RBSE Class 10 Sanskrit Model Paper 3 are part of RBSE Class 10 Sanskrit Board Model Papers. Here we have given RBSE Class 10 Sanskrit Sample Paper 3.
Board | RBSE |
Textbook | SIERT, Rajasthan |
Class | Class 10 |
Subject | Sanskrit |
Paper Set | Model Paper 3 |
Category | RBSE Model Papers |
RBSE Class 10 Sanskrit Sample Paper 3
समय: 3 ¼ (सपाद होरात्रयम् )
अधिकतमांका: 80
परीक्षार्थिभ्यः सामान्यनिर्देशाः
- परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामाङ्कः अनिवार्यतः लेख्यः।
- सर्वे प्रश्ना: अनिवार्याः।
- सर्वेषां प्रश्नानामुत्तराण्युत्तरपुस्तिकायामेव लेखनीयानि।
- एकस्य प्रश्नस्य सर्वे भागाः एकत्र एव लेखनीया।
- सर्वे प्रश्ना: संस्कृतभाषयैव उत्तरणीयाः।
प्रश्न 1.
अधोलिखितस्य गद्यांशस्य सप्रसंग हिन्दी भाषायाम् अनुवादं करोतु [5]
महाराजस्य सूरजमल्लस्य जन्म वसन्तपञ्चम्याम् (१३ फेब्रवरी-दिने) १७०७ तमे ईस्वीयवर्षे अभवत्। स हि महाराजस्य बदनसिंहस्य ज्येष्ठपुत्रः तस्योत्तराधिकारी चासीत्। सूरजमल्लस्य अपरम् एकं नाम सुजानसिंह: इत्यासीत्। अष्टादशः शताब्दस्य भारतस्य नायकेषु अन्यतमः आसीत् सूरजमल्लः। तस्य जनिः तदा अभूत् यदा भारतदेशस्य राजनीतिः अत्यन्तं दोलायमाना आसीत्, भारतं च विंध्वंसक-शक्तीनां बाहुपाशे सर्वथा निबद्धम् आसीत्। नादिरशाहः, अहमदशाह अब्दाली इत्येताभ्यां पापिभ्याम् उत्तर-भारते महता प्रमाणेन नरवधाः गोवधाश्च क्रियन्ते स्म, तीर्थानि मन्दिराणि च विध्वस्तानि क्रियन्ते स्म भारतं लुण्ठितुम् आगच्छतः बाह्याक्रमणकारिणः निरोद्धं न कोऽपि शासकः सज्ज: आसीत्।
अथवा
एवं विभाव्य बिलद्वारं गत्वा तम् आहूतवान्–एहि, एहि प्रियदर्शन, एहि ! तच्छुत्वा सर्पोऽचिन्तयत्-‘य एषः माम् आह्वयति, न स स्वजातीयः। यतो नैषा सर्पवाणी। तदत्रैव दुर्गे स्थितस्तावद् वेद्मि-कोऽयमिति ?” आह च* भोः को भवान् ?’ स आह_ “भोः गङ्गदत्तो नाम मण्डूकाधिपतिः त्वत्सकाशे मैत्र्यर्थमभ्यागतः।” तच्छ्रुत्वा सर्प आह* भो अश्रद्धेयमेतत् यत् तृणानां वह्निना सह संगमः।”
प्रश्न 2.
अधोलिखितस्य पद्यांशस्य हिन्दीभाषायाम् अनुवादं करोतु [5]
आततायिनम् आयान्तं हन्यादेवाविचारयन्।
नाततायि-वधे दोषो हन्तुर्भवति कश्चन।।
अथवा
अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः।
अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते।
प्रश्न 3.
अधोलिखितस्य पद्यांशस्य सप्रसंगं संस्कृत व्याख्या करोतु [4]
एतद्देश प्रसूतस्य सकाशादग्रजन्मनः।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः।।
अथवा
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।
प्रश्न 4.
अधोलिखितस्य नाद्यांशस्य सप्रसंगं संस्कृत व्याख्या लिखत [3]
भामाशाह: (प्रणम्य) अन्नदात:! सेवकं सन्त्यज्य क्व प्रस्थीयते श्रीमती ?
प्रताप: (दीर्घ निःश्वस्य) न क्व अपि बन्धो ! गन्तुं शक्यम् अपि तु न। पार्वे धनं नैव, न च सेना एव। अहं स्वदेशं कथं रक्षेयम्? अस्माद् एव मनः दोलायितम् अस्ति।
भामाशाह: महाराज! यदी इमान् समाचारान् अशृण्वम् तदा हृदयं मे भग्नम् इव अभवत् (धनग्रन्थिं निर्दिश्य) इयं पुनः
सम्पत्ति: कस्मै प्रयोजनाय? यदि ईदृशे एव असरे न इयम् उपयुज्येत !
प्रताप: भवान् सत्यं वदति।
अथवा
राजा: (सहर्षम् आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि? (इति बालं परिष्वजते।)
बाल: मुञ्च माम्। यावन्मातुः सकाशं गमिष्यामि।
राजा: पुत्रक, मया सहँवं मातरमभिनद्रिष्यसि।
बाल: मम खलु तातो दुष्यन्तः। न त्वम्।
राजा: (सस्मितम्) एष विवाद एवं प्रत्याययति।
प्रश्न 5.
अधोलिखितेषु प्रश्नेषु केषांचन षट् प्रश्नानामुत्तराणि संस्कृत माध्यमेन लिखतु [3]
- गङ्गादत्तस्य परिभवः कैः कृतः?
- लघुपततनकः कः आसीत्?
- विद्यायाः प्रकार द्वयं किमस्ति?
- हरिपद पुण्या का कथ्यते?
- प्रतापः कुत्र स्वराजधानीयम् अकरोत्?
- कः कपोतराजः?
- भोजनान्ते किं पेयम्?
- बाल्ये केशवानन्दस्य किम् नामासीत्?
निर्देश : प्रश्न संख्या 6-9 पर्यन्तं रेखांकित पदमाधृत्य प्रश्ननिर्माणं करोतु
प्रश्न 6.
सर्वे जन्तवः तुष्यन्ति। [1]
प्रश्न 7.
मम खलु तातो दुष्यन्तः। [1]
प्रश्न 8.
साधो: विद्या ज्ञानाय भवति। [1]
प्रश्न 9.
मरुदेशः चरकेश्वरेण प्रशंसितः। [1]
प्रश्न 10.
प्रश्नपत्रादतिरिच्य स्वपाठ्यपुस्तकात् श्लोक द्वयं लिखतु। [1]
प्रश्न 11.
अधोलिखितं गद्यांशं पठित्वा एतदाधारित प्रश्नानाम् उत्तराणि यथानिर्देश लिखतु- [10]
सतां जनानां संगतिः सत्संगतिः कथ्यते। मानवः यादृशैः जनैः सह वसति तादृशः एव भवति। सज्जानां सम्पर्केण मनुष्यः भवति उन्नतिं महत्पदं च अलंकरोति। दुर्जनानां संगत्या मनुष्यो दुर्जनो भवति, पतनं विनाशं च प्राप्नोति। अतः मनुष्यस्योपरि संगते: महान् प्रभावो भवति।
बाल्यकाले विशेषतो बालकस्योपरि संसर्गस्य प्रभावो भवति। ये यादृशैः बालकैः सह उपविशन्ति। उत्तिष्ठन्ति, खादन्ति, पिबन्ति च ते तथैव। स्वभावं धारयन्ति। अत: बाल्यकाले दुर्जनैः सह संगतिः कदापि न करणीया।
सज्जनानां संगत्या मनुष्यः उन्नतिं प्राप्नोति। तस्य विद्या कीर्तिश्व वर्धेते। दुर्जनानां संसर्गेण बहवः हानयः भवन्ति, यथा-दुर्जनसंसर्गेण। मनुष्योऽसद्वृत्तो भवति, दुर्विचारयुक्तो भवति, तस्य बुद्धिर्दूषिता भवति, अत: बुद्धिः क्षीयते मनुष्यः दुर्व्यसनग्रस्तो भवति। अतस्तस्य शरीरं क्षीणं निर्बलं च भवति। तस्य कीर्तिः नश्यति, सर्वत्रानादरो भवति।
अतः स्वयशोवृद्धये ज्ञानवृद्धये सुखस्य शान्तेश्च प्राप्त्यर्थं सर्वैरपि सर्वदा सत्संगति: करणीयाः दुर्जनसंगतिः सदा परिहर्तव्या।
(क) अस्य गद्यांशस्य समुचितं शीर्षकं लिखतु
(ख) ‘यथानिर्देशं प्रश्नान् उत्तरतु
- केप सम्पर्कण मनुष्यः सज्जनः भवति?
- बाल्यकाले कैः सह संगतिः कदापि न करणीया?
- का सत्संगतिः कथ्यते?
- दुर्जनानां संगत्या मनुष्यः किम् प्राप्नोति?
- कस्य संसर्गेण मनुष्योऽसवृत्तो भवति?
(ग) यथानिर्देशं प्रश्नान् उत्तरतु
- ”ये यादृशैः बालकैः सह उपविशन्ति” इत्यस्मिन् वाक्ये क्रियापदं किम्?
- ‘सज्जनानाम्’ इतिपदस्य अनुच्छेदे विलोमपदं किम् प्रयुक्तम्?
- ‘तस्य कीर्तिः नश्यति’ इत्यस्मिन् वाक्ये सर्वनामपदस्थाने संज्ञापदं किम्?
- ‘क्षीणं शरीरम्’ इति पदयो: विशेष्यम् किम्?
प्रश्न 12.
अधोलिखित पदयोः सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखतु [2]
- अन्वेषणम्
- वनौषधिः।
प्रश्न 13
अधोलिखित पदयोः सन्धिं कृत्वा सन्धेः नामपि लिखत [2]
- गै + अकः
- बहिः + गच्छ।
प्रश्न 14.
अधोलिखित रेखांकित पदेषु समस्त पदानां विग्रहम् अथवा विग्रहपदानां समासं कृत्वा समासस्य नामापि लिखत [3]
- कपोतः सदर्पम् आह।
- एनं बालं इव मृगेन्द्रः मुञ्च।
- जगतः पितरौ वन्दे।
प्रश्न 15.
अधोलिखितेषु रेखांकित पदेषु विभक्ति तत् कारणं च लिखत [3]
- छात्रा विद्यालयं प्रति गच्छति।
- पिता पुत्राय क्रुध्यति।
- गुरुवे नमः।
प्रश्न 16.
कोष्ठकेषु प्रदत्तप्रकृतिप्रत्ययानुसारं शब्दनिर्माणं कृत्वा रिक्तस्थानानि पूरयित्वा लिखतु [2]
- अस्माकं देशे_______स्थानानि सन्ति। (दृश् + अनीयर्)
- अस्माकं जीवने विद्यायाः_______ वर्तते। (महत् + त्व)
प्रश्न 17.
अधोलिखित वाक्ययोः रेखांकित पदेषु प्रकृतिं प्रत्ययं च पृथक् कृत्वा लिखतु- [2]
- दुष्टाः जनाः हन्तव्या।
- नवरस मधुरा कविता मुखरा।
प्रश्न 18.
मञ्जूषायां प्रदत्तैः अव्ययपदैः रिक्तस्थानानि पूरयित्वा लिखत [3]
बहिः, अपि, यथा, कुत्र
- सः क्रीडति अहम्_______ क्रीडामि।
- भवती_______ पठति ?
- ग्रामात्_______ नदी भवति।
निर्देश : प्रश्न संख्या 19-21 पर्यन्तं अधोलिखित वाक्यानां वाच्यपरिवर्तनं कृत्वा लिखतु
प्रश्न 19.
अहं पत्रं लिखामि। [1]
प्रश्न 20.
रामः रावणं हन्ति। [1]
प्रश्न 21.
त्वं कार्यं करोषि? [1]
प्रश्न 22.
घटिकाचित्रस्य सहायतया अंकानां स्थाने संस्कृत शब्देषु समयलेखनं करोतु- [2]
(क) सः _______ विद्यालयं गच्छति।
(ख) जनकः _______ वादने जयपुरं गमिष्यति।
प्रश्न 23.
अधोलिखितं वाक्यत्रयं शुद्धं कृत्वा लिखतु- [3]
- बलवीरः मम मित्रः अस्ति।
- कक्षायां चतस्रः बालकाः सन्ति।
- त्वं प्रतिदिनं पठति।
प्रश्न 24.
भवान् दशम्या कक्षायाः छात्रः महेन्दः अस्ति। स्वविद्यालयस्य प्रधानाचार्याय शुल्क मुक्त्यै प्रार्थनापत्रम् लिखतु। [4]
अथवा
भवान सुरेशःमातरं प्रति अधोलिखितं पत्र मजूषा पदं सहायतया लिखत।
वार्षिकोत्सवः, अभिनयम्, मुख्यातिथिः, कुशलम्, अध्ययनम्, पितरम्, भवदीयः, सर्वेभ्यः
चारूनगरात्
11/10/_______
पूजनीयाः मातृचरणाः!
नमोनमः। अत्र_______ तत्रास्तु । मम विद्यालये_______ आसीत्। तत्रं अहम् एकम्_______ कृतवान्। मन्त्रिमहोदयः _______ रूपेण आगतवान्। मम_______ सम्यक् चलति। गृहे_______ नमोनमः। अहं_______ प्रणमामि।
_______
सुरेशः
प्रश्न 25.
अधोलिखितं संवादं मञ्जूषात: उचितानि पदानि चित्वा पूरयतु [4]
वस्तूनि, आपणं, सायंकाले, विद्यालयस्य, मातुलः, भोजनं, त्वं
माता: राघव !_______किं करोषि?
राघव: अहं मम_______ गृहकार्यं करोमि।
माता: पुत्र! गृहकार्यानन्तरम्_______ गत्वा ततः दुग्धं शाकफलानि च आनय।
राघव: अहं_______ पुस्तकं क्रेतुम् आपणं गमिष्यामि तदा दुग्धं शाकफलानि च आनेष्यामि।
माता: सायंकाले न, त्वं तु पूर्वमेव गत्वा आनय।
राघव: शीघ्रं किमर्थम्?
माता: अद्य तव_______ आगमिष्यति, अतः _______ समयात् पूर्वमेव पक्ष्यामि।
राघव: मातुलः आगमिष्यति चेत् अहम् इदानीम् एवं गत्वा_______ क्रीत्वा आगच्छामि।
प्रश्न 26.
अधोलिखित षड्वाक्येषु केषाञ्चन चतुर्णा वाक्यानां संस्कृतभाषायाम् अनुवादं करोतु [4]
- किशोर गेंद से खेलता है।
- कुसंग से बुद्धि नष्ट होती है।
- मैं फल खाता हूँ।
- आकाश में बादल गरजे।
- हम दोनों गाँव को जाते हैं।
- तुम कभी असत्य मत बोलो।
प्रश्न 27.
चित्रं दृष्ट्वा निम्नलिखित शब्दानां सङ्गणकस्य विषये षट् वाक्यानि रचयतु- [3]
सङ्गणकस्य, कार्यालये कार्याणि, सम्पूर्णाः सूचनाः,
कर्गदानां प्रयोगः, सङ्गणकज्ञानम्, महती आवश्यकता
अथवा
अधोलिखितम् अनुच्छेदं मञ्जूषायाः सहायतया पूरयित्वा लिखते
संग्रहो, ज्ञानवर्धनाय, विविधभाषाणां, पुस्तकालयेषु, प्रतिदिनं, महत्त्वपूर्णम्
मानवस्य बौद्धिकविकासाय (i)_______ च पुस्तकालयानां (ii) _______ स्थानं वर्तते। (iii) _______ विविधपुस्तकानां (iv) _______ भवति। अत्र (v) _______ पत्र-पत्रिकादयोऽ (vi) _______ आयान्ति। अस्माकं पुस्तकालय: नगरस्य रमणीय स्थाने वर्तते।
प्रश्न 28.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखतु [3]
- मूषकः परिश्रमेण जालम् अकृन्तत्।
- एकदा सः जाले बद्धः।
- सिंह: जालात्-मुक्तः भूत्वी मूषकं प्रशंसन् गतवान्।
- एकस्मिन् वने एकः सिंहः वसति स्म।
- सः सम्पूर्णम् प्रयासम् अकरोत् परं बन्धनात् न मुक्तः।
- तदा तस्य स्वरं श्रुत्वी एकः मूषकः तत्र आगच्छत्।
We hope the given RBSE Class 10 Sanskrit Model Paper 3 will help you. If you have any query regarding Rajasthan RBSE Class 10 Sanskrit Sample Paper 3, drop a comment below and we will get back to you at the earliest.
Leave a Reply