• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 3, 4, 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 12 Sanskrit Model Paper 4

March 5, 2019 by Fazal Leave a Comment

RBSE Class 12 Sanskrit Model Paper 4 is part of RBSE Class 12 Sanskrit Board Model Papers. Here we have given RBSE Class 12 Sanskrit Sample Paper 4.

Board RBSE
Textbook SIERT, Rajasthan
Class Class 12
Subject Sanskrit
Paper Set Model Paper 4
Category RBSE Model Papers

RBSE Class 12 Sanskrit Sample Paper 4

समय : 3:15 घण्टे
पूर्णांक : 80

परीक्षार्थिभ्यः सामान्य निर्देशाः

  1. परीक्षार्थिभिः सर्वप्रथमं स्वप्रश्नपत्रोपरि नामांक अनिवार्यतः लेख्यः।
  2. सर्वे प्रश्नाः अनिवार्याः।
  3. प्रत्येक प्रश्नस्योत्तरम् उत्तरपुस्तिकायामेव देयम्।
  4. प्रत्येक प्रश्नभागस्य उत्तरं क्रमानुसारमेकत्रैव लेखितव्यम्।

प्रश्न 1.
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
कश्चित् कान्ताविरहगुरुणास्वाधिकारात् प्रमत्तः, शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः
यक्षश्चक्रेजनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ।
(क) यक्षः कुत्रे वसतिं चक्रे ? [1]
(ख) यक्ष: केन कारणेन शापित आसीत् ? [1]
(ग) उपर्युक्त पद्यांशं व्याख्या कुरुत। उत्तरम् [2]

प्रश्न 2.
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
एवं समतिक्रमित्सु केषुचिद्दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः प्रतीहारानुपकर संभार संग्रहार्थमादिदेश। समुपस्थितयौवराज्याभिषेकं च तं कदाचिद् दर्शनार्थमागतमारूढविनयमपि विनीततरमिच्छन् कर्तुं शुकनास: सविस्तरमुवाचतात चन्द्रापीड! विदितवेदितव्यस्य अधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्ट्रव्यमस्ति । केवलं च निसर्गत एवातिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो लक्ष्मीमदः। कष्टं परमैश्वर्यतिमिरान्धत्वम्, अतितीव्रदर्पदाहज्वरोष्मा, विषम विषयविषास्वादमोहः।
(क) राजा कस्य यौवराज्याभिषेक चिकीर्षुः? (पूर्णवाक्येन उत्तरं दीयताम्।) [1]
(ख) यौवराज्याभिषेकाय इच्छुकः राजा किमकरोत् ? [1]
(ग) अनुच्छेदे ‘केषुञ्चित्’ इति पदं कस्य विशेष्यस्य विशेषणपदम् ? ‘शुकनासः सविस्तरमुवाच’ अत्र उवाच’ इति क्रियापदस्य कर्तृपद किम् अस्ति? [2]

प्रश्न 3.
अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
सूत्रधारः : अतो गच्छत्वार्या अहमप्यस्मादृशजनयोग्य ब्राह्मणमुपनिमन्त्रयामि।
नटी : यदार्य आज्ञापयतिं (इति निष्क्रान्ता)
सूत्रधारः : (परिक्रम्य) आश्चर्यम् तस्मात्कथं मयैवं सुसमृद्धायामुज्जयिन्यामस्मादृशजनयोग्यो ब्राह्मणोऽन्वेषितव्यः ।
एष चारुदत्तस्य मित्रं मैत्रेय इत एवागच्छति। भवतु । प्रक्ष्यामि तावत् । अद्य मैत्रेय, अस्माकं गृहेऽशितुमग्रणीर्भवत्वार्यः। (नेपथ्ये)
( भोः अन्यं ब्राह्मणमुपनिमन्त्रयतु भवान्। व्यापृत इदानीमहम्)
सूत्रधारः : आर्य, सम्पन्नं भोजनं नि:सपत्नं च। अपि च दक्षिणापि ते भविष्यति ।
(क) सूत्रधारस्य गृहे विदूषकस्य भोजनं कीदृशम् आसीत् ? (पूर्णवाक्येन उत्तरत।) [1]
(ख) “अतो गच्छत्वार्या’ अत्र गच्छतु क्रियापदस्य कर्तृपदं चित्वा लिखत । [1]
(ग) सूत्रधारः नर्टी किम् कथयति ? [2]

प्रश्न 4.
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत [3]
(क) दिलीपः नन्दिन्याः सेवां कृतवान्।
(ख) मनः शीघ्रतरं वातात् ।
(ग) भारवेः अर्थगौरवं प्रसिद्धम्।

प्रश्न 5.
निम्नलिखित वाक्ययोः भावार्थ; हिन्द्यां संस्कृते वो लिखत [4]
(क) समत्वं योगः उच्यते ।
(ख) महीयांसः प्रकृत्यामितभाषिण

प्रश्न 6.
अधोलिखित श्लोकस्य अन्वय सहितं सरलम् अर्थं हिन्द्यां संस्कृते वा लिखत [3]
आनृशंस्य परोधर्म: परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष: जीवतु ॥ उत्तरम्

प्रश्न 7.
निम्नलिखितयोः शब्दयोः हिन्दी भाषायाम् आङ्ग्लभाषायां वा अर्थं लिखत [2]
(क) प्रतिशब्दकः
(ख) ज्यायः

प्रश्न 8.
‘नव सर्गगते माघे नवशब्दो न विद्यते’ इति वाक्ये किं क्रिया कर्तृपदम् च? [1]

प्रश्न 9.
‘परिक्षीणो रामभद्रः’ इति पदयोः विशेषण विशेष्य पदं लिखत। [1]

प्रश्न 10.
‘तस्य आगमनं निवेदयिष्यामि’ अत्र तस्य इति सर्वनाम पदं कस्मै प्रयुक्तं? [1]

प्रश्न 11.
‘वञ्चनं न शोषणम् ‘ अत्र ‘पोषणम्’ इति पदस्य विलोमपदं चित्वा लिखत। [1]

प्रश्न 12.
‘माताऽपि रोदनं विना तनयं न स्तन्यं पाययति’ वाक्ये पुत्रस्य किं पर्यायवाचि पदं प्रयुक्तम्? [1]

प्रश्न 13.
‘अस्मान् अपि नेतुं गृहतः कश्चिद् आगच्छेन्’ इति कः कं कथयति? [1]

प्रश्न 14.
वेदाङ्गानि कति सन्ति ? संक्षेपेण वर्णयत। [3]

प्रश्न 15.
अलङ्कार प्रयोगे बाण-व्यासयोः को भेद? [2]

प्रश्न 16.
छन्दः-अलंकार प्रयोगः दृष्ट्या ‘मुद्राराक्षसम्’ इत्यस्य नाटकस्य समीक्षणं कुरुत। [2]

प्रश्न 17.
निम्नलिखित प्रश्नानाम् संक्षिप्तम् उत्तरं लिखत [3]
(क) ‘कवीनामगलद्द नूनं वासवदत्तया’ इति केन कस्य विषये उक्तम् ?
(ख) पं. अम्बिकादत्तस्य सुविख्याता कृतिः का?
(ग) अभिनव वाणभट्ट इति नाम्नः कः ख्यातः जातः?

प्रश्न 18.
अधोलिखितेषु कस्यापि एकस्य छन्दसः लक्षणोदाहरणे लिखत [3]
(क) वंशस्थ
(ख) अनुष्टुप्
(ग) स्रग्धरा

प्रश्न 19.
निम्नलिखित कस्यापि एकस्याः पंक्त्यां गणचिह्न प्रदर्शयन् छन्दसः नामोल्लेखं कुरुते [2]
(क) कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ।
(ख) विद्यानाम नरस्य रूपमधिकं प्रच्छन्न गुप्तधनम्।

प्रश्न 20.
अधोलिखितेषु कस्यापि एकस्य अलङ्कारस्य लक्षणोदाहरणे लिखत [3]
(क) विशेषोक्तिः
(ख) रूपकम्
(ग) विभावना।

प्रश्न 21.
निम्नलिखितेषु कस्यामपि एकस्यां पंक्त्यां प्रयुक्त-अलङ्कारस्य नामोल्लेखपूर्वकं लक्षणं लिखत- [2]
(क) सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाम पतिवरा सा ।
(ख) प्रत्यर्पित न्यासः इवान्तरात्मा।

प्रश्न 22.
अधोलिखितं अपठित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत [4]
अस्माकं भारतवर्षे नारीणां स्थानम् अतिमहत्त्वपूर्णं वर्तते । यदा-यदा पुरुषशक्तिः पराजिता भवति, तदा-तदा नारीशक्तिः सुसंगठिता भूत्वा मानवसमाजं विपद्भ्यः रक्षति। नार्याः योगदानेन एवं समाजः सुसंस्कृतः दृश्यते। दया-क्षमा-ममतात्याग-सहानुभूति इत्यादयः गुणाः नार्या स्वाभाविकरूपेण वर्तन्ते। स्वतन्त्रतासंग्रामे महाराज्ञी-लक्ष्मीबाई, जीजाबाई, कुशलप्रशासनव्यवस्थायाम् इन्दिरागाँधी महोदया, आरक्षिविभागे किरणबेदी, अन्तरिक्षयात्रायां कल्पना चावला, संगीतक्षेत्रे लतामंगेशकर इति एतासां योगदान के न जानन्ति ।।
(क) स्वतन्त्रतासंग्रामे का योगदानं कृतवती ? (एकपदेन उत्तरं)
(ख) नार्या स्वाभाविकरूपेण के गुणाः वर्तन्ते? (पूर्णवाक्येन उत्तरं दीयताम्)
(ग) “मानवसमाजं विपद्भ्यः रक्षति’ इति अत्र किं क्रियापदं प्रयुक्तम् ?
(घ) मानवसमाजं विपद्भ्य कः रक्षति ?

प्रश्न 23.
अधोलिखतम् अपठित गद्यांशं पठित्वा निर्देशानुसारं प्रश्नानाम् उत्तराणि लिखत [4]
महाभारते व्यासेन कथितम् अस्ति यत् धर्मः शाश्वतः। अतः अस्य परित्यागः कस्याञ्चिदपि दशायां भयेन लोभेन वा न कर्तव्यः। अस्मिन् ग्रन्थे युद्धानां वर्णनानि पठनीयानि सन्ति। यतः महाभारतस्य कथा मुख्यरूपेण अर्जुन-भीमकर्ण-द्रोण-भीष्म- दुर्योधनादिकानां व्यक्तिगतवीरतायाः कथा वर्तते, अतः तत्कालीनेषु युद्धेषु व्यक्तिगतवीरत्वस्य प्राधान्यं लक्ष्यते । कौरवाणां पाण्डवानां च समरे पार्थः प्रायः एकलः एव वीरतां प्रदर्य विजय-लक्ष्म प्राप्नोति । युद्धभूम युध्यमानानां वीराणां पारस्परिकः संवादः यदा कदाचित् पूर्णव्याख्यानरूपेण लभ्यते। अनेन शत्रुपक्षस्य दुष्प्रवृत्तिकारणेन तेषां पराभवस्य दैव्याः योजनायाः आकलनं कर्तुं शक्यते। कौटुम्बिकयुद्धानां वर्णनं भीष्मपर्वणि शल्यपर्वणि च उपलभ्यते।
(क) पार्थ: कां प्राप्नोति? (एकपदेन उत्तरं दीयताम्)
(ख) कौटुम्बिकयुद्धानां वर्णनं कुत्र उपलभ्यते ? (पूर्णवाक्येन उत्तरं दीयताम्)
(ग) “अस्मिन् ग्रन्थे युद्धानां वर्णनानि पठनीयानि सन्ति’ इत्यत्र क्रियापदं किम्?
(घ) गद्यांशस्य समुचितं शीर्षकं लिखत ।

प्रश्न 24.
प्रदत्त शब्दानां प्रयोगं कुर्वन् एकम् अनुच्छेदं लिखत| गुणवन्तं, अहङ्कारी, गुरु: द्रोणाचार्यः, अन्विष्य, आहूय, भ्रान्त्वा, आदिष्टवान्, आनय, मत्तः युधिष्ठिराय, गुणहीनं। [5]

अथवा

क्रमरहितवाक्यानि समुचित क्रमानुसारं लिखत
(क) चतुषु न कोऽपि पुत्रः यष्टिका-पुलं त्रोटयितुम् अशकत् ।
(ख) कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म।
(ग) कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः।
(घ) एकैकं पुत्रम् आहूय सः तं यष्टिका-पुलं त्रोटयितुं कथयति।
(ङ) सत्यमेव कथ्यते यत्-‘संघे शक्तिः कलौ युगे’।
(च) प्रत्येक पुत्रः सरलतया यष्टिकाम् त्रोटयति ।
(छ) तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकाम् त्रोटयेयुः।
(ज) तदा ते ज्ञातवन्तः यत् यदि ते संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति।
(झ) कृषकस्य चत्वारः पुत्र स्म ।
(अ) सोमपुर ग्रामे एकः कृषकः आसीत् ।

प्रश्न 25.
निम्नलिखितेषु वाक्येषु केषाञ्चित् पञ्चवाक्यानाम् संस्कृतभाषायाम् अनुवादं कुरुत- [5]
(क) माता पुत्र से प्यार करती है।
(ख) हिमालय से गंगा निकलती है।
(ग) देवदत्त उपाध्याय से गणित पढ़ता है।
(घ) पिता पुत्र पर क्रोध करता है।
(ङ) उस देवता को नमस्कार ।
(च) स्वर से नरेश प्रतीत होता है।
(छ) हम दोनों पाठशाला जाते हैं।
(ज) तुम सब कहाँ जाते हो?

प्रश्न 26.
अधोलिखित पदानां सूत्रोल्लेखपूर्वकं सन्धि-विच्छेदं कुरुत [2]
(क) भावुकः
(ख) हरिं वन्दे

प्रश्न 27.
अधोलिखित पदानां सूत्रोल्लेखपूर्वकं सन्धिं कुरुत [2]
(क) दिक् + गजः
(ख) माता + इवे उत्तरम्

प्रश्न 28.
निम्नलिखितेषु रेखाङ्कित पदेषु प्रयुक्त-विभक्तेः नामोल्लेखं कृत्वा तस्य सूत्रं चापि लिखत [4]
(क) स: लगुडेन चलन्तं वृद्धम् अपश्यत् ।
(ख) छात्रा कटे तिष्ठन्ति ।
(ग) कृषक: यवेभ्यः गां वारयति ।
(घ) विद्यालयं निकषाः देवालयः अस्ति।

प्रश्न 29.
अधोलिखित पदयोः प्रयुक्तसमासस्य नामोल्लेखपूर्वकं विग्रहं कुरुत [2]
(क) हस्तपादम्
(ख) शूलपाणिः

प्रश्न 30.
अधोलिखित विग्रहवाक्ययोः समासं कृत्वा समासस्य नामोल्लेखमपि कुरुत [2]
(क) सप्तानां शतानां समाहार:
(ख) वाक् च अर्थः च

उत्तरम्

उत्तर 1.
(क) रामगिर्या श्रमेषु।
(ख) यक्ष: स्वाधिकारात् प्रमत्तया शापितः आसीत् ।
(ग) व्याख्या: स्वाधिकारात् प्रमत्तः कान्ता-विरहगुरुणा वर्षभोग्येण भर्तुः शापेन अस्तङ्गमितमहिमा कश्चिद् यक्ष: जनकतनयास्नानपुण्योदकेषु स्निग्ध अया-तरुषु रामगिर्याश्रमेषु वसतिं चक्रे।

उत्तर 2.
(क) चन्द्रापीडस्य।
(ख) यौवराज्याभिषेकाय इच्छुकः राजा प्रतीहारानुपकरणसम्भार-संग्रहार्थमादिदेश।
(ग) “दिवसेषु’ इति पदस्य। शुकनासः।

उत्तर 3.
(क) सूत्रधारस्य गृहे विदूषकार्य भोजनं सम्पन्नं नि:सपलं चासीत् ।
(ख) आर्या ।
(ग) सूत्रधारः कथयति-अतो गच्छत्वार्या अहमप्यस्मादृशजनयोग्यं ब्राह्मणमुप निमन्त्रयामि।

उत्तर 4.
(क) दिलीपः कस्याः सेवां कृतवान् ?
(ख) मनः कस्मात् शीघ्रतरम् ?
(ग) कस्य अर्थगौरवं प्रसिद्धम् ?

उत्तर 5.
(क) भावार्थः- श्रीकृष्णः कथयति – हे , अर्जुन त्वम् हानि लाभं च समान भावेन पश्यन् समत्व योगेस्थितः सन् आसक्तिं परित्यज्य सफलताम् असफलतां वा समानं मत्वा कर्तव्यानि सम्पादय। यतः एतत् समत्वम् एवं निष्काम कर्मयोगः इति कथ्यते।
(ख) भावार्थ:- प्रायः मन्यते अल्प सारयुक्त वक्तव्यम् इत्येव तात्पर्येन इयमुक्ति शिशुपालवधे प्रयुक्तम् । उत्तमाः महापुरुषाः वा स्वभावेन अल्पभाषिणः भवन्ति। ते सदा सारयुक्तं अल्पमेव वदति। शास्त्रेषुऽपि एवम् प्रयोगः। अत: अधिकं ने वक्तव्यम् इति शिक्ष्यते महापुरुषभिः।

उत्तर 6.
अन्वयः-(युधिष्ठिर उवाच)- हे यक्ष! मे मृतम् (यत्) आनृशंस्य परमर्थात च पर: धर्मः। (अतः अहम्) आनृशंस्यं चिकीर्षानि (अतः) नकुलो जीवतु।
सरलार्थ-हे यक्ष! मेरे मत के अनुसार (परोपकारार्थ) दया और समता का भाव ही श्रेष्ठ धर्म है। मैं दया और समता का भाव ही रखना चाहता हूँ। अत: नकुल जीवित हो जाये।

उत्तर 7.
(क) प्रतिध्वनि
(ख) श्रेष्ठतर।

उत्तर 8.
‘विद्यते’ इति क्रियापदं ‘नवशब्दः’ इति कर्तृपदम् ।

उत्तर 9.
‘परिक्षीणः’ इति विशेषणपदम् ‘रामभद्रश्च’ विशेष्यपदम् ।

उत्तर 10.
‘सिंहस्य’ इति पदाय।

उत्तर 11.
शोषणम्।

उत्तर 12.
तनयम्।

उत्तर 13.
वृद्धाश्रमवासिन्य वृद्धाः।

उत्तर 14.
संहिता, ब्राह्मण, आरण्यक, उपनिषद् एभ्यः अतिरिक्त वेदस्य षड् अङ्गानि सन्ति । शिक्षा, कल्पः, निरुक्तम्, व्याकरणम्, छन्दः, ज्योतिष च षड्वेदाङ्गानि कथयन्ति।

  1. शिक्षा- मन्त्राणामुच्चारणं ज्ञानं स्वरज्ञानं शिक्षाशास्त्रे वर्णितम्।
  2. कल्प-कल्पसूत्र ग्रन्थेषु वेदोक्त यागानां पूर्ण परिचय: प्रदत्तः।
  3. निरुक्तम्-वैदिक शब्दानां व्युत्पत्तिपूर्वकम् अर्थविवेचनं निरुते भवति।
  4. व्याकरणम्-व्याकरणे वैदिक शब्दानां शुद्धस्वरूपं निर्धार्यते।
  5. छन्द-यति, चरण, मात्रादीनाम् आधारेण मन्त्राणां शुद्धं स्वरूपं निर्धार्यते छन्दशास्त्रेण।
  6. ज्योतिषम्-इदं कालविज्ञापर्क शास्त्रं यज्ञादिक्रियाणां शुद्धं मुहूर्तं ज्ञातुं मार्गदर्शन करोति । शुद्धमुहुर्ते कृतं यज्ञादिकं कार्यं सफलं भवति इति धारणा वशात् ।

उत्तर 15.
बाणस्य कृति: यत्र अलङ्काराणां भारेण भारिता प्रतीयते तत्र व्यासस्य कृतिः विरलालङ्कारेण विभूषिता तन्वङ्गी इव सुशोभिता दृश्यते।

उत्तर 16.
अलङ्कारेषु उपमा-रूपक-श्लेष-अर्थान्तरन्यास अप्रस्तुतप्रशंसा-समासोक्तीत्यादीनां अलङ्काराणां प्रयोग: सफलतापूर्वक: कृतम् अस्ति । व्यंग्यार्थ प्रतीति: नाटककारेण श्लेष द्वारा अतिकुशलतया अभिव्यञ्जिता । छन्दस्सु शार्दूलविक्रीडितं स्रग्धरा-वसन्ततिलका- शिखरिणी अनुष्टुप्-आदीनां सम्यक् प्रयोगः विहित।

उत्तर 17.
(क) ‘हर्षचरित’ बाणभट्टेन वासवदत्तायाः प्रशंसायाम् उक्तमिदम् वाक्यम्।
(ख) ‘शिवराजविजयम्’ नाम उपन्यासः।
(ग) पं. अम्बिकादत्त व्यासः इति अभिनव बाणभट्ट इति नाम्ना ख्यातः।

उत्तर 18.
(ख) अनुष्टुप्-इस छन्द को श्लोक भी कहते हैं। इसका लक्षण इस प्रकार है :
श्लोके षष्ठं गुरुज्ञेयं सर्वत्र लघुपंचमम् । द्विचतुष्पादयोह्रस्वं सप्तमं दीर्घ मन्ययोः।।
अर्थात् इस छन्द के सभी चारों चरणों का पाँचवाँ वर्ण लघु, छठा वर्ण गुरु तथा प्रथम एवं तृतीय चरण का सातवाँ वर्ण गुरु और द्वितीय एवं चतुर्थ चरण का सातवाँ वर्ण लघु होता है।
उदाहरणम्-
RBSE Class 12 Sanskrit Model Paper 4 1
उत्तर 19.
RBSE Class 12 Sanskrit Model Paper 4 2

उत्तर 20.
(क) विशेषोक्ति (लक्षण)-‘विशेषोक्तिरखण्डेषु कारणेषु फलावचः।’
जहाँ कारण तो होता है किन्तु कार्य का अभाव होता है, वहाँ विशेषोक्ति अलङ्कार कहा जाता है। इस अलङ्कार में कारण ( हेतु) की प्राप्ति होती है तथापि कार्य की प्राप्ति नहीं होती।
उदाहरण–
ध्वनिनोऽपि निरुन्मादाः, युवानोऽपि न चंचलाः। प्रभवोऽप्यप्रमत्तास्ते, महामहिम शालिनः।
उदाहरण-सङ्गति–यहाँ धनरूप, युवावस्था रूप और प्रभुतारूप कारण विद्यमान है तथापि क्रमशः उन्माद, चंचलता और प्रमाद रूप कार्य का अभाव हैं। इसलिए यहाँ विशेषोक्ति अलङ्कार है।

उत्तर 21.
(क) उपमा ।
लक्षण–प्रस्फुटं सुन्दरं साम्य मुपमेत्यभिधीयते ।
(ख) उत्प्रेक्षा ।
लक्षण–भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना।

उत्तर 22.
(क) लक्ष्मीबाई ।
(ख) नार्या दया-क्षमा ममता-त्याग- सहानुभूत्यादयः गुणा: स्वाभाविकरूपेण वर्तन्ते ।
(ग) ‘रक्षति’ ।
(घ) नारीशक्ति: सुसंगठिता भूत्वा मानव समाज विपद्भ्यः रक्षति ।

उत्तर 23.
(क) विजयलक्ष्मीम्।
(ख) कौटुम्बिकयुद्धानां वर्णनं भीष्मपर्वणि शल्यपर्वणि च उपलभ्यते ।
(ग) सन्ति ।
(घ) महाभारतम्।।

उत्तर 24.
एकदा गुरुः द्रोणाचार्य: दुर्योधनम् आहूय आदिशत्- “वत्स! नगरे सर्वाधिकं गुणवन्तं जनम् अन्विष्य आनय।’ दुर्योधनः अहङ्कारी आसीत् । सः सर्वत्र भ्रान्त्वा आगच्छत् अवदत् च- भगवन् ! मत्तः गुणवत्तरः कोऽपि नास्ति इति ।’ आचार्यः पुनः युधिष्ठिरम् आहूय आदिष्टवान्-“वत्स! नगरे सर्वाधिक गुणहीने जनम् अन्विष्य आनय इति ।” युधिष्ठिरः आगत्य अवदत्-‘प्रभो! मत्त: गुणहीन: नगरे कोऽपि नास्ति ।” आचार्यः युधिष्ठिरीय आशिषम् अयच्छत्- “प्रियपुत्र! तव कीर्ति: कदापि न नंक्ष्यति । नूनं सत्यमेव उच्यते – यथा दृष्टिः तथा सृष्टिः।

अथवा का उत्तर

(क) सोमपुरग्रामे एक कृषकः आसीत् ।
(ख) कृषकस्य चत्वार पुत्रा: स्म ।
(ग) कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म।
(घ) एकैकं पुत्रम् आहूय सः तं यष्टिका-पुजं त्रोटयितुं कथयति ।
(ङ) चतुषु न कोऽपि पुत्र: यष्टिका-पुलं त्रोटयितुम् अशकत् ।
(च) तदा सः कृषक: तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटये यु:।
(छ) प्रत्येक पुत्र: सरलतया यष्टिकाम् त्रोटयति।
(ज) कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः।
(झ) तदा ते ज्ञातवन्तः यत् यदि ते संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति।
(ञ) सत्यमेव कथ्यते यत् -‘संघे शक्तिः कलौ युगे’।

उत्तर 25.
(क) माता पुत्रे स्निह्यति।
(ख) हिमालयात् गङ्गा प्रभवति ।
(ग) देवदत्त: उपाध्यायात् गणितं पठति ।
(घ) पिता पुत्राय क्रुध्यति। (ङ) तस्मै देवाय नमः ।
(च) स्वरेण नरेश: प्रतिभाति ।
(छ) आवां पाठशाला गच्छावः।
(ज) यूयं कुत्र गच्छथ?

उत्तर 26.
(क) भावुकः = भौ + उक – अयादि सन्धिः -एचोऽयवायावः।
(ख) हरिं वन्दे = हरिम् । + वन्दे = अनुस्वार सन्धिः -मोऽनुस्वारः।

उत्तर 27.
(क) दिक् +गजः = दिग्गजः – हल् (जश्त्व) – झालां जश झशि
(ख) माता + इव = मातेव। गुण – आद्गुणः।।

उत्तर 28.
(क) लगुडेन-तृतीया विभक्तिः – कर्तृकरणयोस्तृतीया।
(ख) कटे – सप्तमी विभक्तिः – सप्तम्यधिकरणे च।
(ग) यवे भ्य:- पञ्चमी विभक्ति : – वारणार्थानाभीप्सितः।
(घ) विद्यालयं-द्वितीया विभक्ति:- अभितः परित: समया निकषा हा प्रतियोगे द्वितीया ।

उत्तर 29.
(क) हस्तपादम् = हस्तौ च पादौ च – समाहार द्वन्द्व
(ख) शूलपाणिः – शूलम् पाणौ यस्य सः (शिव:) -बहुव्रीहि समासः।

उत्तर 30.
(क) सप्तानां शतानां समाहारः, – सप्तशती द्विगु समासः
(ख) वाक् च अर्थ: च = वागर्थी। – इतरेतर द्वन्द्वः।

We hope the given RBSE Class 12 Sanskrit Model Paper 4 will help you. If you have any query regarding RBSE Class 12 Sanskrit Sample Paper 4, drop a comment below and we will get back to you at the earliest.

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Model Papers

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • Class 7 Hamara Rajasthan Chapter 9 Question Answer in English The Contribution of Rajasthan in the Making of the Constitution
  • Class 7 Hamara Rajasthan Chapter 8 Question Answer in English Social and Educational Reforms in Rajasthan before Independence
  • Class 7 Hamara Rajasthan Chapter 7 Question Answer in English Independence Movement and Rajasthan
  • Class 7 Hamara Rajasthan Chapter 6 Question Answer in English The Prominent Rulers of Rajasthan
  • Class 7 Hamara Rajasthan Chapter 5 Question Answer in English Trade in Rajasthan
  • Class 7 Hamara Rajasthan Chapter 4 Question Answer in English Agricultural Marketing in Rajasthan
  • Class 7 Hamara Rajasthan Chapter 3 Question Answer in English Agriculture and Irrigation
  • Class 7 Hamara Rajasthan Chapter 2 Question Answer in English Minerals and Power Resources
  • Class 7 Hamara Rajasthan Chapter 1 Question Answer in English Forest, Wildlife and its Conservation
  • हमारा राजस्थान कक्षा 7 पाठ 9 के प्रश्न उत्तर संविधान निर्माण में राजस्थान का योगदान
  • हमारा राजस्थान कक्षा 7 पाठ 8 के प्रश्न उत्तर आजादी से पूर्व राजस्थान में सामाजिक-शैक्षणिक सुधार

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2026 RBSE Solutions

 

Loading Comments...