(क) क्त्वा
(ख) ल्यप्
(ग) तव्यत्
(घ) तुमुन् ।
9.चतुषु: ब्राह्मणपुत्रेषु कति शास्त्रपारङ्गता: परन्तु बुद्धिरहिताः आसन्?
(क) द्वौ
(ख) एकः
(ग) त्रयः
(घ) चत्वार।
10. ब्राह्मणपुत्रैः विद्याप्रभावेण कः सजीवः कृतः?
(क) सिंहः
(ख) मृगः
(ग) शृगालः
(घ) गजः।
उत्तराणि:
1. (क)
2. (ग)
3. (क)
4. (घ)
5. (ग)
6. (ख)
7. (घ)
8. (ख)
9. (ग)
10. (क)
कोष्ठकेभ्यः समुचितं पदं चित्वा रिक्त-स्थानानि पूरयत
1. एकस्तु बुद्धिमान्………….शास्त्रविमुखः। (अपि, एव, किन्तु)
2, ………. तृतीयेन उक्तम् । (तत्र, ततः, इत:)
3. ……….. प्रतीक्षां कुरु क्षणं यावत् । ( तर्हि, अपि, चेद्)
4. चतुषु………:शास्त्रपारङ्गताः। (त्रयम्, त्रयः, त्रीणि)
उत्तराणि-
1. किन्तु,
2. ततः,
3. तर्हि,
4. त्रयः।
RBSE Class 8 Sanskrit रञ्जिनी Chapter 2 अतिलघूत्तरात्मकप्रश्नाः
एकपदेन उत्तरत-
प्रश्न 1.
ब्राह्मणपुत्राः परस्परं कथं वसन्ति स्म?
उत्तरम्:
मित्रभावेन्।
प्रश्न 2.
चतुर्थः पुत्रः केवलं कीदृशः आसीत् ?
उत्तरम्:
बुद्धिमान् ।
प्रश्न 3.
विद्यां विना केवलं बुद्धिबलेन किं न प्राप्यते ?
उत्तरम्:
राजप्रतिग्रहः।
प्रश्न 4.
ब्राह्मणपुत्राः अरण्यस्य अन्तः कानि अपश्यन्?
उत्तरम्:
अस्थीनि।
RBSE Class 8 Sanskrit रञ्जिनी Chapter 2 लघूत्तरात्मकप्रश्नाः
पूर्णवाक्येन उत्तरतेप्रश्न
प्रश्न 1.
ब्राह्मणपुत्राः केन मृतं सत्वं जीवनसहितं कुर्वन्ति ?
उत्तरम्:
ब्राह्मणपुत्राः विद्याप्रभावेण मृतं सत्वं जीवनसहितं कुर्वन्ति
प्रश्न 2,
केन उत्सुकतया अस्थिसञ्चयः कृतः
उत्तरम्:
प्रथमेन उत्सुकतया अस्थिसञ्चयः कृतः
प्रश्न 3.
ते त्रयः अपि केन उत्थाय मारिताः ?
उत्तरम्:
ते त्रयः अपि सिंहेन उत्थाय मारिताः
प्रश्न 4.
कीदृशाः जनाः विनश्यन्ति
उत्तरम्:
बुद्धिहीनाः जनाः विनश्यन्ति
प्रश्न 5.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत
(क) चत्वारः ब्राह्मणपुत्राः पूर्वदेशं गच्छन्ति। (कति/के)
(ख) ते कदाचिद् मन्त्रणाम् अकुर्वन् । (कम्/काम्)
(ग) त्वं स्वगृहं गच्छ यतस्ते विद्या नास्ति। (का/क:)
(घ) ततः तृतीयेन उक्तम्। (कया/केन) |
(ङ) तेन सिंह: सजीवः कृतः? (किम्/क:)
(च) अहं विद्यां विफलां न करोमि? (काम्/कम्)
उत्तरम्:
प्रश्ननिर्माणम्
(क) कति ब्राह्मणपुत्राः पूर्वदेशं गच्छन्ति?
(ख) ते कदाचिद् काम् अकुर्वन्?
(ग), त्वं स्वगृहं गच्छ यतस्ते का नास्ति?
(घ) ततः केन उक्तम्?
(ङ) तेन कः सजीवः कृतः?
(च) अहं विद्या काम् न करोमि?
प्रश्न 6.
सुमेलनं कुरुत
उत्तरम:
निबन्धात्मकप्रश्नाः
प्रश्न 1.
घटनाक्रमानुसारेण वाक्यानि लिखत
(क) ते कदाचित् मन्त्रणाम् अकुर्वन् ।
(ख) ततः तेनोत्सुकतया अस्थिसञ्चयः कृतः।
(ग) ते मार्गे अरण्ये कतिचित् अस्थीनि अपश्यन् ।
(घ) कस्मिश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्राः वसन्ति स्म।
(ङ) ते त्रयः अपि उत्थाय सिंहेन मारिता।
उत्तरम्:
क्रमानुसारवाक्यानि
(क) कस्मिश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्राः वसन्ति स्म।
(ख) ते कदाचित् मन्त्रणाम् अकुर्वन् ।
(ग) ते मार्गे अरण्ये कतिचित् अस्थीनि अपश्यन् ।
(घ) ततः तेनोत्सुकतया अस्थिसञ्चयः कृतः।
(ङ) ते त्रयः अपि उत्थाय सिंहेन मारिता।
प्रश्न 2.
घटनाक्रमानुसारेण वाक्यानि संयोजयत
(i) बुद्धिमान् तु वृक्षाद् अवतीर्य गृहं गतः।
(ii) ते मार्गे मृतं सत्वं दृष्ट्वा तेषु त्रयः विद्याप्रभावेण तं जीवनसहितं कुर्वन्ति।
(iii) चतुषु ब्राह्मणपुत्रेषु त्रयः बुद्धिरहिताः आसन् ।
(iv) ते त्रयः अपि सिंहेन उत्थाय मारिता:।
(v) ते धनार्जनायं विदेशं प्रति गच्छन्ति।
उत्तरम्:
क्रमानुसारं वाक्यानि
(i) चतुषु ब्राह्मणपुत्रेषु त्रय: बुद्धिरहिताः आसन्।
(ii) ते धनार्जनाय विदेशं प्रति गच्छन्ति।
(iii) ते मार्गे मृतं सत्वं दृष्ट्वा तेषु त्रयः विद्याप्रभावेण तं जीवनसहितं कुर्वन्ति ।
(iv) ते त्रयः अपि सिंहेन उत्थाय मारिताः।
(v) बुद्धिमान् तु वृक्षाद् अवतीर्य गृहं गतः।
प्रश्न 3.
विद्यायाः बुद्धिरुत्तमा’ इति कथायाः सारं हिन्दीभाषायां लिखत।
उत्तरम्:
कथा का सार: पञ्चतन्त्र से संकलित प्रस्तुत कथा में विद्या की अपेक्षा बुद्धि की श्रेष्ठता को बतलाया गया है । कथा के अनुसार किसी गाँव में चार ब्राह्मण पुत्र आपस में मित्रता से रहते थे। उनमें से तीन शास्त्रों के विद्वान् किन्तु बुद्धि से रहित थे। एक बुद्धिमान् था किन्तु शास्त्र से विमुख। एक बार वे चारों आपस में विचार करके अपनी विद्या के द्वारा धन कमाने के लिए विदेश की ओर चल दिये। रास्ते में उनमें से बड़े ने कहा कि हमारे में से एक अशिक्षित है, वह केवल बुद्धिमान् है। केवल बुद्धि के बल से बिना विद्या के राजा से दान प्राप्त नहीं किया जा सकता। अतः मैं अपने द्वारा कमाया गया धन इसको नहीं दूंगा। अतः तुम अपने घर जाओ, क्योंकि तुम्हारे पास विद्या नहीं है। इसी प्रकार दूसरे ने भी उससे कहा। तीसरे ने कहा कि “हम बचपन से ही एक साथ खेले हैं। अत: यह भी हमारे धन में सहभागी होगा।” इस प्रकार वे चारों आगे चलने लगे।तभी उन्होंने जंगल के अन्दर रास्ते में एक मरे हुए जीव की हड्डियों को देखा।
तब एक ने कहा कि आज हमें अपनी विद्या की परीक्षा करनी चाहिए। अत: विद्या के प्रभाव से हम इसे जीवित करते हैं। इसके बाद पहले ने हड्डियों को एकत्रित किया, दूसरे ने उसमें चमड़ी, मांस, रक्त आदि को जोड़कर खड़ा किया। जैसे ही तीसरा उसे जीवित करने लगा, तभी चौथे सुबुद्धि ने उन्हें मना करते हुए कहा कि यह सिंह है, यदि इसे जीवित करोगे तो यह सभी को खा जायेगा। उसकी बात को न मानकर उन्होंने उसे जीवित कर दिया, तभी चौथा पेड़ पर चढ़ गया था। जीवित होते ही उस सिंह ने उन तीनों को मार दिया। चौथा पेड़ से उतरकर अपने घर चला गया। अतः सत्य कहा है-विद्या की अपेक्षा बुद्धि श्रेष्ठ होती है। बुद्धि से हीन विनाश को प्राप्त होते हैं।
पाठ-परिचय-
[प्रस्तुत पाठ विष्णु शर्मा द्वारा विरचित सुप्रसिद्ध कथाग्रन्थ ‘पञ्चतन्त्र’ से उद्धृत है। इस कथा में ब्राह्मण-बालकों के माध्यम से विद्या की अपेक्षा बुद्धि की श्रेष्ठता को दर्शाया गया है। भाषागत-ज्ञान के अन्तर्गत प्रमुख अव्ययों का परिचय एवं उनका प्रयोग समझाया गया है।]
पाठ के कठिन-शब्दार्थ-शास्त्रपारङ्गताः (शास्त्रे निपुणा:) = शास्त्रों के विद्वान्। शास्त्रविमुखः (शास्त्रपराड़मुख:) शास्त्र से विमुख। मन्त्रणाम् (विमर्शम्) सलाह को। प्रभूतं (अत्यधिकम्) = बहुत अधिक। राजप्रतिग्रहः (राजदानम्) = राजा द्वारा दिया गया दान। वित्तस्य (धनस्य) = धन का। अस्थीनि (कङ्कालांशानि) = हड्यिाँ।
विद्याप्रत्ययः (विद्यायाः परीक्षा) = विद्या की परीक्षा। सत्वं (जीव:) = प्राणी। अरण्यस्य (वनस्य) = जंगल के। तेनोत्सुकतया (तेन उत्कण्ठापूर्वकम्) = उसके द्वारा उत्सुकता से। संयोजितम् (समायोजितम्) = जोड़ कर खड़ा किया। रच्यते (विनिर्मीयते) = बनाया जा रहा है। तथाचरितम् (तथा कृतम्) = वैसा किया। तूष्णीम्। (मौनम्) चुप।
पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम्
(1)
कस्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्राः परस्परं मित्रभावेन वसन्ति स्म। चतुषु त्रयः शास्त्रपारङ्गताः परन्तु बुद्धिरहिताः। एकस्तु बुद्धिमान् किन्तु शास्त्रविमुखः। ते कदाचिद् मन्त्रणाम् अकुर्वन्–“यदि विदेशं गत्वा प्रभूतं धनं नार्जयाम तर्हि विद्यया किं प्रयोजनम् ? तत् पूर्वदेशं गच्छामः।”
हिन्दी-अनुवाद-किसी गाँव में चार ब्राह्मण-पुत्र आपस में मित्रता के साथ रहते थे। चार में से तीन शास्त्रों के विद्वान् परन्तु बुद्धि से रहित थे। एक था तो बुद्धिमान् किन्तु शास्त्र से विमुख था। वे किसी समय सलाह करने लगे “यदि विदेश में जाकर बहुत अधिक धन अर्जित नहीं करें तो विद्या से क्या लाभ?” इसलिए पूर्व के देश में जाते हैं।
♦ पठितावबोधनम्
निर्देशः उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) त्रयः ब्राह्मणाः कीदृशाः आसन्? पूर्णवाक्येन उत्तरत।
(ग) तेषु एक; ब्राह्मणपुत्रः कीदृशः आसीत्? एकपदेन उत्तरत।
(घ) ते कदाचित् किम् अकुर्वन्? एकपदेन उत्तरत।
(ङ) ‘गत्वा’ इति पदे कः प्रत्ययः?
(च) “नार्जयाम’ इति पदस्य सन्धिविच्छेदं कुरुत।
उत्तर:
(क) चत्वारः ब्राह्मणपुत्राः।
(ख) त्रयः ब्राह्मणपुत्रा: शास्त्रपारङ्गता: परन्तु बुद्धिरहिता: आसन्।
(ग) बुद्धिमान् किन्तु शास्त्रविमुखः।
(घ) मन्त्रणाम्।
(ङ) “क्त्वा’ प्रत्ययः।
(च) ने + अर्जयाम्।
(2) एवं किञ्चिद् मार्ग गते तेषु ज्येष्ठतरः अवदत् – ‘अहो! अस्मासु एकः अशिक्षितः केवलम् अस्ति बुद्धिमान्। न च राजप्रतिग्रहो बुद्धिबलेन प्राप्स्यति विद्यां विना। अतः अस्मै स्वोपार्जितं धनं न दास्यामि। त्वं स्वगृहं गच्छ यतस्ते विह्या नास्ति।” ततः द्वितीयः अवदत्-‘भोः सुबुद्धे! त्वं स्वगृहं। गच्छ यतस्त्वं विद्यारहितः असि।” ततः तृतीयेन उक्तम्-“अहो नोचितम् एवं कर्तुं यतो हि वयं बाल्यकालाद् एव एकत्र क्रीडिताः। अतः आगच्छतु महानुभाव! भवान् अस्मद् उपार्जितस्य वित्तस्य समभागी भविष्यति।”
हिन्दी अनुवाद-इस प्रकार रास्ते में कुछ दूर जाने पर उनमें से बड़ा पुत्र बोला–“अरे ! हमारे में से एक अशिक्षित है, केवल बुद्धिमान् है। और राजा के द्वारा दिया गया दान विद्या के बिना केवल बुद्धि के बल से प्राप्त नहीं होगा। इसलिए इसको मैं अपने अर्जित धन को नहीं दूंगा। तुम अपने घर जाओ, क्योंकि तेरे में विद्या नहीं है।” इसके बाद दूसरा बोला-” हे सुबुद्धि! तुम अपने घर जाओ, क्योंकि तुम विद्या से रहित हो।” इसके बाद तीसरे ने कहा-“अरे ! ऐसा करना उचित नहीं हैं, क्योंकि हम सब बचपन से ही एक साथ खेले हैं। इसलिए आइए। महानुभाव ! आप हमारे द्वारा अर्जित धन के समान भागीदार होंगे।”
♦ पठितावबोधनम्
निर्देशः–उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत – प्रश्नाः –
(क) गद्यांशस्य उपयुक्तं शीर्षक किम्?
(ख) तेषु ज्येष्ठ: किं न दास्यति? पूर्णवाक्येन उत्तरत।
(ग) ते कस्माद् एव एकत्र क्रीडिता:? एकपदेन उत्तरत।
(घ) बुद्धिमान् कस्य समभागी भविष्यति? एकपदेन उत्तरत।
(ङ) “नोचितम्’ इति पदस्य सन्धिविच्छेदं कुरुत।
(च) “यतस्त्वं विद्यारहित: असि’–अत्र अव्ययपदं किम्?
उत्तर:
(क) चत्वारः ब्राह्मणपुत्रा:।
(ख) तेषु ज्येष्ठ: स्वोपार्जितं धनं न दास्यति।
(ग) बाल्यकालाद्।
(घ) वित्तस्य।
(ङ) न + उचितम्।
(च) यत:।
(3) तथा कृते ते मार्गे अरण्यस्य अन्तः कतिचिद् अस्थीनि अपश्यन् ततः एकेनोक्तम्-”अहो अद्य विद्याप्रत्ययः कर्तव्यः। किञ्चिद् सत्वम् एतद् मृतं तिष्ठति। तद् विद्याप्रभावेण जीवनसहितं कुर्मः। अहम् अस्थिसञ्चयं करोमि।’ ततः तेनोत्सुकतया अस्थिसञ्चयः कृतः।
हिन्दी अनुवाद-वैसा करने पर उन्होंने रास्ते में जंगल के अन्दर कुछ हड़ियों को देखा। इसके बाद एक ने कहा-”अरे ! आज तो विद्या की परीक्षा करनी चाहिए। यह कोई प्राणी मरा हुआ पड़ा है। इसलिए विद्या के प्रभाव से इसे जीवित करते हैं। मैं हड़ियों को एकत्रित करता हूँ।” तब उसने उसुकता से हड़ियों को एकत्रित किया।
♦ पठितावबोधनम्
निर्देशः-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना:-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) तत्र किम् मृतं तिष्ठति स्म? पूर्णवाक्येन उत्तरत।
(ग) ते केन मृतं सत्वं जीवनसहितं कर्तुम् इच्छन्ति? एकपदेन उत्तरत।
(घ) तेन उत्सुकतया किं कृतः?।
(ङ) ‘एकेनोक्तम्’ इति पदस्य सन्धिविच्छेदं कुरुत।
(च) ‘अपश्यन्’- इत्यत्र कः लकार:, किञ्च वचनम्।
उत्तर:
(क) विद्याप्रत्ययः।
(ख) तत्र किञ्चिद् सत्वम् मृतं तिष्ठति।
(ग) विद्याप्रभावेण।
(घ) अस्थिसञ्चयः।
(ङ) एकेन + उक्तम्।
(च) ललकार:, बहुवचनम्।
(4) द्वितीयेन क्रमशः चर्ममांसरुधिरं च संयोजितम्।
तृतीयः अपि यावज्जीवनं सञ्चारयति तावत् सुबुद्धिः निषेधितवान् अवदच्च- “भोः तिष्ठतु। भवान्। एषः सिंह; रच्यते। यदि एनं सजीवं करिष्यति चेद् अयं निश्चयेन सर्वान् अपि खादिष्यति।”
हिन्दी-अनुवाद-दूसरे ने क्रमश: चमड़ी, मांस और रुधिर (खून) को जोड़कर उसे खड़ा कर दिया। तीसरा भी जैसे ही उसमें प्राणों का संचार करने लगा, तभी सुबुद्धि ने मना कर दिया और बोला-‘अरे, आप रुको, यह सिंह बनाया जा रहा है। यदि इसे जीवित करोगे तो यह अवश्य ही सभी को खा जायेगा।”
♦ पठितावबोधनम्
निर्देश: उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः-
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) तस्मिन् जीवनं कः सञ्चारयति स्म? पूर्णवाक्येन उत्तरत।
(ग) तत्र कः निषेधितवान्? एकपदेन उत्तरत।
(घ) एषः कः रच्यते? एकपदेन उत्तरत।
(ङ) ‘अवदच्च’ इति पदस्य सन्धिविच्छेदं कुरुत।
(च) ‘भोः तिष्ठतु भवान्’–रेखाङ्कितपदे कः लकार:?
उत्तर:
(क) सिंहस्य रचना।
(ख) तस्मिन् जीवनं तृतीय: सञ्चारयति स्म।
(ग) सुबुद्धिः।
(घ) सिंह:।
(ङ) अवदत् + च।
(च) लोट्लकारः।
(5) सः अकथयत्-”धि मूर्ख! तूष्णीं भव। अहं विद्यां विफलां न करोमि सम्प्रति।” तेन बुद्धिमता उक्तम्-”तर्हि प्रतीक्षा कुरु क्षणं यावत्, अहं वृक्षम् आरोहामि।” तथाचरितं यावत् सः सजीवः कृतः तावत् ते त्रयः अपि सिंहेन उत्थाय मारिताः। सः पुनः वृक्षाद् अवतीर्य गृहं गतः।
हिन्दी-अनुवाद-उसने कहा ” धिक्कार है मूर्ख! चुप रहो। मैं इस समय अपनी विद्या को विफल नहीं करूंगा।” उस बुद्धिमान ने कहा- ‘तब तो क्षणभर प्रतीक्षा करो, मैं पेड़ पर चढ़ जाता हूँ।” वैसा करने पर जैसे ही उसने उसे जीवित किया, वैसे ही सिंह ने उठकर उन तीनों (ब्राह्मण-पुत्रों) को मार दिया। वह चौथा (बुद्धिमान्) पेड़ से उतरकर घर चला गया।
♦ पठितावबोधनम्
निर्देश:-उपर्युक्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) बुद्धिमान् कुत्र आरोहति? पूर्णवाक्येन उत्तरत।
(ग) ते त्रयः अपि केन मारिता:? एकपदेन उत्तरत।
(घ) बुद्धिमान् वृक्षात् अवतीर्य कुत्र गतः? एकपदेन उत्तरत।
(ङ) ‘उत्थाय’-इति पदे कः प्रत्यय:।
(च) “अवतीर्य’ इति पदे कः उपसर्ग:?
उत्तर:
(क) विद्याया: बुद्धिरुत्तमा।
(ख) बुद्धिमान् वृक्षम् आरोहति।
(ग) सिंहेन।
(घ) गृहम्।
(ङ) ल्यप् प्रत्ययः।
(च) “अव’ उपसर्गः।
(6)
अत एवोच्यतेवरं बुद्धिर्न सा विद्या, विद्यायाः बुद्धिरुत्तमा।
बुद्धिहीना विनश्यन्ति, यथा ते सिंहकारकाः ॥
हिन्दी-अनुवाद-इसीलिए कहा गया है-
भावार्थ-बुद्धि श्रेष्ठ होती है, वह विद्या नहीं, विद्या की अपेक्षा बुद्धि उत्तम है। बुद्धि से रहित उसी प्रकार विनाश को प्राप्त होते हैं जैसे वे सिंह का निर्माण करने वाले तीनों ब्राह्मण पुत्र मृत्यु को प्राप्त हुए।
Leave a Reply