• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 10 E-Sanskrit Self Evaluation Test Papers

March 29, 2022 by Prasanna Leave a Comment

Students must start practicing the questions from RBSE 10th Sanskrit Model Papers E-Sanskrit Self Evaluation Test Papers provided here.

RBSE Class 10 E-Sanskrit Self Evaluation Test Papers

पूर्णांक : 80
समय : 2 घण्टा 45 मिनट

परीक्षार्थियों के लिए सामान्य निर्देश:

  • परीक्षार्थी सर्वप्रथम अपने प्रश्न – पत्र पर नामांक अनिवार्यतः लिखें।
  • सभी प्रश्न हल करने अनिवार्य हैं।
  • प्रत्येक प्रश्न का उत्तर दी गई उत्तर – पुस्तिका में ही लिखें।
  • जिन प्रश्नों में आंतरिक खण्ड हैं, उन सभी के उत्तर एक साथ ही लिखें।
  • प्रश्न का उत्तर लिखने से पूर्व प्रश्न का क्रमांक अवश्य लिखें।
  • प्रश्नों का अंकभार निम्नानुसार है –
खण्ड प्रश्नों की संख्या अंक प्रत्येक प्रश्न कुल अंक भार
खण्ड-अ 1 (1 से 12 ), 2 (1 से 6), 3 (1 से 12 ) 1 30
खण्ड-ब 4 से 16 = 13 2 26
खण्ड – स 17 से 20 = 4 3 12
खण्ड-द 21 से 23 = 3 4 12

RBSE Solutions

RBSE Class 10 E-Sanskrit Self Evaluation Test Paper 1

खण्ड – (अ)

प्रश्न 1.
अधोलिखित प्रश्नानां उचित विकल्पं चिनत
(i) व्याघ्रस्य उपहासं करोति
(अ) बुद्धिमती
(ब) बालकः
(स) जम्बुक:
(द) सिंहः

(ii) पुत्रं द्रष्टुं कः प्रस्थितः
(अ) आरक्षी
(ब) जनः
(स) नागरिक
(द) निर्धनः पिता

(ii) निर्धनजनस्य पुत्रः कुत्र निवसन् अध्ययने संलग्नः समभूत
(अ) छात्रावासे
(ब) विद्यालये
(स) गुरुकुले
(द) आश्रमे

(iv) आत्मानं वनराजपदाय योग्यः मन्यते
(अ) पिकः
(ब) उलूकः
(स) वानरः
(द) वकः

(v) सहस्राधिकेषु पुत्रेषु सत्स्वपि दुखी आसीत्
(अ) माता
(ब) प्रकृति
(स) सुरभिः
(द) बलीवर्द

RBSE Solutions

(vi) रामः आसनार्धम् उपवेशयति
(अ) लवकुशौ
(ब) धीरध्वजः
(स) शत्रुघ्नः
(द) सीता।

(vii) व्यायामः श्रमः वा सदैव मानवस्य भवति –
(अ) दुष्करम्
(ब) सुलभम्
(स) हितकारकः
(द) दुखकारकः

(viii) आश्वचेद् धावने वीरः भारस्य वहने –
(अ) खरः
(ब) श्वानः
(स) अश्वः
(द) बलीवर्दः

(ix) गुणी गुणं वेत्ति न वेत्ति
(अ) दुर्गुणो
(ब) निर्गुणो
(स) सगुणो
(द) न कोऽपि

(x) वाहनानाम् अनन्ताः पड्क्तयः धावन्ति
(अ) कानने
(ब) प्रदेशे
(स) महानगरेषु
(द) ग्रामेषु

RBSE Solutions

(xi) ‘समीक्ष्य’ शब्दस्यार्थमस्ति –
(अ) समम्
(ब) परीक्ष्य
(स) समीक्षणा
(द) शक्ति

(xii) बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्
(अ) कृषक:
(ब) कर्मकरः
(स) श्रमिकः
(द) खनित्र

प्रश्न 2.
(क) समुचित विभक्ति प्रयोगेण रिक्तस्थानानि पूरयत (1 + 1 = 2)
(i) भवतु ! अलम् ……………………………………… (नाटक)
(ii) सः ……………………………………… गार्योऽस्ति (गोत्र)

(ख) कोष्ठके शब्दस्य समुचित रूप प्रयोगेण रिक्तस्थानानि पूरयत
(iii) सः ……………………………………… अपि रोचते (अस्मद्)
(iv) रामदत्तोऽपि ……………………………………… अनुसरति। (दारक) (1 + 1 = 2)

(ग) कोष्ठके प्रदत्त प्रकृति प्रत्ययाभ्यां पदं निर्माय वाक्य परयत
(v) बालकैः गुरवः ………………………………………। (नम् + तव्यत्)
(vi) कार्यं ……………………………………… छात्रा: अङ्कान् लभन्ते। (कृ+शानच्) (1 + 1 = 2)

प्रश्न 3.
अधोलिखित गद्यांश पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि संस्कृतभाषया यथानिर्देशं कुरुत (1 x 10 = 10)

विवेकानन्दस्य जन्म कालिकाता नगरे अभवत्। तस्य पिता विश्वनाथ दत्तः माता च भुवनेश्वरी देवी आस्ताम्। तस्य प्रथमं नाम नरेन्द्रः आसीत्। नरन्द्र बाल्याद् एव क्राडापटुः, दयालुः, विचारशीतः, च आसीत्। ईश्वरः अस्ति न वा इति शङ्का आसीत्। शास्त्राणाम् अध्ययनेन बहूनां साधूना च समीपं गत्वा अपि शङ्का परिहार: न अभवत्। अन्ते च श्री रामकृष्ण परमहंसस्य सकाशात् तस्य सन्देह – परिहारः अभवत्। परमहंसस्य दिव्य प्रभावेण आकृष्टः सः तस्य शिष्यः अभवत्। सः विश्वधर्म सम्मेलने भाग ग्रहीतम् अमेरिका देशस्य शिकागो नगरं गतवान्। नत्र विविधतशीयान जनानुद्दिश्य हिन्दु – धर्म – विषये भाषणं कृतवान्। सः भारतीयान् ‘उत्तिष्ठ जाग्रत, दीनदेवो भव दरिद्र देवोभव’ – इति संबोधितवान्। अमूल्या: तस्योपदेशाः।

RBSE Solutions

(i) अस्य अनुच्छेदस्य उपयुक्त शीर्षक लिखत।
(ii) नरेन्द्रः बाल्यकाले कीदृशः आसीत्?
(iii) नरेन्द्रस्य ईश्वरविषयक शङ्कायाः परिहारः कुत्र अभवत् ?
(iv) विवेकानन्दः शिकागो सम्मेलने के विषयम् आश्रित्य भाषणं कृतवान् ?
(v) ‘ईश्वरः अस्ति नास्ति वा’ ‘अस्ति’ क्रियापदस्य कर्ता कः?
(vi) ‘दरिद्रदेवोभव’ अनयोः किं क्रियापदम् ?
(vii) ‘अमूल्याः तस्य उपदेशाः’ वाक्ये ‘तस्य’ सर्वनाम पदं प्रयुक्तम्
(अ) विवेकानन्दस्य
(ब) अमूल्या
(स) उपदेशाः
(द) भिक्षुकः
(vii) ‘उपदेशाः’ इत्यस्य विशेष्यपदस्य विशेषण पदं लिखत।
(ix) ‘उत्तिष्ठ’ इति पदस्य हिन्दी अर्थ: क?।
(x) ‘कृतवान्’ इति पदे लकार – पुरुष – वचनं लिखत।

(xi – xii) अधोलिखित प्रश्नानां उत्तराणि संस्कृत माध्यमेन लिखत (1 + 1 = 2)

1. अर्धबलस्य लक्षणं किम्?
अथवा
रामस्य कौतूहल: केन जनितः आसीत्?

2. अस्माभिः कीदृशः वृक्षः सेवितव्यः?
अथवा
वक: वन्यः जन्तूनां रक्षोपायाम् कथं चिन्तयितुं कथयति?

खण्ड – (ब)

लघूत्तरात्मक प्रश्नाः

प्रश्न 4.
अधोलिखितपदयोः सन्धिविच्छेदं कृत्वा संधेः नामापि लिखत – विपत्काल, चित्तकैश्च (1 + 1 = 2)

प्रश्न 5.
अधोलिखितपदयो; सन्धिं कृत्वा संधेः नामापि लिखत – सुप + अन्त, अरयः + अपि (1 + 1 = 2)

प्रश्न 6.
अधोलिखित रेखांकित पदयो समस्तपदानां विग्रहं कृत्वा समासस्य नामापि लिखत (1 + 1 = 2)

(क) पितरौ पुत्रस्य उन्नतिं दृष्ट्वा प्रसीदतः।
(ख) मधुरदुग्धं कस्मै न रोचते।

RBSE Solutions

प्रश्न 7.
अधोलिखित रेखांकित पदयोः विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत (1 + 1 = 2)

(क) अतिथेः पाणी च पादौ च प्रक्षालयति।।
(ख) स वर्ष – वर्षम् गङ्गास्नानाय गच्छति।

प्रश्न 8.
अधोलिखितपदयोः उपसर्ग शब्दं च पृथक् कृत्वा लिखत – अपहरति, अवरोहात (1 + 1 = 2)

प्रश्न 9. मंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत (1 + 1 = 2)

(क) अहं ……………………………………… जयपुरं गमिष्यामि। (श्वः/च/ह्यः)
(ख) ज्ञानं ……………………………………… न मुक्तिः। (व्यर्थ/तथा/विना)

प्रश्न 10.
अधोलिखितौ संख्यावाचिशब्दौ संस्कृते लिखत – (1 + 1 = 2)
382, 3031

प्रश्न 11.
अधोलिखितवाक्ययोः रेखाङ्कितपदमाधृत्य प्रश्न निर्माणं कुरुत (1 + 1 = 2)
(क) उभौ शवं चत्वरे स्थापितवन्तौ।
(ख) गजः पशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।

प्रश्न 12.
अधोलिखितश्लोकस्य अन्वयं कुरुत (2)
मृगाः मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिः तुरगास्तुरङ्गैः।
मूर्खाश्च मूर्खः सुधियः सुधीभिः, समान – शील – व्यसनेषु सख्यम्।।

RBSE Solutions

प्रश्न 13.
अधोलिखितवाक्ययोः शुद्धं कृत्वा लिखत (1 + 1 = 2)

(क) सः बालिका जलं पिवति।
(ख) किम् अहम् अपि चालिष्यति?

प्रश्न 14.
स्वपाठ्यपुस्तकात् श्लोकद्वयं संस्कृत भाषायाम् लिखत।

प्रश्न 15.
‘जननी तुल्यवत्सला’ इति पाठस्य सारं हिन्दी भाषायं लिखत।

प्रश्न 16.
पाठ्यपुस्तकात् पद्यांशस्य संस्कृते भावार्थ लेखनम् – (द्वयो एकस्य)
वायुमण्डलं भृशं दूषितं न हि निर्मल जलम्।
कुत्सिवस्तुमिश्रितं भक्ष्यं समलं धरातलम्।।
करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्। शुचि ……।।
अथवा
सर्वेष्वृतुष्वहरह: पुम्भिरात्महितैषिभिः।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा।।

खण्ड – (स)

प्रश्न 17.
अधोलिखित गद्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु –
“भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्वहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्। “भद्रे! नूनम्। सहस्राधिकषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्? इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्।

अथवा

अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्। न्यायाधीशो बंकिमचन्द्रः उभाभ्यां पृथक् – पृथक् विवरणं श्रुतवान्। सर्वे वृत्तमवगत्य स तं निर्दोषम् अमन्यतः आरक्षिणं च दोषभाजनम्। किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत्। ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्।

अन्येधुः तौ न्यायालये स्व – स्व पक्षं पुनः स्थापितवन्तौ। तदैव कश्चित् तत्रत्यः कर्मचारी समागत्य न्यवेदयत् यत् इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः। तस्य मृतशरीरं राजमार्ग निकषा वर्तते। आदिश्यतां किं करणीयमिति। न्यायाधीशः आरक्षिणम् अभियुक्तं च तं श. न्यायालये आनेतुमादिष्टवान्।

RBSE Solutions

प्रश्न 18.
अधोलिखित पद्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु –
प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते।।
अथवा
प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रिय हितम्।।

प्रश्न 19.
अधोलिखित नाट्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु
सिंहः – तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षको न तु रक्षकौ। एते वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलित।
बकः – सर्वधा सम्यगुक्तम् सिंहमहोदयेन। वस्तुतः एव सिंहेन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एवं राजेति निश्चेतव्यम् अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति।

अथवा

विदूषकः – किं कुपिता एवं भणति, उत प्रकृतिस्था?
कुशः – यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपति – निरनुक्रोशस्य पुत्रौ, मा चापलम् इति।
विदूषकः – एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्सयति।
रामः – (स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युगभैरक्षरैर्निर्भर्त्सयति। (सवाष्पमवलोकयति)

प्रश्न 20.
अधोलिखित क्रमरहितानि कथावाक्यानि क्रमेण योजयित्वा कथाक्रम संयोजनम् कुरुत
1. बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।
2. शृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात्।
3. स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्
4. व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रः भयाकुलचित्तो. नष्टः।
5. राजसिंहस्य भार्या बुद्धिमती पितुर्गृहं प्रति चलिता।
6. मार्गे गहनकानने सा एकं व्याघ्रं ददर्श।
अथवा
अधोलिखितानां पंचशब्देषु केचन त्रयाणां शब्दानां संस्कृते वाक्यः निर्माण कुरुत –
सदा, अनुजः, प्रभृतिः, इदानीं, श्रद्धावान्

RBSE Solutions

खण्ड – (द)

प्रश्न 21.
भवान् दिवाकरः दशम कक्षायाः छात्रः। आदर्श माध्यमिक विद्यालये पठन्ति। आधारकार्ड प्राप्तुं अध्ययन प्रमाण पत्रस्य आवश्यकता वर्तते।
अतः प्रधानाध्यापकाय अध्ययन प्रमाण पत्र प्राप्त प्रार्थना पत्रम् लिखत। (4)
अथवा
भवती सुशीला। भवती छात्रावासे पठति। और्णवस्त्राणि पुस्तकानि च क्रेतुं धनप्रेषणार्थं पितरं प्रति अधः अपूर्णपत्रं लिखितम्। मञ्जूषायाः सहायतया उचितशब्दैः रिक्तस्थानानि पूरयित्वा पुनः पत्रम् उत्तरपुस्तिकायां लिखतु।

मञ्जूषा – प्रणामाः, धनादेशद्वारा छात्रावासतः, चिराद्, पूज्यपितृचरणेषु, और्णवस्त्राणि, सुशीला, स्नेहवचनानि।

दिनाङ्कः 25.12.20_ _
………………………………………
सादरं ………………………………………
अत्र अहं स्वस्था अस्मि। ……………………………………… भवतां कपापत्रं न आयातम। निनिता भवतां कृपापत्रं न आयातम्। चिन्तिता अस्मि। अत्र मम सकाशे धनाभावः वर्तते। शीत: वर्धते। ……………………………………… क्रेतव्यानि। पुस्तकानि चापि क्रेतव्यानि सन्ति। अतः सहस्ररुप्यकाणि। ……………………………………… शीघ्रमेव प्रेषणीयानि। मातृचरणेषु प्रणती: समर्पये। रमायै अतुलाय च ……………………………………… दद्यात् भवान्।

भवतः पुत्री
……………..

प्रश्न 22.
मञ्जूषायां प्रदत्तशब्दानां सहायतया वार्तालापं पूरयतु।
मञ्जूषा: – मित्रैः, जयपुरं, कार्यक्रमः, दर्शनीयम्, यात्रानुभवविषये, द्रक्ष्यामः।।

विनोदः – अंकित! श्वः भवान् कुत्र गमिष्यति?
अंकितः – अहं ………………….. गमिष्यामि।
विनोदः – तत्र किमपि कार्य वर्तते ? अथवा ………………….. एव गच्छति?
अंकितः – कार्यं नास्ति, अहं तु ………………….. सह भ्रमणार्थं गच्छामि।
विनोदः – जयपुरे कुत्र – कुन भ्रमणस्य …………………..?
अंकितः – वयं तंत्र आमेर – दुर्ग, जयगढ़दुर्ग, गोविन्ददेव – मन्दिरं च …………………..।
विनोदः – तत्र नाहरगढ़ – दुर्गमपि पश्यतु। तदपि ………………….. अस्ति।
अंकित: – यदि समयः अवशिष्टः भविष्यति तर्हि निश्चयेन तत्र गमिष्यामः।
अथवा
अधः प्रदत्तं चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्दसहायतया षष्ठ संस्कृतवाक्यानि लिखत –
मञ्जूषा – उद्यानं, वृक्षाः, लता, पुष्पाणि, तडागः, जलयंत्रं, उत्पतति, उद्यानपालक, वसंतऋतौ, कोकिलः कूजन्ति
RBSE Class 10 E-Sanskrit Self Evaluation Test Papers 1

RBSE Solutions

प्रश्न 23.
अधोलिखितेषु षड्सु वाक्येषु केषाञ्चन चतुर्णा वाक्यानां संस्कृतेन अनुवादं कुरुत
1. मोहन और सोहन पत्र लिखते हैं।
2. सिंह वन में दौड़ता है।
3. राम और श्याम को विद्याध्ययन करना चाहिए।
4. सेवक ने अपना कार्य किया।
5. मोहन पत्र लिखेगा
6. राम कक्षा में पढ़ता है।

RBSE Class 10 E-Hindi Self Evaluation Test Paper 2

खण्ड – (अ)

प्रश्न 1.
अधोलिखित प्रश्नानां उचित विकल्पं चिनुत
(i) लोके महतो भयात् कः मुच्यते?
(अ) बुद्धिमान्
(ब) धनसम्पन्न
(स) बलशालिन
(द) वीरः

(ii) अतिथिं ससम्मानं कः मुक्तवान् ?
(अ) आरक्षी
(ब) अभियुक्तः
(स) न्यायाधीशः
(द) नागरिक

(iii) भारवतः शवस्य स्कन्धेन वहनम् कस्य कृते दुष्करम् आसीत्
(अ) आरक्षी
(ब) अभियुक्तः
(स) न्यायाधीशः
(द) जनः

(iv) अगाध जल सञ्चारी अपि को न गर्वं याति?
(अ) वक
(ब) मण्डूक
(स) रोहित
(द) कच्छप

RBSE Solutions

(v) ‘बहून्यपत्यानि मे’ इति केनोक्तम्?
(अ) धेनु
(ब) वृषभ
(स) सुराधिप
(द) सुरभ्या

(vi) लवः स्वमातुः कति नामानि कथयति?
(अ) त्रि
(ब) एक
(स) द्वे
(द) न कोऽपि

(vii) यः असमीक्ष्य व्यायामं करोति सः प्राप्नोति
(अ) बलम्
(ब) स्वास्थ्यम्
(स) धनम्
(द) रोगम्

(viii) सविता उदये भवति
(अ) ताम्रवर्ण
(ब) रक्तः
(स) उज्ज्वलः
(द) न कोऽपि

(ix) सम्पत्तौ च विपत्तौ च एकरूपता भवति
(अ) सविता
(ब) चन्द्र
(स) तारकः
(द) महताम्

RBSE Solutions

(x) ‘शुचिपर्यावरणं’ पाठानुसारेण ध्वानं वितरन्ती धावति
(अ) शकट
(ब) वाहन
(स) वाष्पयानमाला
(द) रॉकेट

(xi) रक्षकः शब्दस्यार्थमस्ति
(अ) भक्षक:
(ब) रक्षा
(स) त्राता
(द) विधात्रा

(xii) वृषभं कः पीडयति?
(अ) बलीवर्दः
(ब) कृषिका
(स) कृषक:
(द) सुराधिप

प्रश्न 2.
(क) समुचित विभक्ति प्रयोगेण रिक्तस्थानानि पूरयत
(i) कर्णः ………………………… सह नगरं गच्छति। (पिता)
(ii) ………………………… परितः वनानि सन्ति। (विद्यालय) (1 + 1)

(ख) कोष्ठके शब्दस्य समुचित रूप प्रयोगेण रिक्तस्थानानि पूरयत
(iii) …………….. अतितरां स्निह्यत्यसौ।(अस्मद्)
(iv) मम माता प्रातः काले ……………. गच्छति। (भ्रमण) (1 + 1)

(ग) कोष्ठके प्रदत्त प्रकृति प्रत्ययाभ्यां पदं निर्माय वा
(v) छात्रैः समये विद्यालयः ……………..। (गम् + तव्यत्)
(vi) न्यायाधीशेन न्यायः ……………..। (कृ + अनीयर) (1 + 1)

RBSE Solutions

प्रश्न 3.
अधोलिखित गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि संस्कृतभाषया यथानिर्देशं कुरुत (1 x 10 = 10)

मातृभूमि प्रति प्रेम्णः, त्यागस्य, आत्मोत्सर्गस्य, सर्वस्वार्पणस्य च नैके समुज्ज्वलाः पृष्ठाः राजस्थानस्य इतिहासे मिलन्ति परन्तु ‘रातीघाटी’ नामकस्य युद्धस्य उल्लेखः राजस्थानस्य इतिहासे लुप्तप्रायः वर्तते। बादशाह बाबर इत्यस्य पुत्रः (हुमायुः इत्यस्य अनुजः) कामरानः बीकानेरस्य राजा राव जैतसी च इत्यनयोः द्वयोः मध्ये बीकानेरे घटितं महत्युद्धं भारतीय – शौर्यस्य गौरवशालिनी कथा अस्ति। अस्य युद्धस्य तिथि: 26 ओक्टोबर 1534 ए.डी. इत्यस्ति। भारतं जेतुम् लाहोरात् आगतः कामरानः पलायितः। तस्य शिरस्त्राणं (मुकुटम्) मध्येमार्ग अद्यापि तन्मुकुटम् तद्ग्राम सुरक्षितम् अस्ति। अस्य रातीघाटी – युद्धस्य किञ्चिद् विस्तृतं वर्णन् ‘बीठू सूजा’ इत्यनेन रचिले ‘वन्द राव जैतसी रो’ इत्यस्मिन् ग्रन्थे वर्तते। अस्य च ग्रन्थस्य उद्धारं डॉ.एली.पी. टैस्सीटोरी अकरोत्।

(i) अस्य अनुच्छेदस्य समीचीनं शीर्षकं लिखन्तु।
(ii) रातीघाटी युद्धं कयोः द्वयोः मध्येऽभवत्?
(iii) रातीघाटी युद्ध कुत्र कदा घटितम्?
(iv) ‘छन्द राव जैतसी रो’ इत्यस्य लेखकः कः?
(v) गौरवशालिनी कथा – इत्यत्र किं विशेष्य पदम् किं च विशेषण पदम् इति लिखत।
(vi) गतः’ इति पदस्य विलोमार्थकं पदं अनुच्छेदात् अन्विष्य लिखत।। (vii) गौरवशालिनी कथा। अत्र विशेषणपदम् अस्ति –
(अ) शालिनी
(ब) गौरवशालिनी
(स) कथा
(द) न कोऽपि
(viii) ‘धावितः’ इत्यस्य पर्यायवाचिनं पदम् अनुच्छेदात् अन्विष्य लिख्यताम्।
(x) “शिरस्त्राणं’ इति पदस्य हिन्दी अर्थः क?
(x) ‘पलायितः’ इति पदे लकार – पुरुष – वचनं लिखत।

(xi – xii) अधोलिखित प्रश्नानां उत्तराणि संस्कृत माध्यमेन लिखत
1. महापुरुषा एकरूपा कदा भवन्ति
अथवा
एतस्मिन्नेव वृषभे कस्मात् इयती कृपा?

2. रामस्य कौतूहल: केन जनितः आसीत?
अथवा
कस्य विरुद्धमपि भोजनं परिपच्यते?

RBSE Solutions

खण्ड – (ब)

लघूत्तरात्मक प्रश्नाः

प्रश्न 4.
अधोलिखित पदयोः सन्धिविच्छेदं कृत्वा संधेः नामापि लिखत – प्रागेव, एकलोऽपि (1 + 1 = 2)

प्रश्न 5.
अधोलिखित पदयोः सन्धिं कृत्वा संधेः नामापि लिखित – कृषः + भयम्, अहम् + धावामि (1 + 1 = 2)

प्रश्न 6.
अधोलिखित रेखांकित पदयो समस्तपदानां विग्रहं कृत्वा समासस्य नामापि लिखत (1 + 1 = 2)

(क) यथासमयं कार्यं कुरु।
(ख) सीतारामौ वनम् अगच्छताम्।

प्रश्न 7.
अधोलिखित रेखांकित पदयोः विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत
(1 + 1 = 2)
(क) मुनय कन्दं च मूलं च फलं च खादन्ति।
(ख) पीतम् अम्बरं धारयति।

प्रश्न 8.
अधोलिखितपदयोः उपसर्ग शब्दं च पृथक् कृत्वा लिखत (1 + 1 = 2)
(क) आपत्तिः
(ख) अध्यक्षः

प्रश्न 9.
मंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत (1 + 1 = 2)
(क) सुरेखे! त्वं प्रभाते ……… गच्छति। (अपि/का/कुत्र)
(ख) अद्यागत ………… एव वात्याचक्रमुत्थापयसि। (प्राय/श्व/परं)

प्रश्न 10.
अधोलिखितौ संख्यावाचिशब्दौ संस्कृते लिखत – (1 + 1 = 2)
740, 2035

RBSE Solutions

प्रश्न 11.
अधोलिखितवाक्ययोः रेखाङ्कितपदमाधृत्य प्रश्न निर्माणं कुरुत (1 + 1 = 2)
(क) करुणापरो गृही तस्मै आश्रयं प्रयच्छत्।
(ख) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एव आसीत्।

प्रश्न 12.
अधोलिखितश्लोकस्य अन्वयं कुरुत
सम्पत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्तश्चास्तमयेतथा (2)

प्रश्न 13.
अधोलिखितवाक्ययोः शुद्धं कृत्वा लिखत (1 + 1 = 2)
(क) बालकाः विद्यालयं गच्छति।
(ख) अश्वः द्रुतगत्या धावन्ति।

प्रश्न 14.
स्वपाठ्यपुस्तकात् श्लोकद्वयं संस्कृत भाषायाम् लिखत्।

प्रश्न 15.
‘बुद्धिर्बलवती सदा’ इति कथायाः सारं हिन्दी भाषायां लिखत।

प्रश्न 16.
पाठ्यपुस्तकात् पद्याशस्य सस्कृत भावार्थ लेखनम् – (द्वयो एकस्य)
कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर – नदी – पयः पूरम्।।।
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। शुचि….।।
अथवा
वयोबलशरीराणि देशकालाशनानि च।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगामाप्नुयात्।

RBSE Solutions

खण्ड – (स)

प्रश्न 17.
अधोलिखित गद्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु –

कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बल: जवेन गन्तुमशक्तश्चासीत्। अतः कृषक: तं ..”दुर्बलं वृषभं तोदनेन नद्यमानः अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृष: नोत्थितः।
अथवा
वनस्य दृश्यं समीपे एवैका नदी वहति। एकः सिंहः विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनाति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूदित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।

प्रश्न 18.
अधोलिखित पद्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति, योजकस्तत्र दुर्लभः।।
अथवा
हृदिस्थानास्थितो वायुर्यदा वक्त्रं प्रपद्यते।
व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्।।

अधोलिखित नाटयांशस्य प्रसंगं हिन्दीभाषयां अनुवादं करोतु –
विदूषकः – इत इत आर्यो!
कुशलवौः – (रामस्य समीपम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः – युष्मदर्शनात्कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजन – समुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य) अहो हृदयग्राही स्पर्शः। (आसनार्धमुपवेशयति)
उभौ – राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
रामः – सव्यवधानं न चारित्रलोपाय। तस्मादङ्क व्यवहितमध्यास्यतां सिंहासनम्। (अङ्कमुपवेशयति)
अथवा
सिंहः – (क्रोधेन गर्जन्) भोः! अहं वनराजः किं भयं न जायते? किमर्थं मामेव तुदन्ति सर्वे मिलित्वा?
एक: वानरः – यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः। राजा तु रक्षकः भवति परं भवान् तु भक्षकः। अपि च स्वरक्षायामपि समर्थः नासि तर्हि कथमस्मान् रक्षिष्यसि?
अन्य वानरः – किं न श्रुता त्वया पञ्चतन्त्रोक्तिः।

RBSE Solutions

प्रश्न 20.
अधोलिखित क्रमरहितानि कथावाक्यानि क्रमेण योजयित्वा कथाक्रम संयोजनम् कुरुत –

1. अतः सः वानरः खगानां नीडानि वृक्षात् अधः अपातयत्।
2. खगाः शीतेन कम्पायमानं वानरम् अवदन् – “भो वानर! त्वं कष्टं अनुभवसि। तत् कथं गृहस्य निर्माणं न करोति?
3. वानरः एतत् वचनं श्रुत्वा अचिन्तयत् – अहो एते क्षुद्राः खगाः मां निन्दन्ति।
4. खगानां नीडः सह तेषाम् अण्डानि अपि नष्टानि।
5. एकदा महती वृष्टिः अभवत्। सः वानरः जलेन अतीव आर्द्रः कम्पितः च अभवत्।
6. कस्मिन् वृक्षतले कश्चित् वानर : निवसति स्म।
अथवा
अधोलिखितानां पंचशब्देषु केचन त्रयाणां शब्दानां संस्कृते वाक्यः निर्माण कुरुत – सूर्यः हस्तौ, त्रयः कोकिला, फलानि।

खण्ड – (द)

प्रश्न 21.
यूयं राजकीय – माध्यमिक विद्यालय लखनपुरस्य दशमी कक्षायाः छात्राः। स्वकीयं प्रधानाध्यापक प्रति एक प्रार्थना पत्रं शैक्षणिक भ्रमणार्थम् अनुमति हेतुः लिखत।
अथवा
भवान् सुरेशः, छात्रावासे वसति। शारदीये अवकाशे भवतां विद्यालये संस्कृतसम्भाषणशिविरं प्रचलिष्यति, अतः भवान् गृहं न गमिष्यति इति सूचयन् पितरं प्रति लिखितं पत्रं मञ्जूषापदंसहायतया पूरयित्वा उत्तरपुस्तिकायां पुनः लिखतु।।

मञ्जूषा – सम्यक्, जयपुरतः, कुशलिनः, मातृचरणयोः, सुरेशः, सादरं वन्दनानि, समाप्ता, संस्कृतसम्भाषणशिविरम्।

नर्मदाछात्रावासः
नवोदयविद्यालयः
………….

दिनाङ्कः 25.11.20 –

परमपूज्यपितृमहाभागाः!
………….
अत्र कुशलं तत्रास्तु। तत्रापि भवन्तः सर्वे ………………. इति मन्ये। अत्र मम पठनं ……………. प्रचलति। अर्धवार्षिकी परीक्षा। ………………। मम विद्यालये शारदीयेऽवकाशे …………. प्रचलिष्यति। अतः अहम् अवकाशदिनेषु गृहम् आगन्तुं न शक्नोमि। भवता दर्शनेन अहं वञ्चितः भवामि इति खेदः, तथापि शिविरेण मम ज्ञानवर्धनं भविष्यति इति नास्ति सन्देहः। …………….. अपि मम वन्दनानि। स्वकीयं क्षेमसमाचारं सूचयन्तु इति।

भवदीयः पुत्रः
…………..

RBSE Solutions

प्रश्न 22.
मञ्जूषातः उचितानि पदानि गृहीत्वा ‘धूम्रपान निवारणाय’ इति विषये गुरुशिष्ययोः संवादं पूरयत

मञ्जूषाः – गन्तुम्, अस्य, तुभ्यं, धूम्रपानं, स्वास्थ्य, प्रेरणाया, मया, दुर्व्यसनस्य। सोहनः – गुरुवर! अहं पश्यामि विद्यालये केचन् छात्रा …………… कुर्वन्ति।
गुरुः – वत्स! धूम्रपानं …………… विनाशकमस्ति।
सोहन: – गुरुवर! कोऽस्य …………… निवारणोपायः।
गुरु: – पुत्र! जन – जागतिरेव …………… दुर्व्यसनस्य निवारणोपायः।
सोहनः – गुरुवर! …………… किं करणीयम्?
गुरुः – त्वया छात्राः …………. यत् अस्माभिः धूम्रपानं न करणीयम्।
सोहनः – गुरुवर! ……………. किं करणीयम्।
गुरुः – वत्स! महत्वपूर्ण विषयोपरि वार्ता कर्तुं ………….. धन्यवादं ददामि।
अथवा
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया षष्ठ संस्कृतवाक्यानि लिखत
मञ्जूषा: – वर्षा, विद्यालय, मेघाः, छत्रं, कक्षा, मार्गेषु, प्रवहति, घोरगर्जनं, पुनः पुनः, वज्रपातः, सदृशः शब्दः, वर्षावकाशः।
RBSE Class 10 E-Sanskrit Self Evaluation Test Papers 2

प्रश्न 23.
अधोलिखितेषु षड्सु वाक्येषु केषाञ्चन चतुर्णां वाक्यानां संस्कृतेन अनुवादं कुरुत – (4)
1. गाँव के चारों ओर सड़क है।
2. उसने खाना खाया
3. अब वह चालाक कहाँ गया?
4. पक्षी घोंसला बनाकर निवास करते हैं।
5. सिंह जोर से दहाड़ता है।
6. उसने निर्धनों के लिए बहुत सा धन दिया।

RBSE Class 10 E-Hindi Self Evaluation Test Paper 3

खण्ड – (अ)

प्रश्न 1.
अधोलिखित प्रश्नानां उचित विकल्पं चिनुत
(i) मार्गे गहनकानने सा ददर्श
(अ) एक व्याघ्रं व्याचं
(ब) एक जम्बुकं
(स) एकं उष्ट्र
(द) एक चित्रक

(ii) अतिथि: कया क्रन्दति स्म
(अ) भार वेदनया
(ब) ताडने
(स) चपेटया
(द) बुभुक्षिता

RBSE Solutions

(iii) केन पीडितः सः बसयानं विहाय पदातिरेव प्राचलंत्
(अ) आरक्षीन्
(ब) न्यायाधीशेन
(स) परमर्थकार्येन
(द) न कोऽपि

(iv) मयूरस्य नृत्य आराधना
(अ) प्रकृतेः
(ब) ईश्वरः
(स) सर्वे प्राणिनः
(द) सूर्ये

(v) चण्डवातेन मेघरचैश्च सह कः समजायत् –
(अ) झंझा
(ब) धूम्र
(स) प्रवर्षः
(द) वर्षणः

(vi) बालभावात् हिमकरः कुत्र विराजते –
(अ) गगने
(ब) ब्रह्माण्डे
(स) पशुपति – मस्तके
(द) आश्रमे

(vii) कस्य आयासजननं कर्म व्यायाम इति कथ्यते
(अ) शरीरस्य
(ब) विद्यया
(स) भोजनम्
(द) नासिकया

RBSE Solutions

(viii) अनुक्तमपि कः ऊहति –
(अ) बालकः :
(ब) मूर्खा जनः
(स) पंडितो जनः
(द) न कोऽपि

(ix) फलहीनात् अपि वृक्षात् प्राप्यते
(अ) इंधन
(ब) प्राणवायुः
(स) छाया
(द) पुष्प

(x) उद्याने कस्य कलरवं चेतः प्रसादयति
(अ) जन्तुना
(ब) जनां
(स) पक्षिणां
(द) बालकानां

(xi) ‘आप्नुयात्’ शब्दस्यार्थमस्ति
(अ) लभते
(ब) रुग्णताम्
(स) आहाराः
(द) स्थानम्

(xii) “गच्छ वत्से! सर्वं भद्रं जायेत।” कः उक्तम्
(अ) कृषक:
(ब) सुरः।
(स) सुराधिपः
(द) असुरः

RBSE Solutions

प्रश्न 2.
(क) समुचित विभक्ति प्रयोगेण रिक्तस्थानानि पूरयत
(i) सः …………….. अपि तीक्ष्णः। (पठन्)
(ii) …………….. विना जीवनं नास्ति। (जल)

(ख) कोष्ठके शब्दस्य समुचित रूप प्रयोगेण रिक्तस्थानानि पूरयत –
(iii) …………….. इदानी कुत्र गताः। (तेभ्यः ) (iv) रविः प्रतिदिनं …………….. नमति। (ईश्वर)

(ग) कोष्ठके प्रदत्त प्रकृति प्रत्ययाभ्यां पदं निर्माय वाक्य पूरयत
(v) सर्वेः स्वकार्याणि समये ……………..! (कृ. + अनीयर)
(vi) परोपकारं …………….. देशस्य सर्वदा हितमेव चिन्तयन्ति। (कृ + शानच्)।

प्रश्न 3.
अधोलिखित गद्यांशं पठित्वा एतदाधारित प्रश्नानाम उत्तराणि संस्कतभाषया यथानिर्देशं करुत (1 x 10 = 10)

इदं हि विज्ञानप्रधानं युगम्। ‘विशिष्टं ज्ञानं विज्ञानम्’ इति कथ्यते। अस्यां शताब्द्यां सर्वत्र विज्ञानस्यैव प्रभावो दरीदृश्यते। अधुना नहि तादृशं किमपि कार्यं यत्र विज्ञानस्य साहाय्यं नापेक्ष्यते। आवागमने, समाचारप्रेषणे, दूरदर्शने, सम्भाषणे, शिक्षणे, चिकित्साक्षेत्रे, मनोरंजनकार्ये, अन्नोत्पादने, वस्त्रनिर्माणे, कृषिकर्मणि तथैवान्यकार्यकलापेषु विज्ञानस्य प्रभावस्तदपेक्षा च सर्वत्रैवानुभूयते।

सम्प्रति मानवः प्रकृतिं वशीकृत्य तां स्वेच्छया कार्येषु नियुङ्क्ते। तथाहि वैज्ञानिकैरनेके आविष्काराः विहितः। मानवजाते: हिताहितम् अपश्यद्भिः वैज्ञानिकैः राजनीतिविज्ञैर्वा परमाणुशक्तेः अस्त्रनिर्माणे एव विशेषत: उपयोगो विहितः तदुत्पादितं च लोकध्वंसकार्यम् अतिघोरं निघृणं च। अयं च न विज्ञानस्य दोषः न वा परमाणुशक्तेरपराधः, पुरुषापराधः खलु एषः। अतोऽस्य मानवकल्याणार्थमेव प्रयोगः करणीय।

(i) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।
(ii) इदं युगं कीदृशम् ?
(iii) विज्ञानं किम् अस्ति?
(iv) कैः आविष्काराः विहिताः?
(v) ‘इदं हि विज्ञान – प्रधानं युगम्’ अस्मिन् वाक्ये विशेषण विशेष्य निर्देशः कर्त्तव्यः।
(vi) ‘अस्य मानवकल्याणार्थम् एव प्रयोग: करणीयः’ अस्मिन् वाक्ये रेखांकित सर्वनामपदस्य स्थाने संज्ञापदस्य प्रयोगं कुर्वन्त।
(vii) वैज्ञानिकैः उपयोग विहितः। अत्र कः कर्ता
(अ) वैज्ञानिकैः
(ब) विहितः
(स) उपयोग
(द) न कोऽपि
(vii) ‘स्वं ज्ञानं’ इति पदे विलोमार्थक शब्दः क अस्ति?
(ix) ‘निघृणं’ इति पदस्य हिन्दी अर्थ: क?
(x) ‘कथ्यते’ इति पदे लकार – पुरुष – वचनं लिखत।

RBSE Solutions

(xi – xii) अधोलिखित प्रश्नानां उत्तराणि संस्कृत माध्यमेन लिखत

1. खगाः सिंहस्य दशां दृष्ट्वा किं कुर्वन्ति?
अथवा
जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान् ?

2. स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
अथवा
जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?

खण्ड – (ब)

लघूत्तरात्मक प्रश्नाः

प्रश्न 4.
अधोलिखितपदयोः सन्धिविच्छेदं कृत्वा संधेः नामापि लिखत – पितुर्ग्रहणम्’, एकैकः (1 + 1 = 2)

प्रश्न 5.
अधोलिखितपदयोः सन्धिं कृत्वा संधेः नामापि लिखित – यत्र + आस्ते, अन्यः + अपि (1 + 1 = 2)

प्रश्न 6.
अधोलिखित रेखांकितपदयो समस्तपदानां विग्रहं कृत्वा समासस्य नामापि लिखत (1 + 1 = 2)

(क) उपग्रामं विद्यालयः स्थितः।
(ख) बालकाय सचित्रम् पुस्तकं रोचते।

प्रश्न 7.
अधोलिखित रेखांकितपदयोः विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत (1 + 1 = 2)
(क) योग्यताम् अनतिक्रम्य कार्य दीयताम्।
(ख) पुण्यः क्षण – क्षणं क्षयति।

प्रश्न 8.
अधोलिखितपदयोः उपसर्ग शब्द च पृथक् कृत्वा लिखत (1 + 1 = 2)
(क) निर्वेदः
(ख) दुराशा

RBSE Solutions

प्रश्न 9.
मंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत (1 + 1 = 2)
(क) मानवसेवा ……………………………………… वृक्षाः केषां न हितकराः। (कृ + शानच्)
(ख) ……………………………………… वृक्षाः आश्रयं यच्छन्ति। (छाया + मतुप्)

प्रश्न 10.
अधोलिखितौ संख्यावाचिशब्दौ संस्कृते लिखत – (1 + 1 = 2)
787,3431

प्रश्न 11.
अधोलिखितवाक्ययोः रेखाङ्कितपदमाधृत्य प्रश्न निर्माणं कुरुत – (1 + 1 = 2)
(क) सर्वे प्रकृति मातरम् प्रणमन्ति।
(ख) कविः ग्रामान्ते एकान्ते कान्तारे संचरणं कर्तुम् इच्छति।

प्रश्न 12.
अधोलिखितश्लोकस्य अन्वयं कुरुत (2)
कञ्चित् कालं नय मामस्मान्नगराद् बहुदूरम्।
प्रपश्यामि ग्रामान्ते निर्झर – नदी – पयःपूरम् ॥
एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्। शुचि…..॥

प्रश्न 13.
अधोलिखितवाक्ययोः शुद्धं कृत्वा लिखत (1 + 1 = 2)
(क) धनिक: निर्धनं भोजनं ददाति।
(ख) सुमित्रं पापेन निवारयति।

प्रश्न 14.
स्वपाठ्यपुस्तकात् श्लोकद्वयं संस्कृत भाषायाम् लिखत्।

प्रश्न 15.
‘सौहार्द प्रकृते शोभा’ इति पाठस्य सारं हिन्दी भाषायां लिखत।

RBSE Solutions

प्रश्न 16,
पाठ्यपुस्तकात् पद्यांशस्य संस्कृते भावार्थ लेखनम् – (द्वयो एकस्य)
यदि न स्यान्नरपतिः सम्यनेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥
अथवा
वयोबलशरीराणि देशकालाशनानि च।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात् ॥

खण्ड – (स)

प्रश्न 17.
अधोलिखित गद्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु

विचित्रां दैवगतिः। तस्यामेव रात्रौ तस्मिन् गृहे कश्चन चौर: गृहाभ्यन्तरं प्रविष्ट। तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथि चौरोऽयम् इति प्रख्याप्य कारागहे प्राक्षिपत।
अथवा
जम्बुक: – यदि एवं तर्हि मा निजगले बद्ध्वा चल सत्वरम्। स व्याघ्रः तथाकृत्वा काननं ययौ। शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती जम्बुककृतोत्साहाद् व्याघ्रात् कथं मुच्यताम? परं प्रत्युत्पन्नमतिः सा जम्बुकमाक्षिपन्त्यङ्गल्या तर्जयन्त्युवाच रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा। विश्वास्याद्यैकमानीय कथं यासि वदाधुना॥

प्रश्न 18.
अधोलिखित पद्यांशस्य सप्रसंगं हिन्दी भाषयां अनुवाद करोतु
उदीरितोऽर्थः पशुनापि गृह्यते, हयाश्च मागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितोजनः, परेङ्गितज्ञानफला हि बुद्धयः॥
अथवा
महानगरमध्ये चलदनिशं कालायसचक्रम्।
मनः शोधयत् तनुः पेषयद् भ्रमति सदा वकम्॥
दुन्तिर्दशनैरमुना स्यान्नैव जनग्रसनम् ॥ शुचि…. ॥

RBSE Solutions

प्रश्न 19.
अधोलिखित नाट्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु
व्याघ्रः – गच्छ, गच्छ जम्बुक! त्वमपि किञ्चिद् गू यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं – गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः।।
शृगालः – व्याघ्र! त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभेषि?
व्याघ्रः – प्रत्यक्षमेव मया सात्मपुत्रावेकैकशे मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।
जम्बुक: – स्वामिन् ! यत्रास्ते सा धूर्ता तत्र गम्यताम्। व्याघ्र! तव पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि, तर्हि त्वया अहं हन्तव्यः इति।
अथवा
रामः – आतदाधः प्रवासाय दारुणर अतिदीर्घः प्रवासोऽयं दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयो मतो वेदितुमिच्छामि। न युक्तं च स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः?
विदूषकः – (जनान्तिकम्) अहं पुनः पृच्छामि। (प्रकाशम्) किं नामधेया युवयोर्जननी?
लव: – तस्याः द्वे नामनी।
विदूषकः – कथमिव?
लव: – तपोवनवासिनो देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिर्वधूरिति।
रामः – अपि च इतस्तावद् वयस्य! मुहूर्त्तमात्रम्।
विदूषकः – (उपसृत्य) आज्ञापयतुं भवान्।।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?

प्रश्न 20.
अधोलिखित क्रमरहितानि कथावाक्यानि क्रमेण योजयित्वा कथाक्रम संयोजनम् कुरुत
1. सः जलं पातुं स्नातुं च प्रतिदिनम् सरितः तटम् अगच्छत्।
2. एकदा सौचिकस्य पुत्रः गजस्य करे सूचिकाम् अभिनत्
3. क्रुद्धः सन् गजः स्वकरे पङ्किलं जलम् आनयत्।
4. तदा सौचिकस्य पुत्रः आत्मग्लानिम् अनुभूय अति खिन्नः अभवत्।
5. सौचिकस्य आपणे स्यूतेषु वस्त्रेषु असिंचत्।
6. एक गजः आसीत्।
अथवा
अधोलिखितानां पंचशब्देषु केचन त्रयाणां शब्दानां संस्कृते वाक्यः निर्माण कुरुत – विष्णुः, लता, धेनु, अश्रुः, धिक्

RBSE Solutions

खण्ड – (द)

प्रश्न 21.
भवान् राजकीय उच्च माध्यमिक विद्यालयः जोधपुरस्य दशम्याः कक्षायाः छात्राः हरीश अस्ति। विद्यालये क्रीडायाः सम्यग् व्यवस्थायै एक प्रार्थना पत्रं स्वस्यप्रधानाचार्याय लिखतु। (4)
अथवा
भवती राजकीय – उच्च – माध्यमिकविद्यालयः रामनगरम् इत्यस्य दशमकक्षायाः नन्दिनी नामा छात्रा अस्ति। भवत्याः सखी प्रतिभाम् एकं पत्रं लिखंतु, यस्मिन् ‘मम विद्यालयः मह्यम्. अत्यधिक रोचते’ इति वर्णनं स्यात्।
मञ्जूषा – कुशलम्, निवेद्यताम्, आदर्शविद्यालयः, सुसज्जितम्, पुस्तकानि, पत्र – पत्रिका, रामनगरम्।

राजकीय – उच्च – माध्यमिकविद्यालयः
………………..
रामनगरम्
दिनाङ्कः 25.03.20_ _
प्रिय सखि प्रतिभे!
सादरं वन्दे।
अत्र सर्वगतं ……………………………………… अस्ति। भवती अपि तत्र कुशलिनी इत्यहं मन्ये। अद्य चिरात् प्राप्तम् ……………………………………… स्नेहसिक्तं पत्रम्। भवती इच्छति यद् अहं मम विद्यालस्य विषये भवतीं प्रति लिखेयम्। नि:संशयोऽयं मम विद्यालय: मह्यम् अत्यधिक रोचते यतः अस्य भवनम् अतिविस्तृतं भव्यम्। ……………………………………… द्विभूमिकं च। अस्य पुस्तकालये बहूनि ……………………………………… सन्ति, वाचनालये विविधाः नूतनाः ……………………………………… च समायान्ति। अत्र पठन – पाठनस्य क्रीडायाः च सम्यग् व्यवस्था अस्ति। एष एकः सुव्यवस्थितः, सम्यगनुशासितः प्रशासितश्च ……………………………………… अस्ति। अतः अयं मम विद्यालयः मह्यम् अत्यधिकं रोचते। शेषं कुशलम्। पित्रोः चरणयोः प्रणत्य: मनीषयौ च स्नेहः ………………………………………।

भवत्याः प्रिय सखी
नन्दिनी

RBSE Solutions

प्रश्न 22.
अधोलिखितं संवादं मञ्जूषाप्रदत्तसहायता पूरयित्वा पुनः लिखत।
मञ्जूषाः – मैट्रोयानेन, आगच्छ:, आवाम्, विद्यालयः, चलिष्यामि, अवश्यमेव, दृष्ट्या, तस्मिन्।

रमा – लतिके! तब ……………………………………… दिल्ली. नगरस्य छविः अद्यत्वे केन प्रतीयते.? लतिका – मम विचारे तु
रमा – किं त्वं कदापि तस्मिन् ………………………………………
लतिका – अनेकशः ……………………………………… तु तेनैव प्रतिदिनं मया गम्यते।
रमा – लतिके! अहम् अपि त्वया सह ……………………………………… यात्रां कर्तुमिच्छामि।
लतिका – सखि! द्वितीये शनिवासरे अवकाशे ……………………………………… तेन प्रगतिक्षेत्रे गमिष्यामः।
रमा – अहम् अपि ………………………………………
लतिका – आम, त्वां तत्र ……………………………………… नेष्यामि।
अथवा
चित्रं दृष्ट्वा शब्दसूचीसहायतया संस्कृत षष्ठवाक्यानि लिखत
मञ्जूषा – छात्राः शिक्षकाः पुस्तकालयः, तरणतालः, कक्षाः, क्रीडाक्षेत्र, उद्यान, अनुशासन, पठन्ति, विद्यालयः, पुस्तकानि, अभ्यासः।
RBSE Class 10 E-Sanskrit Self Evaluation Test Papers 3

प्रश्न 23.
अधोलिखितेषु षड्सु वाक्येषु केषाञ्चन चतुर्णा वाक्यानां संस्कृतेन अनुवादं कुरुत – (4)
1. गीता घर जाती है।
2. मोहन वाराणसी गया।
3. वह विद्यालय जाए।
4. तुम्हें अपना पाठ पढ़ना चाहिए।
5. रमा जल पियेगी।
6. हम गेंद से खेलते हैं।

RBSE Class 10 E-Hindi Self Evaluation Test Paper 4

खण्ड – (अ)

प्रश्न 1.
अधोलिखित प्रश्नानां उचित विकल्पं चिनुत ..

RBSE Solutions

(i) गृहीतकरजीवितः बुद्धिमत्याः अग्रतः कः नष्ट:
(अ) जम्बुकः
(ब) लोमशिका
(स) व्याघ्रः
(द) सिंह

(ii) कः प्रावारकमपसार्य उत्तिष्ठत्
(अ) आरक्षी
(ब) अभियुक्तः
(स) शवः
(द) न्यायाधीशः

(iii) सुपुष्टदेहः कः आसीत्
(अ) आरक्षी
(ब) अतिथि
(स) नागरिक
(द) न्यायाधीश

(iv) वन्य जीवानां किम् आश्रयः
(अ) प्रकृति
(ब) अन्योन्याश्रयः
(स) दैवः
(द) न कोऽपि

(v) कः कृच्छ्रेण भारम् उद्वहति
(अ) दुर्बल वृषभः
(ब) सबल वृषभः
(स) बलीवर्दयो
(द) सुरभि

RBSE Solutions

(vi) लवकुशौ कः त्वरयति?
(अ) रामः
(ब) विदूषकः
(स) वशिष्ठः
(द) उपाध्यायदूतः

(vii) हृदिस्थानं स्थितः वायुः कदा वक्त्रं प्रपद्यते
(अ) पूर्णबल प्रयोगेन
(ब) बलार्द्धप्रयोगेन
(स) व्यायामभिरतस्य
(द) व्यायामी

(viii) किं कुर्वाणः नरः कदापि दुखं न प्राप्नोति।
(अ) परिश्रमं।
(ब) मित्रतां
(स) शत्रुतां
(द) व्यायाम

(ix) मनुष्यः कैः सह मित्रतां करोति
(अ) समस्वभावैः जनैः
(ब) भ्रातः सह
(स) पित्तृः सहः
(द) न कोऽपि

(x) ‘शुचिपर्यावरणं’ पाठानुसारेण वास्तविकं सुखं विद्यते
(अ) माता सन्निधौ
(ब) मित्र सन्निधौ
(स) प्रकृत्याः सन्निधौ
(द) न कोऽपि

RBSE Solutions

(xi) ‘वीक्ष्य’ शब्दस्यार्थमस्ति
(अ) अवलोक्य
(ब) अखिल:
(स) अनिद्रः
(द) यावत्

(xii) कः हर्षातिकरेण गृहमागत्
(अ) कृषक:
(ब) सुरभि
(स) इन्द्रः
(द) बलीवर्दः

प्रश्न 2.
(क) समुचित विभक्ति प्रयोगेण रिक्तस्थानानि पूरयत
(i) मम …………….. स्वां दुहितरं यच्छ। (पिता)
(ii) सा …………….. बहिः आगन्तव्यम्। (गृह)

(ख) कोष्ठके शब्दस्य समुचित रूप प्रयोगेण रिक्तस्थानानि –
(iii) …………….. कक्षायां बालकाः पठन्ति। (इदम्)
(iv) कस्मिंश्चिद् …………….. एका निर्धना वृद्धा स्त्री। (ग्राम)

(ग) कोष्ठके प्रदत्त प्रकृति प्रत्ययाभ्यां पदं निर्माय वाक्य पूरयत
(v) अस्माभिः परस्परं स्नेहेन ……………..। (वस् + तव्यत्)
(vi) छात्रे: अनुशासनम् ……………..। (पाल् + अनीयर)

प्रश्न 3.
अधोलिखित गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि संस्कृतभाषया यथानिर्देशं कुरुत (1 x 10 = 10)

परेषां प्राणिनामुपकारः परोपकारोऽस्ति। परस्य हित सम्पादनं मनसा वाचा कर्मणा च अन्येषां हितानुष्ठानमेव परोपकार शब्देन गृह्यते। संसारे परोपकारः एव सः गुणो विद्यते, येन मनुष्येषु सुखस्य प्रतिष्ठा वर्तते। परोपकारेण हृदयं पवित्र सरलं, सरसं, सदयं च भवति। सत्पुरुषा कदापि स्वार्थपराः न भवति। ते परेषां दु:खं स्वीयं दुःखं मत्वा तन्नाशाय यतन्ते। सज्जनाः परोपकारेण एव प्रसन्नाः भवति। परोपकार भावनैव दधीचिः देवानां स्वकीयानि अस्थीनि ददौ। महाराजशिविः कपोत रक्षणार्थं स्वमांसं श्येनाय प्रादात्। अस्माकं शास्त्रेषु परोपकारस्य महत्ता वर्णिता। प्रकृतिरपि परोपकारस्यै शिक्षां ददाति। अतः सर्वेरपि सर्वदा परोपकार: करणीयः।

RBSE Solutions

(i) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत।।
(ii) महाराज शिविः परोपकाराय किम् अकरोत् ?
(iii) प्रकृति किं शिक्षते?
(iv) परोपकारः कः अस्ति?
(v) “ते परेषां दुःखं ……………………………………… अत्र ‘ते’ सर्वनामपदस्य स्थाने संज्ञापदं किम्? (vi) “प्रकृतिरपि परोपकारस्यैव शिक्षा ……………………………………… अत्र कर्तृपदं किमस्ति? (vii) ‘कठिन’ इति पदस्य विलोमपदं चिनुत।।
(अ) सरल
(ब) काठिन्य
(स) सुदीर्घ
(द) दुर्गम्य
(viii) ‘सुखस्य प्रतिष्ठा वर्तते’ अत्र क्रियापदं किम्?
(ix) ‘स्वीयं’ इति पदस्य हिन्दी अर्थ: क?
(x) ‘ददौ’ इति पदे लकार – पुरुष – वचनं लिखत।

(xi – xii) अधोलिखित प्रश्नानां उत्तराणि संस्कृत माध्यमेन लिखत
1. बुद्धिमती श्रृंगालं किमुक्तवती?
अथवा
व्यायामेन केषां सहिष्णुतोपजायते?

2. कौतूहलेन रामः किम् अपृच्छत्?
अथवा
माता सुरभिः किमर्थमश्रुति मुञ्चति स्म।

खण्ड – (ब)

लघूत्तरात्मक प्रश्नाः

प्रश्न 4.
अधोलिखित पदयोः सन्धिविच्छेदं कृत्वा संधेः नामापि लिखत – कुर्वन्नासीत्, तयोरेकः (1 + 1 = 2)

प्रश्न 5.
अधोलिखित पदयोः सन्धि कृत्वा संधेः नामापि लिखत – बहूभि + अपत्यानि, योजक: + तत्र (1 + 1 = 2)

प्रश्न 6.
अधोलिखित रेखांकित पदयों समस्तपदानां विग्रहं कृत्वा समासस्य नामापि लिखत (1 + 1 = 2)

(क) कृष्णाङ्गारान् अपि तीर्थभ्यः प्रेषितवती।
(ख) वयोरूपगुणैः हीनानमपि कुर्यात्सुदर्शनम्।।

प्रश्न 7.
अधोलिखित रेखांकित पदयोः विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत – (1 + 1 = 2)

(क) रामः च लक्ष्मणः च विश्वामित्रस्य शिष्यौ आस्ताम्।
(ख) अयं संसार: मरणशीलः अस्ति।

प्रश्न 8.
अधोलिखितपदयोः उपसर्ग शब्दं च पृथक् कृत्वा लिखत – अधिहरिः, उदगमनम् (1 + 1 = 2)

RBSE Solutions

प्रश्न 9.
मंजूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत (1 + 1 = 2)
(क) स्थाने खलु ऋषिजनेन सर्वदमन ……………………………………… कृतनामधेयोऽसि। (अपि/इति/यत
(ख) ……………………………………… केनापि कृपालुना अनाथालये प्रवेशितः। (यत्र/तत्र/कुत्र)

प्रश्न 10.
अधोलिखितौ संख्यावाचिशब्दौ संस्कृते लिखत – 537, 2029 (1 + 1 = 2)

प्रश्न 11.
अधोलिखितवाक्ययोः रेखाङ्कितपदमाधृत्य प्रश्न निर्माणं कुरुत (1 + 1 = 2)

(क) धेनूनाम् माता सुरभिः आसीत्।
(ख) विदूषकेनोपदिश्यमानमार्गो तापसौ कुशलवौ प्रविशतः

प्रश्न 12.
अधोलिखितश्लोकस्य अन्वयं कुरुत – (2)
गुणी गुणं वेत्ति न वेत्ति निर्गुणो, बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः, करी च सिंहस्य बलं न मूषकः।।

प्रश्न 13.
अधोलिखितवाक्ययोः शुद्धं कृत्वा लिखत (1 + 1 = 2)
(क) शिष्यः गुरोः भक्तिं करोति।
(ख) ग्रामस्य परितः जलम् अस्ति।

प्रश्न 14.
स्वपाठ्यपुस्तकात् श्लोकद्वयं संस्कृत भाषायाम् लिखत्। (2)

प्रश्न 15.
‘शिशुलालनम्’ इति पाठस्य सारं हिन्दी भाषायां लिखत। (2)

प्रश्न 16.
पाठ्यपुस्तकात् पद्यांशस्य संस्कृते भावार्थ लेखनम् – (द्वयो एकस्य)
निमित्तमुद्दिश्य हि यः प्रकुप्यति, ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै, कथं जनस्तं परितोषयिष्यति।।
अथवा
भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर् गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्। कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं पुनाति श्रोतारं रमयति च सोऽयं परिकरः।।

RBSE Solutions

खण्ड – (स)

प्रश्न 17.
अधोलिखित गद्यांशस्य सप्रसंगं हिन्दी भाषयां अनुवादं करोतु –
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणा निजपक्षं प्रस्तुतवति आश्चर्यमघटत् ‘स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान् – मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुझ्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति।,
अथवा
बकः – अरे! अरे! मां विहाय कथमन्यः कोऽपि राजा भवितुमर्हति। अहं तु शीतले जले बहुकालपर्यन्तम् अविचल: ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि, योजनां निर्मीय च स्वसभायां विविधपदमलंकुर्वाणैः जन्तुभिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यामि, अत: अहमेव वनराजपदप्राप्तये योग्यः।

प्रश्न 18.
अधोलिखित पद्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु – (3)
क्रोधो हि शत्रुः प्रथमो नराणां, देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः, स एव वह्निर्दहते शरीरम्।।
अथवा
प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।।
मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि …..।। (3)

प्रश्न 19.
अधोलिखित नाट्यांशस्य सप्रसंगं हिन्दीभाषयां अनुवादं करोतु (3)
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ? विदूषक: – किं द्वयोरप्येकमेव प्रतिवचनम् ?
लवः – भ्रातरावावां सोदयौँ।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः सम्प्रति युज्यते। किं नामधेयम्?
लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
अथवा
वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति)। (गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं.
सिंहः – वानरस्तु कूर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तः दृष्ट्वा सिंहः अपि हसति वदति च।)
सिंहः – भोः गजः मामप्येवमेवातुदन् एते वानराः।
वानरः – एतस्मादेव तु कथयामि यदहमेव योग्यः वनराजपदाय येन विशालका पराक्रमिर्ष भयकरं चापि सिंह गजं, व पराजेतुं अस्माकं जातिः। अतः वन्यजन्तूना रक्षाय वयमव क्षमाः।।

RBSE Solutions

प्रश्न 20.
अधोलिखित क्रमरहितानि कथावाक्यानि क्रमेण योजयित्वा कथाक्रम संयोजनम् कुरुत –
1. एकदा वने सिंह पाशबद्ध अभवत्।
2. मूषिका पाशं छित्वा सिंह मुक्तम् अकरोत्।
3. दर्याः सिंहः हसन् एव ताम् अत्यजत्।
4. एकस्मिन् वने एका मूषिका एक सिंहश्च निवसतः स्म।
5. गृहीतवान् मूषिका अवदत् – श्रीमन् अपराधं क्षमस्व मां मुञ्चतु।
6. शयानस्य सिंहस्य उपरि मूषिका अभ्रमत् तेन कारणने सिंहः जागृतः।
अथवा
अधोलिखितानां पंचशब्देषु केचन त्रयाणां शब्दानां संस्कृते वाक्यः निर्माण कुरुत – रक्षति, ज्ञायते, दुष्करम्, गर्जति, विचार्य

खण्ड – (द)

प्रश्न 21.
भवान् राजकीय उच्च माध्यमिक विद्यालय श्रीकरनपुरस्य दशम्या कक्षायाः छात्रः राजेशः अस्ति। विद्यालये स्वच्छतायाः व्यवस्थायै एक प्रार्थना पत्रं प्रधानाचार्य प्रति लिखत।
अथवा
भवती कविता। जयपुरे निवसति कैलाशपुर्याम्। स्वस्य दिनचर्याविषयकं स्वसखी स्मितां प्रति अधोलिखितमपूर्णपत्रं मञ्जूषायां प्रदत्तपदसहायता पूरयित्वा पुनः उत्तरपुस्तिकायां लिखतु।

मञ्जूषा – दिनचर्याम्, चिरात्, पञ्चवादने, हर्षम्, सार्धषड्वादनपर्यन्त, दशवादने, निवृत्य, भुक्त्वा।।

कैलाशपुरी
जयपुरतः
दिनाङ्कः 25.03.20_ _

प्रिय सखि स्मिते।
सस्नेह नमस्ते।
अत्र सर्वं कुशलम्। भवती अपि कुशलिनी इत्यहं कामये। अद्य ……………………………………… भवत्पत्रं प्राप्तम्। अहम् अतीव ……………………………………… अनुभवामि। भवती मम ……………………………………… ज्ञातुम् इच्छति। अतोऽहम् अत्र मे दिनचर्या लिखामि। सखि! अहं प्रातः ……………………………………… उत्तिष्ठामि। सार्धपञ्चवादनात् ……………………………………… प्रातः भ्रमणं करोमि। ततः स्नानादिभिः नववादनतः दशवादनपर्यन्तम् अध्ययनं करोमि। ……………………………………… विद्यालयं गच्छामि। सायं पञ्चवादने विद्यालयात् आगत्य क्रीडाङ्गणो क्रीडामि। सप्तवादने अहं भोजनं ……………………………………… पठामि गृहकार्यं च करोमि। रात्रौ दशवादने शये। मातापित्रो: चरणयोः मे प्रणत्यः।

भवदीया प्रिय सखी
कविता

RBSE Solutions

प्रश्न 22.
मञ्जूषात: उचितानि पदानि चित्वा अधोलिखित ‘नागरिकनाविकयोः संवाद’ पूरयत।

मञ्जूषा: – तारकानि, नौका, नक्षत्र – विद्याम्, त्रिचतुर्थांशः, गणना, जीवनस्य, उदरं, सम्पूर्णमेव, तरणम्।
नागरिक; – भो: नाविक! ……………………………………… जानासि?,
नाविक: – नहि नहि अहं तु प्रतिदिनं ……………………………………… दष्टवा नमामि।
नागरिक: – (हसन्) भो मूर्ख! तव जीवनस्य ……………………………………… नष्टः। गणितं पठितवान् किम्?
नाविक: – ……………………………………… जानामि. न तु गणितम्।
नागरिक: ……………………………………… अरे तव ……………………………………… अर्धं व्यर्थः गतः। वृक्षविज्ञानं जानासि? नाविकः – न जानामि। कथमपि ……………………………………… चालयामि (vii) ……………………………………… च पालयामि।
नागरिक; – हा हन्त! तव जीवनस्य ……………………………………… व्यर्थः गतः।
नाविक: – श्रीमान् वायु प्रकोपः उत्पन्नः। र्दित्वा तरामि। किं त्वं तरणं जानासि?
अथवा
चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया षष्ठ संस्कृतवाक्यानि लिखत
मञ्जूषा: – श्यामपट्टः, गणितस्य, अध्यापिका, बालकः, लिखितम्, प्रश्नाः, घटिका यन्त्रानुसारम्
RBSE Class 10 E-Sanskrit Self Evaluation Test Papers 4

प्रश्न 23.
अधोलिखितेषु षड्सु वाक्येषु केषाञ्चन चतुर्णां वाक्यानां संस्कृतेन अनुवादं कुरुत
1. उसने यह कार्य किया।
2. घोड़ा दौड़ता है।
3. किसान बकरी ले जाता है।’
4. तुम्हें याचकों को दान करना चाहिए।
5. मित्रों के साथ कलह मत करो।
6. मोहन पत्र लिखता है।

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Model Papers

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • RBSE Class 5 Hindi रचना पत्र लेखन
  • RBSE Solutions for Class 9 Science Chapter 2 पदार्थ की संरचना एवं अणु
  • RBSE Solutions for Class 5 Hindi परिवेशीय सजगता
  • RBSE Solutions for Class 5 Hindi Chapter 14 स्वर्ण नगरी की सैर
  • RBSE Solutions for Class 5 Hindi Chapter 17 चुनाव प्रक्रिया कब, क्या व कैसे?
  • RBSE Class 5 Hindi व्याकरण
  • RBSE Solutions for Class 5 Hindi Chapter 16 दृढ़ निश्चयी सरदार
  • RBSE for Class 5 English Vocabulary One Word
  • RBSE Solutions for Class 5 Environmental Studies Manachitr
  • RBSE Solutions for Class 9 Maths Chapter 1 वैदिक गणित Additional Questions
  • RBSE Class 5 English Vocabulary Road Safety

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2025 RBSE Solutions

 

Loading Comments...