RBSE Class 12 Sanskrit Model Paper 3 is part of RBSE Class 12 Sanskrit Board Model Papers. Here we have given RBSE Class 12 Sanskrit Sample Paper 3.
Board | RBSE |
Textbook | SIERT, Rajasthan |
Class | Class 12 |
Subject | Sanskrit |
Paper Set | Model Paper 3 |
Category | RBSE Model Papers |
RBSE Class 12 Sanskrit Sample Paper 3
समय : 3:15 घण्टे
पूर्णांक : 80
परीक्षार्थिभ्यः सामान्य निर्देशाः
- परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामांक अनिवार्यतः लेख्यः।
- सर्वे प्रश्नाः अनिवार्याः।
- प्रत्येक प्रश्नस्योत्तरम् उत्तरपुस्तिकायामेव देयम्।
- प्रत्येक प्रश्नभागस्य उत्तरं क्रमानुसारमेकत्रैव लेखितव्यम्।
प्रश्न 1.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
लीयतां लीयता लीयताम्,
अन्धतामसी घृणा-निशा क्षणेन लीयताम् ।।
भवेत् क्वचित्र भ्रष्टता, न सच्चरित्र-दूषणम् ।।
मनुष्यता भवेत् समस्त सम्प्रदाय भूषणम् ।
विभिन्न-मार्ग-मण्ड़ना: सुबन्धवः समे जनाः,
अनेकतासु चैकता हि संस्कृतेर्विभूषणम्।।
(क) समस्त सम्प्रदायानाम् आभूषणं किं भवेत् ? [1]
(ख) ‘शिष्टता’ इतिपदस्य विलोमपदं गीतांशात् चित्वा लिखत। [1]
(ग) उपर्युक्त पद्यांशं व्याख्यां कुरुत । [2]
प्रश्न 2.
अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
तत् श्रुत्वा व्याघ्रः सन्त्रस्तः तमाह ‘भो भागिनेय ! देहि मे प्राणदक्षिणाम् त्वया तस्य अत्र चिराय आयातस्य अपि मदीया काऽपि वार्ता न आख्येया।’ एवमभिधाय सत्वरं पलायञ्चक्रे । अथ गते व्याख्ने, तत्र कश्चित् द्वीपी समायात तमपि दृष्ट्वा असौ व्यचिन्तयंत दृढदंष्ट्रोऽयं चित्रकः। तदस्य पाश्र्वादस्य गजस्य यथा चर्मच्छेदो भवति तथा करोमि। एवं निश्चित्य, तमप्युवाच– भो भगिनीसुत ! किमिति चिरात् दृष्टोऽसि? कथञ्च बुभुक्षितः इव लक्ष्यसे? तदतिथिरस मे। तदेष गजः सिंहेन हतसिस्तष्ठति, अहञ्चास्य तदादिष्टो रक्षपालः। परं तथापि यावत्सिंहोः न समायाति, तावदस्य गजस्य मांस भक्षयित्वा, तृप्तिं कृत्वा द्रुततरं व्रज’।
(क) ‘देहि मे प्राणदक्षिणाम्’ इति कः कथयति? (पूर्णवाक्येन उत्तरं दीयताम्) [1]
(ख) अहं तदादिष्टो रक्षपालः इति कस्य कथनम् ? [1]
(ग) शृगालं व्याघ्रः किम् अकथयत् ? [2]
प्रश्न 3.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
सीता – भगवति तमसे अपसराव तावत् मां प्रेक्ष्यानेभ्युनुज्ञातेन संनिधानेन राजाधिकं कोपिष्यति ।
तमसा – अयि वत्से, भगीरथीप्रसादाद् वनदेवतानामप्यदृश्यासि संवृत्ता।
सीता – अस्ति खल्वेतत्।
रामः – हा प्रिये जानकि।
सीता – आर्यपुत्र, असदृशं खल्वेततस्य वृत्तान्तस्य (सास्रम्) भगवति किमिति व्रजमयी जन्मान्तरेष्वपि पुनरप्यसम्भावितदुर्लभ दर्शनस्य मामेव मन्दभागिनीमुद्दिश्यैवंवादिन-आर्य पुत्रस्योपिर निरनुक्रोशा भविष्यामि ? अहमेवैतस्य हृदयं जानामि, ममैषः।
रामः – (सर्वतोवलोक्य) (सनिर्वेदम्) हा न किञ्चिदत्र देवि
प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्दशीतलः ।
अद्याप्यानन्दयति मा त्वं पुनः क्वासि नन्दिनी ॥
सीता – एते खलु तेऽगोधमान संदर्शितस्नेह संभारी आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः। जाने प्रयत्नेन निष्कारण- परित्याग-शल्यितोऽपि बहुमतो में जन्मलाभः।
रामः – (सर्वतोऽवलोक्य) हा, कथं नास्त्येव? नन्वकरुणे वैदेहि।
सीता – अकरुणास्मि यैवं विधं त्वां पश्यन्त्येव जीवामि।
(क) कस्याः प्रसादात् सीता वनदेवतानामपि अदृश्या अभवत् ? (पूर्णवाक्येन उत्तरं दीयताम् ।) [1]
(ख) ‘अकरुणे वैदेहि।’ इति पदौ विशेषणं-विशेष्य च वदत। [1]
(ग) रामाय सीतायाः स्पर्शः कीदृशः आसीत् ? [2]
प्रश्न 4.
रेखाङ्कितपदानि आधृत्य प्रश्न-निर्माणं कुरुत [3]
(क) मानवाः सर्वत्र विजयं कामयन्ते।
(ख) जीवन्नरो भद्रशतानि पश्यति।
(ग) कालिदासस्य मेघदूतं प्रसिद्धम्।
प्रश्न 5.
निम्नलिखित वाक्ययोः भावार्थः हिन्द्यां संस्कृते वा लिखत- [4]
(क) अलीकाभिमानोन्मादकारीणि धनानि।
(ख) यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
प्रश्न 6.
अधोलिखित श्लोकस्य अन्वय सहितं सरलम् अर्थं हिन्द्यां संस्कृते वा लिखत [3]
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीर यात्रापि च ते न प्रसिद्धयेदकर्मण: ॥
प्रश्न 7.
निम्नलिखितयोः शब्दयोः हिन्दीभाषायाम् आङ्ग्लभाषायां वा अर्थं लिखत [2]
(क) अधीतम् ।
(ख) प्रतिवेशिनः।
प्रश्न 8.
‘शिष्यः गुरु प्रसन्नं कृत्वा विद्यां सुलभते’ अत्र ‘सुलभते’ क्रियापदस्य कर्तृपदं चिनुत । [1]
प्रश्न 9.
‘दुष्करं कर्म’ इत्यनयोः पदयोः विशेषण-विशेष्यपदं चित्वा लिखत। [1]
प्रश्न 10.
‘विस्रब्धो भूत्वा भक्षय त्वम् अत्र ‘त्वम्’ इति सर्वनामपदं कस्मै प्रयुक्तम् अस्ति? [1]
प्रश्न 11.
‘अग्ने लोलः करिकरभको’ वाक्यात् ‘चञ्चलः’ इति पदस्य पर्यायवाचिपदं चित्वा लिखत। [1]
प्रश्न 12.
‘महीयांसः प्रकृत्या मितभाषणः’ अत्र ‘प्रगल्भ’ इति पदस्य विलोमार्थकपदं लिखत। [1]
प्रश्न 13.
‘मा साहसं का’ इति कः कस्मै कथयति? [1]
प्रश्न 14.
वेदानां रचनाकाल विषये विदुषां मतं संक्षेपेण लिखत। [3]
प्रश्न 15.
‘शिवराजविजय’ उपन्यासस्य प्रधान विषये लिखत ? [2]
प्रश्न 16.
‘प्रतिज्ञायौगन्धरायणम्’ इत्यस्य कथासारं संक्षेपेण लिखत। [2]
प्रश्न 17.
निम्नलिखित प्रश्नानाम् संक्षिप्तम् उत्तरं लिखत [3]
(क) संस्कृतस्य प्रथमः ऐतिहासिक: उपन्यासः कः?
(ख) बालगंगाधर तिलक महोदयस्य मतानुसारेण वेद-रचना-कालं लिखते।
(ग) ‘यात्राविलासम्’ नाम ग्रन्थं केन विरचित ?
प्रश्न 18.
अधोलिखितेषु कस्यापि एकस्य छन्दसः लक्षणोदाहरणे लिखत [3]
(क) द्रुतविलम्बितम्
(ख) मालिनी
(ग) शार्दूल विक्रीडितम्।
प्रश्न 19.
निम्नलिखित कस्यापि एकस्या पंक्त्याः गणचिह्नं प्रदर्शयन् छन्दसः नामोल्लेखं कुरुत [2]
(क) मौनान्मूकः प्रवचनपदुर्वातुलो जल्पको वा।
(ख) यदा किञ्चिज्ञोऽहं द्विप इव मदान्धः समभवं।
प्रश्न 20.
अधोलिखित कस्यापि एकस्य अलङ्कारस्य लक्षणोदाहरणे लिखते [3]
(क) श्लेष
(ख) उत्प्रेक्षा
(ग) विभावना।
प्रश्न 21.
निम्नलिखितेषु कस्यामपि एकस्यां पङ्क्तयां प्रयुक्त-अलंकारस्य नामोल्लेखपूर्वकं लक्षणं लिखत- [2]
(क) महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम्
(ख) धवलबहल-मुग्धा दुग्ध-कुल्येव दृष्टिः।
प्रश्न 22.
अधोलिखितम् अपठित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
मानवः जीवननिर्वाहाय यां कामपि आजीविका ग्रहीतुं शक्नोति । तस्यां पठनपाठनस्य, कृषेः, वाणिज्यस्य, देशसेवायाश्च कार्याणि सन्ति। परन्तु से सदा जीवनसाफल्याय सत्कर्म अवश्यं कुर्यात् । अतः कदाचिदपि उद्देश्यत्यागो न विधेयः। निरुद्देश्यं जीवनं विनश्यति। जीवनस्य साफल्याय उद्देश्यमपि सद् एव स्यात् । मनुष्यस्य सत्कर्मणा सदुद्देश्यमपि अवश्यं पूर्णं भवति ।
(क) मानवः जीवननिर्वाहाय क़ां ग्रहीतुं शक्नोति ? (एकपदेन उत्तरं)
(ख) आजीविकायै कानि कार्याणि कर्तुं शक्यन्ते ? (पूर्णवाक्येन उत्तरं दीयताम्)
(ग) “निरुद्देश्यं जीवनं विनश्यति’ इत्यत्र क्रियापदं किं प्रयुक्तम् ?
(घ) मनुष्यस्य कः कर्मणा पूर्णं भवति?
प्रश्न 23.
अधोलिखितम् अपठित गद्यांशं पठित्वा निर्देशानुसार प्रश्नानाम् उत्तराणि लिखत [4]
संस्कृत-साहित्ये वाचस्पतिमिश्रः प्रसिद्ध विद्वान् अभवत्। सः बाल्ये एव विवाहितोऽभवत् । तस्य पत्न्याः नाम् भामती आसीत्। भामती पितृ-गृहे एवावसत्दु। र्दैव-योगात् मिश्रस्य माता दिवंगता। एतच्छ्रुत्वा भामती पत्युः सेवायै पितृ-गृहात् तत्रागच्छत् । तदा तस्याः पतिः वाचस्पतिः वेदान्तस्य टीकायाः रचनायां व्यस्तः आसीत्। सा सेवापरायणा भामती वर्षाणां विंशतिं पतिम् असेवत। मिश्रः कदापि तां नापृच्छत् यत्त्वं काऽसि, किन्तु सा विदुषी शङ्कासमाधानैः ग्रन्थप्रणयने महत सहायताम् अकरोत् । एकदा अर्धरात्रौ दीपस्य तैलम् अवसितं दीपस्य च निर्वाणः अभवत् । तस्मिन्नेव समये टीकापि सम्पूर्णाऽभवत्ना मकरणमेव अवशिष्टमासीत्। सहसा आसनाद् उत्थाय वाचस्पतिः ताम् अपृच्छत्-काऽसि त्वम् ? भामती उत्तरत्-अहम् आर्यपुत्रस्य भार्या भीमती अस्मि। सः टीकायाः नाम ‘ भामती’ इति अलिखत्।
(क) कः संस्कृतसाहित्ये प्रसिद्धः विद्वान् अभवत् ? (एकपदेन उत्तरं दीयताम्)
(ख) वाचस्पतिमिश्रः कस्मिन् कर्मणि व्यस्तः आसीत् ? (पूर्णवाक्येने उत्तरं दीयताम्)
(ग) ‘भामती वर्षाणां विंशतिं पतिम् असेवत’ इत्यत्र क्रियापदं किम्?
(घ) गद्यांशस्य समुचितं शीर्षक लिखत।
प्रश्न 24.
प्रदत्त शब्दानां प्रयोगं कुर्वन् एकम् अनुच्छेद लिखत [5]
जगति, जन्मभूमिश्च, महत्वपूर्णे, सर्वे मानवाः, स्नेहं भवति, स्वजन्मभूमि, स्मरत्येव, स्वाभाविकोऽनुरागः, मातृभूमिः भारत, ‘दुर्लभं भारते जन्म’, रामकृष्णादयः, प्रकृतेः मधुरतराणि।
अथवा
क्रमरहितानि वाक्यानि समुचित क्रमानुसारं लिखत
(क) ततः मिथिलायां चतुर्णाम् अपि राजपुत्राणां विवाहः अभवत्।
(ख) तस्य चत्वारः पुत्राः आसन्-रामः, लक्ष्मणः, भरतः शत्रुघ्नः च।
(ग) प्राचीनकाले नृपः दशरथः अयोध्यायां राज्यम् अकरोत् ।
(घ) ऋषिः विश्वामित्र: रामलक्ष्मणौ स्वस्य आश्रमम् अनयत् ।
(ङ) पितुः आज्ञया राज्यं त्यक्त्वा रामः वनम् अगच्छत् ।
(च) तस्याः नाम सीता आसीत् ।
(छ) मिथिलानृपः स्वज्येष्ठां सुतां रामाय अयच्छत् ।
(ज) तेन सह सीता लक्ष्मणश्च अगच्छताम्।
(झ) चतुर्णा, भ्रातृणां विवाहोऽपि तत्र सम्पादितम् ।
(ञ) एवं सर्वे अयोध्यां सपत्नीका: अगच्छम् ।
प्रश्न 25.
निम्नलिखितेषु वाक्येषु केषाञ्चित् पञ्चवाक्यानां संस्कृतभाषायाम् अनुवादं कुरुत- [5]
(क) सुरेश महेश से पुस्तक माँगता है।
(ख) शिष्य आचार्य से संस्कृत पढ़ता है।
(ग) कृष्ण के दोनों ओर गायें हैं।
(घ) बालक आँख से काणा है।
(ङ) धनिक निर्धनों को धन देता है।
(च) छात्रो ! पाठ याद करो।
(छ) पहाड़ पर अकेला नहीं जाना चाहिए।
(ज) घोड़े से बालक गिरता है।
प्रश्न 26.
अधोलिखित पदानां सूत्रोल्लेखपूर्वकं सन्धिविच्छेदं कुरुत [2]
(क) श्रीशः
(ख) अजन्तः
प्रश्न 27.
अधोलिखित पदानां सूत्रोल्लेखपूर्वकं सन्धिं कुरुत [2]
(क) शिवः + वन्द्यः
(ख) दिक् + गज:
प्रश्न 28.
निम्नलिखितेषु रेखांकितपदेषु प्रयुक्त विभक्तेः नामोल्लेखं कृत्वा तस्य सूत्रं चापि लिखत [4]
(क) नृपः सिंहासनम् अध्यास्ते।
(ख) श्री गणेशाय नमः।
(ग) दुर्जनः सज्जनाय ईष्र्ण्यति
(घ) कोमात् जायते क्रोध ।
प्रश्न 29.
अधोलिखित पदयोः प्रयुक्तसमासस्य नामोल्लेखपूर्वक विग्रहं कुरुत [2]
(क) निर्मक्षिकम्
(ख) चन्द्रशेखरः
प्रश्न 30.
अधोलिखित विग्रहवाक्ययोः समासं कृत्वा समासस्य नामोल्लेखमपि कुरुत [2]
(क) शिवश्च केशवश्च
(ख) राज्ञः पुरुषः
उत्तरम्
उत्तर 1.
(क) समस्त सम्प्रदायानाम् आभूषणं मानवता भवेत्।
(ख) भ्रष्टता।
(ग) व्याख्याः अस्माकं देशात् अन्धतामसी घृणा निशा क्षणेन लीयताम् । क्वचित् भ्रष्टता न भवेत्, सच्चरित्र दूषणं न भवेत। समस्त सम्प्रदाय-भूषणं मानवता भवेत्। विभिन्न मार्ग मण्डनाः जनाः सुबन्धवः समे भवेयुः अनेकतासु एकता हि संस्कृते: विभूषणं भवेत् ।
उत्तर 2.
(क) व्याघ्रः।
(ख) अहं तदादिष्टये रक्षपालः इति शृगाल कथनम्।
(ग) व्याघ्रः शृगालं अकथयत्-भो भागिनेय; देहि मे प्राण दक्षिणाम् त्वया तस्यं अत्र चिराय आयातस्य अपि मदीया काऽपि वार्ता न आख्येया।
उत्तर 3.
(क) भगीरथीप्रसादात् सीता वनदेवतानामपि अदृश्या अभवत्।
(ख) अकरुणे-विशेषण। वैदेहि-विशेष्य।
(ग) रामाय सीतायाः स्पर्शः स्नेहार्द्रशीतलः आसीत्।
उत्तर 4.
(क) के सर्वत्र विजयं कामयन्ते ?
(ख) जीवन्नरो कानि पश्यति?
(ग) कस्य मेघदूतं प्रसिद्धम्।
उत्तर 5.
(क) भावार्थ: संसारे धनम् सम्पत्तयश्च मृषा अभिमान कारकाः भवन्ति । यत: धनानि अनित्यानि भवन्ति । अतः क्षणिकानन्दं ददति । एवं धनेन यत् अभिमानं उन्मादं वा भवति तत् । मिथ्या एव भवति रागे च निपातयति।।
(ख) भावार्थः यस्मिन् गृहे, समाजे, प्रदेशे देशे वा नार्यः सम्मानं भवति तत्र देवताः प्रसन्नाः भवन्ति अर्थात् सर्वत्र सर्वथा च प्रसन्नतायाः साम्राज्यं भवति । प्रसन्ना: देवताः वा सुख सम्पदां वितरीन्ति।
उत्तर 6.
अन्वयः त्वं नियतं कर्म कुरु। हि अकर्मणः कर्मज्यायः। अकर्मणः च ते शरीरयात्रा अपि ने प्रसिद्धयेत् । सरलार्थ:-हे अर्जुन तू नियत किए गए अपने कर्म को कर। क्योंकि कर्म न करने की अपेक्षा कर्म करना श्रेष्ठ है तथा कर्म न करने से तेरा शरीर निर्वाह भी नहीं सिद्ध होगा।
उत्तर 7.
(क) पढ़ा हुआ (अध्ययन)
(ख) पड़ोसी का।
उत्तर 8.
शिष्यः ।
उत्तर 9.
‘दुष्करम्’ इति विशेषण पदम् ‘कर्म’ च । विशेष्य पदम्।
उत्तर 10.
चित्रकः’ इति पदाय।
उत्तर 11.
लोलः।
उत्तर 12.
मितभाषिणः
उत्तर 13.
यक्षः युधिष्ठिरं कथयति।
उत्तर 14.
प्राचीना: भारतीया: विद्वांसः वेदान् अपौरुषेयान् मन्यन्ते । तेषां मते वेद रचनाकाल-विचार: सर्वथा निरर्थकः अस्ति। किन्तु कतिपय विद्वांसः स्वबुद्धि-अनुसारं वेद रचनाकालं निर्धारयन्ति । तेषु प्रमुखाः सन्ति
- मैक्समूलरस्य मतेने 1150 ई. पू. समीपे वेदरचनाकालः अस्ति।
- शंकर बालकृष्ण दीक्षितः कृतिका नक्षत्रस्य ऋग्वेदोक्त स्थितितः वर्तमान स्थिती अन्तरं विवेच्य ऋग्वेदरचनाकालं 3500 ई. पू. कथयति।
- बालगंगाधरतिलकः नक्षत्राणां स्थित्यनुसार ऋग्वेदरचनाकालं 4500 ई. पूर्व कथयति।। संक्षेपेण वेदानां रचनाकालः 4500 ई. वर्ष पूर्वतः 1500 ईश्वीय पूर्वमेव निर्धारयितुं शक्यते ।
उत्तर 15.
शिवराजविजयः एकमात्रम् ईदृशः उपन्यासः अस्ति यत्र तात्कालिकसामाजिकदशाना चरित्राणाञ्च समग्ररूपेण वर्णनं उपलभ्यते। साहित्यम् समाजस्य दर्पणम् भवति, इत्यनुसारम् शिवराजविजयः पूर्णरूपेण तत्समयस्य चित्रणे सफलः।
उत्तर 16.
‘प्रतिज्ञायौगन्धरायणम्’ नाटके वत्सराजोदयनेन सह उज्जयिनीनरेशस्य महासेनस्य पुत्र्या: वासवदत्तायाः गुप्त-परिणयस्य वर्णनं तथा चे मन्त्रियौगन्धरायणस्य बुद्धिवैभवस्य वीरतायाश्च वर्णनमस्ति । महासेनस्य कारागृहात् उदयनस्य उन्मोचनाय यौगन्धरायणः यां नीतिमाचरति सा सातिशयेन श्लाघनीया अस्ति।
उत्तर 17.
(क) पं. अम्बिकादत्त व्यास विरचितं ‘शिवराज विजयम्’ संस्कृतस्य प्रथमः ऐतिहासिक उपन्यासः अस्ति।
(ख) बाल गंगाधर तिलक महोदयस्य मतानुसारेण वेदस्य रचनाकालस्य पूर्वसीमा 4500 ई. पू. वर्षत: आरम्भ 1500 ई. पू. यावत् भवितव्या।
(ग) पं. नवल किशोर शास्त्री ‘कांकर’ महोदयेन विरचितम् यात्रा विलासम्।
उत्तर 18.
(क) दुतविलम्बितम्
लक्षणम्– “दुतविलम्बितमाह नभौ भरौ” जिस छन्द के प्रत्येक चरण में क्रमशः नगण, भगण, भगण और रगण होते हैं, वह ‘दुतविलम्बित’ नामक छन्द होता है। इसके प्रत्येक चरण में बारह वर्ण होते हैं।
उदाहरणम्–
उत्तर 19.
उत्तर 20.
(क) श्लेषः
लक्षण-‘श्लिष्टे: पदैरने कार्थाभिधाने श्लेष इष्यते।’ जहाँ श्लिष्ट पदों के द्वारा अनेक अर्थों का कथन किया जाता है। वहाँ श्लेष अलङ्कार होता है। लक्षण में ‘श्लिष्ट’ इस पद का अभिप्राय अनेक अर्थों वाले शब्द से है। इस अलङ्कार में एक ही पद में दो अथवा दो से अधिक अर्थ प्राप्त होते हैं।
उदाहरणम्-‘उच्छलद् भूरि कीलाल शुशुभे वाहिनीपतिः।’
उदाहरण–सङ्गति– यहाँ ‘कीलाल:’ पद श्लिष्ट पद है। कीलाल पद का प्रथम अर्थ जल है और द्वितीय अर्थ रक्त है। उसी प्रकार ‘वाहिनीपति:’ दूसरा श्लिष्ट पद है। वाहिनीपति के दो अर्थ हैं-पहला अर्थ ‘समुद्र’ और दूसरा ‘सेनापति’ है। इसलिए श्लिष्ट पदों से यहाँ अनेक अर्थों की प्राप्ति होती है। अतः श्लेष अलङ्कार है।
उत्तर 21.
(क) यमक।
लक्षण-सत्यार्थे पृथगर्थायाः स्वर व्यंजन संहतेः। क्रमेणतेनैवावृत्तिर्यमकं विनिगद्यते ।
(ख) उपमा।
लक्षण-प्रस्फुटं सुन्दरं साम्यमुपमेत्यभिधीयते ।
उत्तर 22.
(क) आजीविकाम्।
(ख) आजीविकायै पठनपाठनस्य, कृणे :, वाणिज्यस्य देशसेवायाश्च कार्याणि कर्तुं शक्यन्ते ।
(ग) “विनश्यति’ इति।
(घ) मनुषस्य सत्कर्मणा सदुद्देश्यमपि अवश्यं पूर्णं भवति।
उत्तर 23.
(क) वाचस्पतिः मिश्रः
(ख) वाचस्पति मिश्रः वेदान्तस्य टीकायाः रचनायां व्यस्तः आसीत्।
(ग) ‘असेवत’ इति ।
(घ) वाचस्पति ‘ मिश्रः भामती च।
उत्तर 24.
एतस्मिन् जगति जननी जन्मभूमिश्च एव सर्वोत्तमे भवतः । बालकस्य कृते एते एव अतीव महत्वपूर्णं भवतः। सर्वे मानवाः जानन्त्येव यत् मातरि मातृभूमौ च यादृशं स्नेहं भवति न तादृशमन्यस्मिन् कस्मिन्नपि वस्तूनि। यत्र कुत्रापि गत्वा नानाविधानि सुखानि च लब्ध्वा अपि मानवः स्वजन्मभूमिं स्मरत्येव । कथं न स्मरिष्यति, भवति हि स्वाभाविको स्नेहः तस्य। सर्वस्यापि स्वदेशे स्वाभाविकोऽ -नुरागः जायते । अस्माकं मातृभूमिः भारत देशोऽस्ति। देवाः अपि अत्र जन्म कांक्षन्ते। ‘दुर्लभं भारते जन्म’ इत्यपि कथयन्ति। रामकृष्णादयः परमेश्वराः अत्रैव जन्म लेभिरे। अत्र सर्वत्र-प्रकृते: मधुरतराणि दृश्यानि सन्ति।
अथवा को उत्तर
(क) प्राचीनकाले नृपः दशरथ: अयोध्यायां राज्यम् अकरोत्।
(ख) तस्य चत्वारः पुत्राः आसन्–रामः, लक्ष्मणः, भरतः शत्रुघ्नः च।
(ग) ऋषिः विश्वामित्र: रामलक्ष्मणौ स्वस्य आश्रमम् अनयत्।
(घ) तत: मिथिलायां चतुर्णाम् अपि राजपुत्राणां विवाहः अभवत्।
(ङ) मिथिलानृपः स्वज्येष्ठां सुतां रामाय अयच्छत्।
(च) तस्याः नाम सीता आसीत्।
(छ) पितुः आज्ञया राज्यं त्यक्त्वा रामः वनम् अगच्छत्।
(ज) तेन सह सीता, लक्ष्मणश्च अगच्छताम्।
(झ) चतुर्णा भ्रातृणां विवाहोऽपि तत्र सम्पादितम्
(ञ) एवं सर्वे अयोध्या सप्त्नीका आगच्छम्।
उत्तर 25.
(क) सुरेशः महेशं पुस्तकं याचते।
(ख) शिष्यः आचार्यात् संस्कृतम् अधीते।
(ग) कृष्णम् उभयत: गाव: सन्ति।
(घ) बालकः नेत्रेण काणः।
(ङ) धनिकः निर्धनेभ्यः धनम् ददाति।
(च) छात्राः ! पाठे स्मरन्।
(छ) न पर्वतम् एकः गच्छेत्।
(ज) अश्वात् बालकः पतति।
उत्तर 26.
(क) श्रीशः = श्री + ईशः = दीर्घ सन्धि – अकः सवर्णे दीर्घः।
(ख) अजन्तः = अच् + अन्तः = हल् (जश्त्व) = झलां जशोऽन्ते।
उत्तर 27.
(क) शिवः + वन्द्यः = शिवोवन्द्य – विसर्ग (उत्व)- हशि च (ख) दिक् + गजः = दिग्गजः = हल् (जश्त्व) – झलां जश् झशि।
उत्तर 28.
(क) सिंहासनम् – द्वितीया विभक्ति : अधिशीङ स्थासाम् कर्म ।
(ख) गणेशाय – चतुर्थी विभक्तिः – नमः स्वस्ति स्वाहास्वधालं वषड् योगाच्च।
(ग) सज्जनाय – चतुर्थी विभक्तिः – क्रुधदुहेष्यासूयार्थानां यं प्रति कोपः।
(घ) कामात् – पञ्चमी विभक्तिः – जनिकर्तुः प्रकृतिः।
उत्तर 29.
(क) निर्मक्षिकम् – मक्षिकाणाम् अभाव: – अव्ययीभाव समासः
(ख) चन्द्रशेखरः – चन्द्रः शेखरे यस्य सः (शिवः) – व्याधिकरण बहुव्रीहि समास।
उत्तर 30.
(क) शिवश्च केशवश्च = शिवकेशवौ = इतरेतर द्वन्द्वः समासः।
(ख) राज्ञः पुरुषः = राजपुरुषः = षष्ठी तत्पुरुष समासः।
We hope the given RBSE Class 12 Sanskrit Model Paper 3 will help you. If you have any query regarding RBSE Class 12 Sanskrit Sample Paper 3, drop a comment below and we will get back to you at the earliest.
Leave a Reply