Rajasthan Board RBSE Class 8 Sanskrit रञ्जिनी Chapter 9 यौतकं पातकम्
RBSE Class 8 Sanskrit रञ्जिनी Chapter 9 पाठ्यपुस्तक के प्रश्नोत्तर
RBSE Class 8 Sanskrit रञ्जिनी Chapter 9 मौखिक प्रश्न:
प्रश्न 1.
अधोलिखितानां शब्दानाम् उच्चारणं कुरुतश्वासोच्छ्वासः आह्वयतु वाग्दानावसरे शाट्यम्। श्मश्रुणः बुभुक्षिताः नियतकस्य नावबुध्यतेआकर्षतिअन्वेष्य
उत्तरम्:
[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि वदत
(क) सरला काम् आह्वयति?
उत्तरम्:
स्वपितरम्
(ख) विद्याधरः कस्य पिता अस्ति?
उत्तरम्:
सरलायाः
(ग) वरस्य नाम किम् अस्ति?
उत्तरम्:
वरस्य नाम मित्रावसुः अस्ति
(घ) यौतके ते किम् इच्छन्ति?
उत्तरम्:
स्वचलद्विचक्रम्
(ङ) आरक्षकाधीक्षकस्य पुत्रः कः?
उत्तरम्:
राकेशः
RBSE Class 8 Sanskrit रञ्जिनी Chapter 9 लिखितप्रश्नाः
प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) विद्याधरस्य मित्रं कः अस्ति?
उत्तरम्:
राघवः
(ख) विद्याधरः कस्मात् कार्यात् निवृत्तः?
उत्तरम्:
शिक्षककार्यात्
(ग) यौतकपट्टिका कस्य नेत्रयोः उपरि आसीत्?
उत्तरम्:
श्रीधरस्य
(घ) “वञ्चिताः स्मः वयम्” इति कः उक्तवान्?
उत्तरम्:
विद्याधरः
(ङ) अश्वारूढः कः अस्ति?
उत्तरम्:
वरः
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
(क) कस्य दन्ताः भक्षणस्य दर्शनस्य च भिन्नाः भवन्ति?
उत्तरम्:
गजस्य दन्ताः भक्षणस्य दर्शनस्य च भिन्नाः भवन्ति
(ख) पाठे कस्याः विवाहः अस्ति?
उत्तरम्:
पाठे सरलायाः विवाहः अस्ति
(ग) ” भवत्याः किं कृतम् एतत् सरले!” इति का उक्तवती?
उत्तरम्:
इति लक्ष्मीः उक्तवती
(घ) राघवः कस्य मित्रम्?
उत्तरम्:
राघवः विद्याधरस्य मित्रम्
(ङ) सरलां वधूरूपेण प्राप्य कः आत्मानं धन्यं मन्यते?
उत्तरम्:
सरलां वधूरूपेण प्राप्य आरक्षणकाधीक्षकः आत्मानं धन्यं मन्यते
(च) आरक्षकागारे दूरभाषेण का सूचितवती?
उत्तरम्:
आरक्षकागारे दूरभाषेण सरला सूचितवती
प्रश्न 3.
मजूषातः चित्वा अधोलिखितानि रिक्तस्थानानि
पूरयते
शाठ्यं, सरलायाः, सर्वे जागरूकाः, व्यवस्था, व्याकुलः
उत्तरम्:
(क) अतः अस्मिन् विषये सर्वे जागरूकाः भवन्तु
(ख) भवान् अपि व्याकुलः प्रतीयते
(ग) केवलं शंठे शाठ्यं समाचरणीयम्
(घ) धनस्य व्यवस्था कुर्म
(ङ) सर्वथा सरलायाः योग्यः अस्ति
प्रश्न 4.
अधोलिखितम् उदाहरणं पठित्वा विभक्तिं संयोज्य पूरयत
उदाहरणम्
दशरथः रामस्य पिता अस्ति। (राम)
उत्तरम्:
(क) राघव: विमलायाः पतिः अस्ति । (विमला)
(ख) लक्ष्मी: विद्याधरस्य पत्नी अस्ति। (विद्याधर)
(ग) विद्याधरः सरलायाः पिता अस्ति। (सरला)
(घ) श्रीधरः मित्रावसोः पिता अस्ति। (मित्रावसु)
(ङ) सरला नलिन्याः सखी अस्ति। (नलिनी)
प्रश्न 5.
रेखाङ्कितं पदम् आधारीकृत्य प्रश्ननिर्माणं कुरुत
(क) मम दोषः नास्ति
(ख) सरला निर्भीका कन्या अस्ति
(ग) भवन्तः सर्वे अस्माकं निबन्धने सन्ति
(घ) अस्मान् परितः आरक्षकाः सन्ति
(ङ) करे कृपाणः सज्जति
उत्तरम्:
(क) कस्य दोषः नास्ति?
(ख) का निर्भीका कन्या अस्ति?
(ग) भवन्तः सर्वे केषां निबन्धने सन्ति?
(घ) अस्मान् परितः के सन्ति?
(ङ) कुत्र कृपाणः सज्जति?
प्रश्न 6.
विपरीतार्थकान् शब्दान् लिखत
उत्तरम्:
(क) मिथ्या – सत्यम्
(ख) पुरातनः – नवीनः
(ग) सुलभः – दुर्लभः
(घ) दुर्भाग्यम् – सौभाग्यम्
(ङ) तीव्रम् – मन्दम्
योग्यता-विस्तारः
लोकोक्तयः
(क) श्मश्रुणः प्रश्नः – मूंछ का सवाल
(ख) गजस्य दन्ताः – हाथी के दांत खाने के
भक्षणस्य अन्ये अलग दिखाने के अलग
दर्शनस्य च अन्ये
(ग) शठे शाठ्यं – दुष्ट के साथ दुष्टता का
समाचरणीयम् व्यवहार करना चाहिए
भाषा-विस्तारः
तकारान्तः पुल्लिङ्गे भवत् शब्दः
तकारान्तः स्त्रीलिङ्गे भवत् शब्दः
तकारान्तः नपुंसकलिङ्गे भवत् शब्दः
नकारान्तः पुल्लिङ्गे आत्मन् शब्दः
ऊकारान्तः स्त्रीलिङ्गे वधू शब्दः
RBSE Class 8 Sanskrit रञ्जिनी Chapter 9 अन्य महत्त्वपूर्ण प्रश्नोत्तर
RBSE Class 8 Sanskrit रञ्जिनी Chapter 9 वस्तुनिष्ठप्रश्नाः
1.‘यौतकं पातकम्’ पाठस्य क्रमः अस्ति
(क) दशमः
(ख) षष्ठमः
(ग) पञ्चमः
(घ) नवमः
2.’एषा तव माता अपि आगतवती’-अत्र अव्ययपदम् अस्ति
(क) माता
(ख) अपि
(ग) तव
(घ) एषा
3.’एषः आत्मनि कुटिल: अस्ति’-रेखांकितपदे विभक्तिः वर्तते
(क) सप्तमी
(ख) द्वितीया
(ग) पंचमी
(घ) तृतीया
4.’सम्यग् विचारयतु सरले !’–रेखांकितपदे उपसर्ग: अस्ति
(क) चर्
(ख) यत्
(ग) वि
(घ) तु।
5.किं किं दास्यति भवान्? अस्मिन् वाक्ये सर्वनाम पदं किम्
(क) किम्
(ख) भवान्
(ग) दास्यति
(घ) क ख उभयोः एव
6. विद्याधरस्य पत्नी का आसीत्?
(क) लक्ष्मी
(ख) सरस्वती
(ग) नलिनी
(घ) रमा
7. सरला कस्य पुत्री आसीत्?
(क) राघवस्य
(ख) श्रीधरस्य
(ग) विद्याधरस्य
(घ) बलवीरस्य
8. वरस्य किं नाम अस्ति?
(क) धनवसु
(ख) श्रीधरः
(ग) विक्रमसिंह:
(घ) मित्रावसु
उत्तराणि:
1, (घ)
2. (ख)
3. (क)
4. (ग)
5. (ख)
6. (क)
7. (ग)
8. (घ)
मञ्जूषात् समुचितपदं चित्वा रिक्तस्थानानि पूरयत
मञ्जूषा
भवान्, अस्मान्, प्रश्नः, जानामि, एषः
1. मम श्मश्रुणः ………..अस्ति
2. किं किं दास्यति……….।
3. उपायं तु अहं………..।
4. ……….परितः आरक्षकाः सन्ति
5. ………वरस्य पिता अस्ति
उत्तराणि:
1. प्रश्नः,
2. भवान्,
3. जानामि,
4. अस्मान्,
5. एषः
RBSE Class 8 Sanskrit रञ्जिनी Chapter 9 अतिलघूत्तरात्मकप्रश्नाः
(एकपदेन उत्तरत)
प्रश्न 1.
सरलायाः पितुः किम् नाम ?
उत्तरम्:
विद्याधरः
प्रश्न 2.
आरक्षकाधीक्षकस्य पुत्रस्य किम् नाम?
उत्तरम्:
मित्रावसुः
प्रश्न 3.
श्रीधरः आत्मनि कीदृशः आसीत्?
उत्तरम्:
कुटिलः
प्रश्न 4.
आरक्षकः श्रीधरं कुत्र नयति?
उत्त्तरम्:
कारागृहे
RBSE Class 8 Sanskrit रञ्जिनी Chapter 9 लघूत्तरात्मकप्रश्नाः
( पूर्णवाक्येन उत्तरत)
प्रश्न 1.
श्रीधरः वरपूजायां किम् इच्छति स्म?
उत्तरम्:
श्रीधरः वरपूजायां स्वचलद्विचक्रम् इच्छति स्म
प्रश्न 2.
शठे कथं समाचरणीयम्?
उत्तरम्:
शठे शाठ्यं समाचरणीयम्
प्रश्न 3.
सरला कीदृशी कन्या अस्ति?
उत्तरम्:
सरला निर्भीका कन्या अस्ति
प्रश्न 4.
राकेशः कस्य पुत्रः आसीत्?
उत्तरम्:
राकेशः आरक्षकाधीक्षकस्य पुत्रः आसीत्
प्रश्न 5.
रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्न-निर्माणं कुरुत
(i) सरला निर्भीका कन्या अस्ति । (क:/का)
(ii) ते तु यौतुकलुब्धकाः सन्ति। (कीदृशाः/कीदृशी)
(iii) एषः आत्मनि कुटिलः अस्ति। (कीदृश:/कीदृशम्)
(iv) शठे शाठ्यं समाचरणीयम् । (कः/किम्)
(v) अधुना मम श्मश्रुणः प्रश्नः अस्ति। (कस्य/केन)
(vi) अस्मान् परितः आरक्षकाः सन्ति । (क:/के)
(vii) राकेशः प्रशासकीय अधिकारी अस्ति । (कम्/कः)
उत्तरम्:
प्रश्न-निर्माणम्
(i) का निर्भीका कन्या अस्ति?
(ii) ते तु कीदृशाः सन्ति?
(iii) एषः आत्मनि कीदृशः अस्ति?
(iv) शठे किम् समाचरणीयम्?
(v) अधुना मम कस्य प्रश्नः अस्ति?
(vi) अस्मान् परितः के सन्ति?
(vii) कः प्रशासकीय अधिकारी अस्ति?
प्रश्न 6.
समानार्थकानि पदानि मेलयत
(i) वञ्चिता – पीडनम्
(ii) विषादेन – समयम्
(iii) उद्वाहः – दुःखेन
(iv) वेलाम्। – खड्गः
(v) कृपाणः – विवाहः
(vi) नोदनम् – छलिताः
उत्तरम्:
(i) वञ्चिता – छलिताः।
(ii) विषादेन – दुःखेन।
(iii) उद्वाहः – विवाहः।
(iv) वेलाम् – समयम्।
(v) कृपाणः – समयम्।
(vi) नोदनम् – पीडनम्।
पाठ – परिचय
प्रस्तुत पाठ परमानन्द शर्मा ‘प्रमोद’ द्वारा विरचित ‘वाग्देवतावतारः’ नामक ध्वनि – रूपक संग्रह से संकलित किया गया है। इस नाट्यांश में विद्याधर की पुत्री सरला के विवाह के माध्यम से महिला सशक्तिकरण की भावना को प्रकाशित किया गया है। इस पाठ में ‘दहेज लेना और देना महापाप है’ यह सन्देश हम ग्रहण करते
पाठ के कठिन
शब्दार्थ – स्खलितस्वरेण (प्रकम्पितस्वरेण) = लड़खड़ाते स्वर से। वञ्चिताः (छलिताः) = ठगे गये। विषादेन (दुःखेन) = दुःख से। स्वचलद्विचक्रम् (मरुत्तरद्विचक्रिका) = मोटरसाइकिल। निबन्धने (निगडने) = बन्दी बनाए गए। उद्वाहः (विवाहः) = विवाह। मोचयामि (त्यजामि) म छोड़ता हूँ। आरक्षकः (रक्षापुरुषः) = सिपाही। अन्वेष्य (अन्वेषणं कृत्वा) = खोज कर। आत्मानम् (स्वीयम्) = अपने आपको। अर्जितम् (अर्जनं कृतम्) = कमाया। तनयायै (पुत्र्यै) = पुत्री के लिये। वेलां (समय) = समय को। मा (न) = नहीं। अतिक्राम्यतु (अतिक्रमणं करोतु) = अतिक्रमण करे। नियतकस्य (यौतकरहितस्य) बिना दहेज वाले की। कृपाणः (खड्गः) = तलवार। नावबुध्यते (न जानाति) = नहीं जानता है। इतस्ततः (यत्र तत्र) = इधर उधर। समधिकसुखम् (विपुलः आनन्दः) = अत्यधिक प्रसन्नता। नोदनम् (पीडनम्) = दबाना। वरोपचारः (वराय कृता पूजा) = वर के लिए की गई पूजा।
प्रस्तुत नाट्यांश के पात्रों का परिचय
पाठ का हिन्दी – अनुवाद एवं पठितावबोधनम्
(1)
(प्रथमं दृश्यम्) (ततः धावनध्वनिना सह तीव्रः श्वासोच्छ्वासस्य ध्वनिः।)
नलिनी – सरले! हे सरले!।
सरला – आम्! किम् अभवत्?
नलिनी – तत्र………तेत्र……वरयात्रायां……तु (पुनः श्वासोच्छ्वासस्य ध्वनिः) स्थितिः सामान्या नास्ति।
सरला – (साश्चर्येण) हऽऽ! हे भगवन्!
नलिनी – अम्।
सरला – (विषादेन) तर्हि तातम् आह्वयतु।(विरम्य) अरे सः तु स्वयम् एव अत्र आगच्छति। पृच्छामि तावत्। विद्याधरः – सरले! (कण्ठोऽवरुध्यते) सरले!
सरला – पितः! किं भवति तत्र द्वारे? भवानपि व्याकुलः प्रतीयते।
विद्याधरः – (निःश्वस्ये) वञ्चिताः स्मः वयम्।
सरला – (साश्चर्यम्) किम्?
विद्याधरः – आम्। ते तु यौतकलुब्धकाः सन्ति। (निःश्वस्य) वरपूजायामपि स्वचलद्विचक्रम् इच्छन्ति। (विरम्य) एषा तव माता अपि आगतवती। लक्ष्मि! वञ्चिता स्मः वयम्।
हिन्दी – अनुवाद
(प्रथम दृश्य) (तब भागने की आवाज के साथ तेजी से श्वास लेने की आवाज आती है।)
नलिनी – सरला! हे सरला!
सरला – हाँ ! क्या हुआ?
नलिनी – वहाँ……….वहाँ……..वरयात्रा (बरात) में……..तो (फिर से तेज श्वास लेने की आवाज) स्थिति सामान्य नहीं है।
सरला – (आश्चर्य के साथ) हऽऽ! हे भगवान् !
नलिनी – हाँ।
सरला – (दु:ख से) तब तो पिताजी को बुलाओ। (रुक कर) अरे, वह तो स्वयं ही यहाँ आ रहे हैं। पूछती हूँ तब तक।
विद्याधर – सरला ! (गला अवरुद्ध हो जाता है) सरला !
सरला – पिताजी ! दरवाजे पर क्या हो रहा है? आप भी व्याकुल प्रतीत हो रहे हैं।
विद्याधर – (गहरी श्वास लेकर) हम ठगे गये।
सरला – (आश्चर्य के साध) क्या?।
विद्याधर – हाँ। वे तो दहेज के लोभी हैं। (गहरी श्वास लेकर) वर पृजा में भी मोटरसाइकिल को चाहते हैं। (रुक कर) यह तुम्हारी माता भी आ रही है। लक्ष्मी ! हम ठगे गये।
♦ पठितावबोधनम्
निर्देशः – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) नाट्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) सरलाया: मातुः किम् नाम अस्ति?
(ग) नलिनी कस्याः समीपं गच्छति?
(घ) कुत्र स्थिति सामान्या नास्ति?
(ङ) ते वरपूजायामपि किम् इच्छन्ति?
(च) ‘आगच्छति’ पदे कः लकार:? किं वचनम्?
(छ) क: व्याकुल: प्रतीयते?
उत्तर:
(क) यौतकलुब्धाः?
(ख) सरलाया; मातु: नाम लक्ष्मी अस्ति।
(ग) नलिनी सरलाया: समीपं गच्छति।
(घ) वरयात्रायां स्थिति सामान्या नास्ति।
(ङ) ते वरपूजायामपि स्वचलट्चिक्रम् इच्छन्ति।
(च) लट्लकार:, एकवचनम्।
(छ) विद्याधर: व्याकुल: प्रतीयते।
(2)
लक्ष्मीः – आम्। सर्वं ज्ञातवती।
विद्याधरः – तर्हि किं करणीयम्?
लक्ष्मीः – भवन्तः एव प्रमाणम्।
विद्याधरः – एषः राघवो अपि आगच्छति। भवानेव वदतु राघव! किं करवाम?
राघवः – अहमपि न जानामि। वाग्दानावसरे तु श्रीधरः कथम् आसीत्? अधुना कथम् अभवत्?
विद्याधरः – गजस्य दन्ताः भक्षणस्य अन्ये दर्शनस्य अन्ये भवन्ति मित्र! एषः आत्मनि कुटिलः अस्ति।
राघवः – अस्तु, इदानीं किं करणीयम्?
सरला – किमपि न करणीयम्। केवलं शठे शाठ्यं समाचरणीयम्।
विद्याधरः – किं वदति सरले!।
सरला – (दृढतया) आम् सत्यं वदामि।
हिन्दी – अनुवाद
लक्ष्मी – हाँ। सब कुछ जान गई हैं।
विद्याधर – तब क्या करना चाहिए?
लक्ष्मी – आप ही प्रमाण है।
विद्याधर – यह राघव भी हो रहा है। आप ही बताइए राघव! क्या करें?
राघव – मैं भी नहीं जानता हूँ। सगाई के समय तो श्रीधर कैसा था? अब कैसा हो गया?
विद्याधर – हाथी के दांत खाने के अलग और दिखाने के अलग होते हैं मित्र! यह मन में कुटिल
राघव – ठीक है, अब क्या करना चाहिए?
सरला – कुछ भी नहीं करना चाहिए। केवल दुष्ट के साथ दुष्टता का व्यवहार करना चाहिए।
विद्याधर – क्या कहती हो सरला!।
सरला – (दृढ़ता से) हाँ, सत्य बोलती हूँ।
♦ पठितावबोधनम्
निर्देशः – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) नाट्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) कस्य दन्ताः भक्षणस्य अन्ये दर्शनस्य च अन्ये भवन्ति?
(ग) श्रीधरः आत्मनि कीदृशः अस्ति?
(घ) शठे कथं समाचरणीयम्?
(ङ) “भवन्तः एव प्रमाणम्’ इति का कम् प्रति वदति?
(च) ‘आत्मनि’ पदे का विभक्तिः? किं वचनम्?
(छ) कस्मिन् अवसरे श्रीधरः अन्यद् आसीत्?
उत्तर:
(क) यौतकलुब्धः श्रीधरः।
(ख) गजस्य दन्ताः भक्षणस्य अन्ये दर्शनस्य च अन्ये भवन्ति।
(ग) श्रीधर: आत्मनि कुटिलः अस्ति।
(घ) शळे शाठ्यं समाचरणीयम्।
(ङ) इति लक्ष्मी विद्याधरं प्रति वदति।
(च) सप्तमी विभक्तिः एकवचनम्।
(छ) वाग्दानावसरे श्रीधरः अन्यद् आसीत्।
(3)
राघवः – किमर्थम्?
सरला – अहं विवाहमपि न करिष्यामि।
विद्याधरः – कारणम्?
सरला – (रुद्धकण्ठा रोदिति) कारणं…कारणं स्पष्टम्। अद्य तु स्वचलद्विचक्रम् इच्छन्ति, श्वः कारयानं वाञ्छिष्यन्ति, परश्वः किमप्यन्यद्। किं किं दास्यति भवान्? एते तु वराकाः बुभुक्षिताः वृकाः सन्ति।
विद्याधरः – सरला सत्यं वदति, परन्तु अस्मिन् समये मम श्मश्रणः प्रश्नः अस्ति।
सरला – भवतु, भवतः श्मश्रुणः नासिकायाः वा प्रश्नः? किन्तु अहं तु तेन पिशाचेन सहोद्वाहं न करिष्यामि।
विद्याधरः – न………..तद् न भविष्यति। आगच्छ मित्र! व्यवस्था कुर्मः।(गमनध्वनिः)
सरला – मा करोतु तात ……………………….।
लक्ष्मीः – सम्यग विचारयतु सरले! अस्मिन् समये अन्यः कः उपायः?
सरला – उपायः? उपायं तु अहं जानामि। कुत्रास्ति मम चलदूरभाषः? आरक्षागारे सूचयामि। (अङ्कनोदनस्य ध्वनिः। ततः दूरभाषसङ्केतध्वनिः आगच्छति।)
लक्ष्मीः – भवत्या किं कृतम् एतत् सरले! (दृश्यपरिवर्तनसङ्गीतध्वनिः)
हिन्दी – अनुवादराघव
सरला विद्याधर सरला
राघव – किसलिए?
सरला – मैं विवाह भी नहीं करूंगी।
विद्याधर – कारण?।
सरला – (रुन्धे/अवरुद्ध गले वाली रोती है) कारण……..कारण तो स्पष्ट है। आज तो मोटरसाइकिल चाहते हैं, कल कार की इच्छा करेंगे, परसों अन्य कुछ भी। क्या – क्या देंगे आप? ये तो अभागे भूखे भेड़िए हैं।
विद्याधर – सरला सच बोल रही है, परन्तु इस समय मेरी मूंछ का सवाल है।
सरला – ठीक है, आपकी मूंछ का अथवा नाक का प्रश्न है? किन्तु मैं तो उस राक्षस के साथ। विवाह नहीं करूंगी।
विद्याधर – नहीं……….नहीं………वह नहीं होगा। आओ मित्र ! व्यवस्था करते हैं। (जाने की आवाज)
सरला – मत कीजिए पिताजी…………।
लक्ष्मी – अच्छी प्रकार से विचार कर लो सरला ! इस समय अन्य क्या उपाय है?
सरला – उपाय? उपाय तो मैं जानती हैं। मेरा मोबाइल कहाँ है? पुलिस थाने में सूचना करती हैं। (बटन दबाने की आवाज। उसके बाद दूरभाष संकेत (घण्टी) की आवाज आती है।) लक्ष्मी – आपने यह क्या किया सरला ! (दृश्य परिवर्तन संगीत की ध्वनि)
♦ पठितावबोधनम्
निर्देशः – उपर्युक्तं नाद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) नाट्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) ते श्वः किं वाञ्छिष्यन्ति?।
(ग) एते वराकाः कीदृशाः सन्ति?
(घ) कस्य श्मश्रुण; प्रश्नः अस्ति?
(ङ) सरला घटनाविषये कुत्र सूचयति?
(च) ‘भवत:’ पदे का विभक्तिः? किं वचनम्?
(छ) ‘कुत्रास्ति’ पदस्य सन्धिविच्छेदं कुरुत।
उत्तर:
(क) निर्भीका सरला।
(ख) ते श्व: कारयानं वाञ्छिष्यन्ति।
(ग) एते वराका: बुभुक्षिता: वृकाः सन्ति।
(घ) विद्याधरस्य श्मश्रुण; प्रश्नः अस्ति।
(ङ) सरला घटनाविषये आरक्षागारे सूचयति।
(च) षष्ठी विभक्तिः, एकवचनम्।
(छ) कुत्र + अस्ति।
(4)
(द्वितीयं दृश्यम्)
(ततः मरुत्तरयानस्य ध्वनिः आगच्छति। कोलाहलश्च भवति।)
श्रीधरः – अरे! अस्मान् परितः आरक्षकाः एव आरक्षकाः सन्ति। किं करवाणि?।
आरक्षकाधीक्षकः – कोऽपि पलायनस्य दुःसाहसं मा करोतु। भवन्तः सर्वे अस्माकं निबन्धने सन्ति।
श्रीधरः – हं होऽऽ विद्याधर! कुचक्रमेतद् भवतः अस्ति? द्रक्ष्यामि भवन्तम् अनन्तरम्।
आरक्षकाधीक्षकः – (क्रोधेन) किं प्रलपति? आत्मानं पश्य प्रथमम्। कारागृहे अवतारयिष्यामि भवतः नेत्राभ्यां यौतकपट्टिकां, तदा पश्यतु। विक्रमसिंह! एषः वरस्य पिता अस्ति। नयतु एनम्। कारागृहे एव एतस्य सत्कारं करिष्यामः।
श्रीधरः – क्षम्यतां क्षम्यताम्।
प्रथमारक्षकः – चलति वा न वा? (दण्डप्रहारस्य ध्वनिः)
आरक्षकाधीक्षकः – बलवीर! तं वरराजम् अश्वावतारय। कारागृहे एब बरोपचारः भविष्यति एतस्य।
मित्रावसुः – मम दोषो नास्ति। मुञ्चतु माम्।
हिन्दी – अनुवाद – (द्वितीय दृश्य)
(उसके बाद गाड़ी की आवाज आती हैं, और कोलाहल होता है।)
श्रीधर – अरे ! हमारे चारों ओर सिपाही ही सिपाही हैं। क्या करूं?
पुलिस – अधीक्षक कोई भी भागने का दुःसाहस नहीं करे। आप सभी हमारे द्वारा बन्दी बनाये गए हैं।
श्रीधर – हूँ, अरे विद्याधर ! यह षड्यन्त्र आपका है? आपको बाद में देखें।
पुलिस – अधीक्षक – (क्रोध से) क्या बकते हो? पहले स्वयं को देखो। जेल में आपकी आँखों से दहेज की। पट्टी को उतारूँगा, तब देखना। विक्रमसिंह यह वर का पिता है। इसे ले जाओ। जेल में ही इसका सत्कार करेंगे।
श्रीधर: – क्षमा कीजिए, क्षमा कीजिए।
प्रथम सिपाही – चलते हो या नहीं? (डण्डे के प्रहार की आवाज)
पुलिस अधीक्षक – बलवीर! उस वर राजा को घोड़े से उतारो। जेल में ही इसकी बर – पूजा होगी।
मित्रावसु – मेरा दोष नहीं हैं। मुझे छोड़ दीजिए।
♦ पठितावबोधनम्
निर्देशः – उपर्युक्तं नाद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना: –
(क) विद्याधरस्य गृहं परितः के सन्ति?
(ख) ‘कुचक्रमेतद् भवतः’ इति कः कम् प्रति कथयति?
(ग) आरक्षकाधीक्षकः कारागृहे कम् नेतुम् आदिशति?
(घ) वरस्य पिता कः आसीत?
(ङ) वरस्य किन्नाम वर्तते?।
(च) ‘वरोपचार:’ पदस्य सन्धिविच्छेदं कुरुत।
(छ) ‘नयतु’ पदे क: लकार:? किं वचनम्?
उत्तर:
(क) विद्याधरस्य गृहं परित: आरक्षकाः सन्ति।
(ख) इति श्रीधर : विद्याधरं प्रति कथयति।
(ग) आरक्षकाधीक्षकः कारागृहे श्रीधरं नेतुम् आदिशति।
(घ) वरस्य पिता श्रीधरः आसीत्।
(ङ) वरस्य नाम मित्रावसुः वर्तते।
(च) वर + उपचार:।
(छ) लोट्लकारः, एकवचनम्।
(5)
द्वितीयारक्षकः – मोचयामि। कारागृहे भवते यौतकं दत्वा वरोपचारे। (व्यंग्येन हसति)
आरक्षकाधीक्षकः – कुत्र अस्ति सरला? सा तु निर्भीका कन्या अस्ति। यदि तादृश्यः सर्वाः कन्याः भविष्यन्ति चेत् तदा एतादृशी समस्यापि नागमिष्यति। एषः एकस्याः सरलायाः वा कस्य अपि एकस्य विषयः नास्ति अपितु अस्माकं सर्वेषां विषयः अस्ति। अतः अस्मिन् विषये सर्वे जागरुकाः भवन्तु। (विद्याधरं प्रति) अस्त, विद्याधरमहोदय! अव योग्यं वरम् अन्वेष्य सरलायाः विवाहः क्रियताम्। विवावेला मा अतिक्राम्यतु।
हिन्दी – अनुवाद
द्वितीय सिपाही – छोड़ता हूँ। जेल में आपको वर – पूजा में दहेज देकर। (व्यंग्यपूर्वक हँसता है)
पुलिस – अधीक्षक – सरला कहाँ है? वह तो निर्भीक कन्या है। यदि वैसी सभी कन्याएँ हो जायेंगी तब तो ऐसी समस्या भी नहीं आयेगी। यह एक सरला का अथवा किसी भी एक का विषय नहीं है, अपितु हम सभी का विषय है। इसलिए इस विषय में सभी जागरूक होवें। (विद्याधर के प्रति) ठीक है, विद्याधर महोदय ! आज ही योग्य वर को खोजकर सरला
का विवाह कीजिए। विवाह के समय का अतिक्रमण नहीं करना चाहिए।
♦ पठितावबोधनम्
निर्देश: – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्नाः –
(क) गद्यांशस्य उपयुक्तं शीर्षकं किम्?
(ख) सरला कीदृशी कन्या अस्ति?
(ग) यौतकस्य समस्या के विषयः अस्ति?
(घ) अस्मिन् विषये सर्वे कीदृशाः भवन्तु?
(ङ) किम् न अतिक्राम्यतु?
(च) ‘दत्वा’ पदे क; प्रत्यय:?
(छ) ‘भवते’ पदे का विभक्ति:? किं वचनम्?
उत्तर:
(क) निर्भीका कन्या।
(ख) सरला निर्भीका कन्या अस्ति।
(ग) यौतकस्य समस्या सर्वेषां विषय: अस्ति।
(घ) अस्मिन् विषये सर्वे जागरुका: भवन्तु।
(ङ) विवाहवेला न अतिक्राम्यतु।
(च) क्वा।
(छ) चतुर्थी, एकवचनम्।
(6)
विद्याधरः – श्रीमन्! सेवानिवृत्तशिक्षकः अस्मि। जीवने यद् धनम् अर्जितं तद् धनम् एतस्याः शिक्षायै व्ययीकृतम्। नियतकस्य तनयायै योग्यः बरः कुत्र? पुनश्चेदानीं नूतनः वरः तु दुर्लभः।
आरक्षकाधीक्षकः – अस्ति महोदयः अस्ति। यदि भवान् इच्छति चेद् योग्यः, नूतनश्च वरः सुलभः एव अस्ति।
विद्याधरः – (साश्चर्येण) कुत्र?
आरक्षकाधीक्षकः – मम पुत्रः राकेशः। प्रशासकीय अधिकारी अस्ति। सर्वथा सरलायाः योग्यः अस्ति।
विद्याधरः – (गद्दस्वरेण) एतत् तु अस्माकं सौभाग्यमस्ति।
आरक्षकाधीक्षकः – अहमपि सरलां पुत्रवधूरूपेण प्राप्य आत्मानं धन्यं मन्ये।
सर्वे – साधु – साधु।
हिन्दी – अनुवाद
विद्याधर – श्रीमान् ! मैं सेवानिवृत्त शिक्षक हूँ। जीवन में जो धन कमाया था, वह धन इसकी शिक्षा के लिए खर्च कर दिया। बिना दहेज वाले की पुत्री के लिए योग्य वर कहाँ है? और
फिर इस समय तो नया वर दुर्लभ है।
पुलिस अधीक्षक – है महोदय ! है। यदि आप चाहते हैं तो योग्य और नया वर सरलता से ही प्राप्त है।
विद्याधर – (आश्चर्य के साथ) कहाँ?।
पुलिस अधीक्षक – मेरा पुत्र राकेश है। वह प्रशासकीय अधिकारी है। सभी प्रकार से सरला के योग्य है।
विद्याधर – (गद्गद् स्वर से) यह तो हमारा सौभाग्य है।
पुलिस अधीक्षक – मैं भी सरला को पुत्रवधू के रूप में पाकर स्वयं को धन्य मानता हूँ।
सभी – वाह, वाह, ठीक है। (गीत की ध्वनि) हे कन्या (विवाह योग्य दुल्हन} ! वरराजा आ रहा है। घोड़े पर सवारे, मुख में पान का बीड़ा और हाथ में तलवार सुशोभित है। इधर – उधर सभी ओर देखने में अत्यधिक आनन्द दे रहा है। कहाँ जा रहा है, यह स्वयं ही नहीं जानता, मन इधर आकर्षित हो रहा है। हे वनिता (दुल्हन) ! वर राजा आ रहा है।
♦ पठितावबोधनम्
निर्देश: – उपर्युक्तं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखतप्रश्ना: –
(क) विद्याधरः कीदृश: शिक्षकः अस्ति?
(ख) तेन स्वार्जितं धनं कुत्र व्ययीकृतम्?
(ग) कस्य तनयायै योग्य: वर: दुर्लभः?
(घ) कः प्रशासकीय अधिकारी अस्ति?
(ङ) कः सरलाया: योग्य: वर: अस्ति?
(च) शिक्षायें’ पदे का विभक्ति:? किं वचनम्?
(छ) आरक्षकाधीक्षक; सरलां केन रूपेण प्राप्य स्वं धन्यं मन्यते?
उत्तर:
(क) विद्याधर: सेवानिवृत्तशिक्षकः अस्ति।
(ख) तेन स्वार्जितं धनं सरलाया: शिक्षायै व्ययीकृतम्।
(ग) निर्योतकस्य तनयायै योग्यः वर: दुर्लभ:।
(घ) राकेश: प्रशासकीय अधिकारी अस्ति।
(ङ) राकेशः सरलायाः योग्य; वरः अस्ति।
(च) चतुर्थी विभक्तिः एकवचनम्।
(छ) आरक्षकाधीक्षक; सरलां पुत्रवधूरूपेण प्राप्य स्वं धन्यं मन्यते।
RBSE Solutions for Class 8 Sanskrit
Leave a Reply