Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् क्रमयोजनम्
पाठ्यपुस्तक के क्रमयोजनम्
(1)
प्रश्नः क्रमरहितवाक्यानि समुचितक्रमानुसारं लिखत
- चतुषु न कोऽपि पुत्रः यष्टिका-पुलं त्रोटयितुम् अशकत्
- कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
- कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः।
- एकैकं पुत्रम् आहूय सः तं यष्टिका-पुञ्ज त्रोटयितुं कथयति
- सत्यमेव कथ्यते यत्-‘संघे शक्तिः कलौ युगे
- प्रत्येक पुत्रः सरलतया यष्टिकाः त्रोटयति
- तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटयेयुः
- तदा ते ज्ञातवन्तः यत् यदि ते संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति
उत्तर:
समुचित-क्रमानुसारम्
- कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
- एकैकं पुत्रम् आहूय सः तं यष्टिका-पुलं त्रोटयितुं कथयति।
- चतुषु न कोऽपि पुत्रः यष्टिका-पुलं त्रोटयितुम् अशकत्
- तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटयेयुः
- प्रत्येक पुत्रः सरलतया यष्टिकाः त्रोटयति।
- कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः
- तदा ते ज्ञातवन्तः यत् यदि वे संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति
- सत्यमेव कथ्यते यत् -‘संघे शक्तिः कलौ युगे’।
अभ्यास-कार्य
(2)
- तस्य गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्
- श्रेष्ठिनि पृष्टे सः आह- नदीतटात् सः श्येनेन हृतः
- सुचिरेण कालेन प्रत्यागतः सः श्रेष्ठिनं स्वतुलाम् अयाचत्
- तयोः वृत्तान्तं श्रुत्वा धर्माधिकारिभिः विहस्य द्वावेव तुला-शिशु-प्रदानेन सन्तोषितौ
- आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः
- श्रेष्ठिः अवदत् – ‘मूषकैः भक्षिता तुला
- जीर्णधनः तुलां कस्यचित् श्रेष्ठिनः गृहे निक्षेपरूपेण स्थापयित्वा देशान्तरम् अगच्छत्
- श्रेष्ठिनः अनुमत्या जीर्णधनः तस्य पुत्रेण सह स्नानार्थ नदीमगच्छत्।
उत्तर:
समुचित-क्रमानुसारम्
- आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
- तस्य गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्
- जीर्णधनः तुलां कस्यचित् श्रेष्ठिनः गृहे निक्षेपरूपेण स्थापयित्वा देशान्तरम् अगच्छत्।
- सुचिरेण कालेन प्रत्यागतः सः श्रेष्ठिनं स्वतुलाम् अयाचत्
- श्रेष्ठिः अवदत् – ‘मूषकैः भक्षिता तुला।’
- श्रेष्ठिनः अनुमत्या जीर्णधनः तस्य पुत्रेण संह स्नानार्थ नदीमगच्छत्
- श्रेष्ठिनि पृष्टे सः आह- नदीतटात् स: श्येनेन हृतः
- तयोः वृत्तान्तं श्रुत्वा धर्माधिकारिभिः विहस्य द्वावेव तुला-शिशु-प्रदानेन सन्तोषितौ।
(3)
- अस्ति च सायं समयः।
- मासोऽयमाषाढः
- अस्मिन् समये एकः षोडशवर्ष-देशीयो गौरयुवा हयेन पर्वतश्रेणी: उपर्युपरि गच्छति स्म।
- अस्तं जिगमिषुर्भगवान् भास्करः
- एष सुघटितदृढ-शरीरः
- कोऽपि शिववीरस्य विश्वासपात्रं सिंहदुर्गात् तस्यैव पत्रमादाय तोरणदुर्ग प्रयाति
- एषः श्याम-श्यामैगुच्छ-गुच्छै: कुं चितै:-कुचितै: कचकलापै: कमनीयकपोलपालिः
- एष: समाच्छादित-ललाट-कपोल-नासाग्रोरोष्ठः प्रसन्नवदनाम्भोजप्रदर्शितः
उत्तर:
समुचित-क्रमानुसारम्
- मासोऽयमाषाढः
- अस्ति च सायं समयः
- अस्तं जिगमिषुर्भगवान् भास्करः।
- अस्मिन् समये एकः षोडशवर्ष-देशीयो गौरयुवा हयेन पर्वतश्रेणी: उपर्युपरि गच्छति स्म
- एष सुघटितदृढ-शरीरः।
- एषः श्याम-श्यामैगुच्छ-गुच्छैः कुं चितै:-कुचितै: कचकलापै: कमनीयकपोलपालिः।
- एष: समाच्छादित-ललाट-कपोल-नासाग्रोरोष्ठः प्रसन्नवदनाम्भोजप्रदर्शितः
- कोऽपि शिववीरस्य विश्वासपात्रं सिंहदुर्गात् तस्यैव पत्रमादाय तोरणदुर्ग प्रयाति।
अन्य महत्त्वपूर्ण क्रमायोजनम्
प्रश्न-क्रमरहितवाक्यानि समुचितक्रमानुसारं लिखत
(1)
क्रमरहितानि वाक्यानि
- सः प्रतिदिनं प्रतिद्वारं भिक्षाटनं करोति
- एकः भिक्षुकः
- देवदर्शनतः पूर्वं गङ्गायां स्नानं करोति
- विश्वनाथदेवस्य दर्शनाय काशीं गच्छति
- सः अपि देवं स्थापयति
- गङ्गातटे धनपात्रस्य उपरि देवं स्थापयति
- अन्ये यात्रिकाः अपि तथैव कुर्वन्ति।
- एकः यात्रिकः आगच्छति
उत्तर:
क्रमायोजनम्

- आंग्लसैनिकैः मानगढपर्वतः परितः आक्रान्तः
- जनाः जागरूकाः अभवन्
- गोविन्दः गुरुः ‘सम्पसभा’ इति संस्थायाः स्थापनां कृतवान्
- प्रायशः सार्धक सहस्रं वनवासिनः मृताः
- आंग्लशासकाः रुष्टाः अभवन्
- प्रतिवर्षम् एतद् अधिवेशनं भवति स्म्
- आंग्लसैनिकाः जनानाम् उपरि गुलिकाप्रहारं कृतवन्तः।
- मानगढपर्वतोऽपरि सम्पसभायाः प्रथमम् अधिवेशनम् अभवत्
उत्तर:
क्रमायोजनम्
- गोविन्दः गुरुः ‘सम्पसभा’ इति संस्थायाः स्थापनां कृतवान्
- मानगढपर्वतोऽपरि सम्पसभायाः प्रथमम् अधिवेशनम् अभवत्
- प्रतिवर्षम् एतद् अधिवेशनं भवति स्म
- जनाः जागरूकाः अभवन्
- आंग्लशासकाः रुष्टाः अभवन्।
- आंग्लसैनिकैः मानगढपर्वतः परितः आक्रान्तः
- आंग्लसैनिकाः जनानाम् उपरि गुलिकाप्रहारं कृतवन्तः
- प्रायशः सार्धक सहस्रं वनवासिनः मृताः।
(3)
क्रमरहितानि वाक्यानि
- तन्तुवायः तन्तुवायेन जीविकाम् अर्जयति स्म
- तन्तुवायः महाकवितुल्यः न आसीत्.
- राजाभोजः मन्त्रिणं लक्ष्मीधरस्य आवासव्यवस्थायै आदिशति
- एकदा लक्ष्मीधरः भोजराजस्य सभां गच्छति
- भोजराजः लक्ष्मीधरस्य वाक्चातुर्येण प्रसन्नः भवति
- नगरपालः नगरे कमपि निरक्षरं मूर्ख वा न अपश्यत्
- भोजराजः नगरपालं काव्यप्रतिभाहीनं जनं नगरात् निष्कास्य लक्ष्मीधरं वासयितुम् आदिशति
- वस्तुतः तन्तुवायः अपि कविः आसीत्
उत्तर:
क्रमायोजनम्
- एकदा लक्ष्मीधरः भोजराजस्य सभां गच्छति
- राज्ञाभोजः मन्त्रिणं लक्ष्मीधरस्य अवासव्यवस्थायै आदिशति
- भोजराजः लक्ष्मीधरस्य वाक्चातुर्येण प्रसन्नः भवति
- भोजराजः नगरपालं काव्यप्रतिभाहीनं जनं नगरात् निष्कास्य लक्ष्मीधरं वासयितुम् आदिशति
- नगरपालः नगरे कमपि निरक्षरं मूर्ख वा न अपश्यत्
- तन्तुवायः तन्तुवायेन जीविकाम् अर्जयति स्म
- वस्तुतः तन्तुवायः अपि कविः आसीत्
- तन्तुवायः महाकवितुल्यः न आसीत्।
(4)
क्रमरहितानि वाक्यानि
- सः दूरे एकं घटं अपश्यत् तत्र च अगच्छत्
- एकः काकः पिपासितः आसीत्
- सः घटस्योपरि अतिष्ठत्
- घटे अल्पं जलं आसीत्
- जलं पीत्वा सन्तुष्टः अभवत्
- तेन एकोपायः चिन्तितः, पाषाणखण्डानि च आनि तानि
- तानि पाषाणखण्डानि घटे अक्षिपत्
- घटस्य जलं उपरि आगतवान्।
- तेन विचारितं यत् उद्यमेन हि कार्याणि सिद्ध्यन्ति
उत्तर:
क्रमायोजनम्
- एकः काकः पिपासितः आसीत्।
- सः दूरे एकं घटं अपश्यत् तत्र च अगच्छत्
- सः घटस्योपरि अतिष्ठत्
- घटे अल्पं जलं आसीत्
- तेन विचारितं यत् उद्यमेन हि कार्याणि सिद्ध्यन्ति
- तेन एकोपायः चिन्तितः, पाषाणखण्डानि च आनि तानि
- तानि पाषाणखण्डानि घटे अक्षिपत्
- घटस्य जलं उपरि आगतवान्
- जलं पीत्वा सन्तुष्टः अभवत्।
(5)
क्रमरहितवाक्यानि
- कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिका सरलतया त्रोटितवन्तः
- चतुषु न कोऽपि पुत्रः यष्टिकापुञ्ज त्रोटयितुम् अशकत्
- कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
- एकैकं पुत्रम् आहूय सः तं यष्टिका पुञ्ज त्रोटयितुं कथयति
- सत्यमेव कथ्यते यत् ‘संगठने शक्तिः कलौ युगे’
- प्रत्येकं पुत्रः सरलतया यष्टिकाः त्रोटयति
- तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटयेयुः
- तदा ते ज्ञातवन्तः यत् यदि ते संगठने स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति।
अथवा
- चतुषु न कोऽपि पुत्रः यष्टिकापुञ्ज त्रोटयितुम् अशकत्
- कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
- कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिको सरलतया त्रोटितवन्तः
- एकैकं पुत्रम् आहूय सः तं यष्टिका-पुञ्ज त्रोटयितुं कथयति
- सत्यमेव कथ्यते यत् ‘संघे शक्ति: कलौ युगे’
- प्रत्येकं पुत्रः सरलतया यष्टिकाः त्रोटयति
- तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटयेयुः
- तदा ते ज्ञातवन्तः यत् यदि ते संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति
उत्तर:
क्रमायोजनम्
- कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
- एकैकं पुत्रम् आहूय सः तं यष्टिका-पुञ्ज त्रोटयितुं कथयति
- चतुषु न कोऽपि पुत्रः यष्टिका-पुञ्ज त्रोटयितुम् अशकत्
- तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिका त्रोटयेयुः
- प्रत्येकं पुत्रः सरलतया यष्टिका: त्रोटयति
- कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः
- तदा ते ज्ञातवन्तः यत् यदि ते संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति।
- सत्यमेव कथ्यते यत् ‘संघ/संगठने शक्तिः कलौ युगे’।
(6)
क्रमरहितवाक्यानि
- राजकोटात् मैट्रिकपरीक्षाम् उत्तीर्य सः उच्चशिक्षायै इंग्लैण्डदेशम् अगच्छत्
- गान्धिनः जन्म पोरबन्दरनगरे अक्तूबरमासस्य द्वितीयतारिकायाम् 1869 तमे अब्दे अभवत्
- तत्र भारतीयानाम् उद्धराय सः महान्तं प्रयत्नम् अकरोत्
- अस्य माता ‘पुतलीबाई’ आसीत् जनकःच श्रीकर्मचन्दगान्धी
- तत्र वाक्कीलपरीक्षाम् उत्तीर्य सः भारतं प्रत्यागच्छत्
- भारते कंचित्कालं कार्यं कृत्वा असौ एकस्मिन् अभियोगे दक्षिणाफ्रीकाभू खण्डम् अगच्छत्
- भारतदेशेऽपि सः शोषितानां दलितानां च उद्धारमकरोत्।
- महात्मागाँधी अस्माकं राष्ट्रपिता अस्ति
उत्तर:
क़मायोजनम्।
- महात्मागाँधी अस्माकं राष्ट्रपिता अस्ति
- गान्धिनः जन्म पोरबन्दरनगरे अक्तूबरमासस्य द्वितीयतारिकायाम् 1869 तमे अब्दे अभवत्
- अस्य माता ‘पुतलीबाई’ आसीत् जनकः च श्रीकर्मचन्दगान्धी
- राजकोटात् मैट्रिकपरीक्षाम् उत्तीर्य सः उच्चशिक्षायै इंग्लैण्डदेशम् अगच्छत्
- तत्र वाक्कीलपरीक्षाम् उत्तीर्य सः भारतं प्रत्यागच्छत्
- भारते कं चित्काल कार्यं कृत्वा असौ एकस्मिन् अभियोगे दक्षिणाफ्रीकाभूखण्डम् अगच्छत्
- तत्र भारतीयानाम् उद्धराय सः महान्तं प्रयत्नम् अकरोत्
- भारतदेशेऽपि सः शोषितानां दलितानां च उद्धारमकरोत्।
(7)
क्रमरहितवाक्यानि
- काकः तद् जलं यथेच्छमपिबत्
- जलं उपरि अभवत्
- पिपासया पीडितः एकः काकः आसीत्
- जलकुम्भे स्वल्पं जलमासीत्
- एकस्मिन् उद्याने जलकुम्भं अपश्यत्
- सः चञ्च्वा पाषाण खण्डानि जलकुम्भे अपातयत्
- सः चञ्च्वा जलं पातुं न अशक्नोत्।
- सः तत्र पाषाण खण्डानि अपश्यत्
उत्तर:
क्रमायोजनम्
- पिपासया पीडितः एकः काकः आसीत्
- एकस्मिन् उद्याने जलकुम्भम् अपश्यत्।
- जलकुम्भे स्वल्पं जलमासीत्
- सः चञ्च्वी जलं पातुं नाशक्नोत्
- सः तत्र पाषाण खण्डानि अपश्यत्
- सः चञ्चुवा पाषाण खण्डानि जलकुम्भे अपातयत्
- जलं उपरि अभवत्
- काकः तद् जलं यथेच्छमपिबत्।
(8)
क्रमरहितवाक्यानि
- अस्ति धने कतिपया लवङ्गान् आदाय सः गुरुसेवायाम् उपस्थितः अभवत्
- विविधेषु नगरेषु तीर्थेषु च गुरुम् अमार्गयत्
- गुरुः अवदत्-”अहं त्वत् लवङ्गान् च ग्रहीष्यामियदि त्वं माम् प्रसादयितुम् इच्छसि, तर्हि वेदानां प्रचारं कुरु।”
- अन्ततो मथुरायां विरजानन्दस्य साक्षात्कारः अभवत्
- गुरुम् अन्वेष्टुं मूलशंकरः गृहात् निर्गतः
- सम्पन्ने अध्ययने दयानन्दः गुरोः पाश्र्वे गुरुदक्षिणां दातुं गतः
- एकदा तस्य मनसि गुरुर्विषये जिज्ञासा जाता।
- मूलशंकरः एकः जिज्ञासुः जनः आसीत्
उत्तर:
क्रमायोजनम्
- मूलशंकरः एकः जिज्ञासुः जनः आसीत्
- एकदा तस्य मनसि गुरुर्विषये जिज्ञासा जाता
- गुरुम् अन्वेष्टुं मूलशंकरः गृहात् निर्गतः
- विविधेषु नगरेषु तीर्थेषु च गुरुम् अमार्गयत्
- अन्ततो मथुरायां विरजानन्दस्य साक्षात्कारः अभवत्
- सम्पन्ने अध्ययने दयानन्दः गुरोः पार्वे गुरुदक्षिणां दातुं गतः
- अस्ति धने कतिपयान् लवङ्गान् आदाय सः गुरुसेवायाम् उपस्थितः अभवत्
- गुरुः अवदत्-”अहं त्वत् लवङ्गान् च ग्रहीष्यामियदि त्वं माम्। प्रसादयितुम् इच्छसि, तर्हि वेदानां प्रचारं कुरु।”
(9)
क्रमरहितवाक्यानि
- एकदा शशकः विलम्बेन सिंहस्य समीपमगच्छत्
- तदा शशकः सिंह कूपस्य समीपमनयत्
- दुर्दान्तः कूपे अकूर्दत् पञ्चत्वं चागच्छत्
- कस्मिश्चिदरण्ये दुर्दान्तो नाम सिंहः प्रतिवसति स्म
- सर्वे पशवः एकं पशु सिंहस्य भोजनाय प्रेषयन्ति स्म
- सः बहून् पशून् हन्ति स्म
- जले दुर्दान्तः स्वं प्रतिबिम्बमपश्यत्
- सिंह: कुपितोऽभवत्।
उत्तर:
क़मायोजनम्
- कस्मिश्चिदरण्ये दुर्दान्तो नाम सिंहः प्रतिवसति स्म
- सः बहून् पशून् हन्ति स्म
- सर्वे पशवः एकं पशु सिंहस्य भोजनाय प्रेषयन्ति स्म
- एकदा शशकः विलम्बेन सिंहस्य समीपमगच्छत्
- सिंहः कुपितोऽभवत्
- तदा शशकः सिंह कूपस्य समीपमनयत्
- जले दुर्दान्तः स्वं प्रतिबिम्बमपश्यत्
- दुर्दान्तः कूपे अकूर्दत् पञ्चत्वं चागच्छत्।
(10)
क्रमरहितवाक्यानि
- सा च एषा आसीत् यत् यावदहं चित्तौडे स्वाधीनं न कारयिष्यामि तावत् भूमिम् अधिशेष्ये, न च सुवर्णमये पात्रे भोजनं करिष्यामि
- यदा महाराजः प्रतापः युवा अभवत् तदा सः स्वजनकस्य नाम्नि ‘उदयपुरम्। नगरम् अस्थापयत्
- सिंहासनारोहणसमये प्रतापेन एका प्रतिज्ञा कृता
- प्रतापस्य जनकः उदयसिंहः चित्तौडम् रक्षितुम् असमर्थः आसीत्
- तत् नगरम् एव सः स्वराजधानीम् अकरोत्
- अतः एव तत् यवनानाम् अधिकारे अपतत्
- महाराणा प्रतापः उदयसिंहस्य पुत्रः आसीत्।
- महाराणा उदयसिंहः चित्तौडस्य राजा आसीत्
उत्तर:
क्रमायोजनम्
- महाराणा उदयसिंहः चित्तौडस्य राजा आसीत्
- महाराणा प्रतापः उदयसिंहस्य पुत्रः आसीत्
- प्रतापस्य जनकः उदयसिंह: चित्तौडम् रक्षितुम् असमर्थः आसीत्
- अतः एव तत् यवनानाम् अधिकारे अपतत्
- यदा महाराजः प्रतापः युवा अभवत् तदा सः स्वजनकस्य नाम्नि ‘उदयपुरम्’ नगरम् अस्थापयत्
- तत् नगरम् एव सः स्वराजधानीम् अकरोत्
- सिंहासनारोहणसमये प्रतापेन एका प्रतिज्ञा कृता
- सा च एषा आसीत् यत् यावदहं चित्तौडं स्वाधीनं न कारयिष्यामि तावत् भूमिम् अधिशेष्ये, न च सुवर्णमये पात्रे भोजनं करिष्यामि।
(11)
क्रमरहितवाक्यानि
- गणनावसरे कश्चिदपि मूर्खः निजं नागणयत्
- तेषां नायकः अपृच्छत्-‘अपि सर्वे स्नात्वा आगताः।’
- दशमूर्खाः स्नानार्थं नदीमगच्छन्
- सर्वे वारं वारं गणयित्वा अवदन्-‘नव एव स्म।’ दशमः नद्यां मग्नः।
- यदा पथिकः तानगणयत्-ते दश एव आसन्
- तदा पथिकः अवदत्-‘दशमः त्वमसि।’
- तदा कश्चित् पथिकः तेषां दु:खस्य कारणमपृच्छत्।
- तेषां नायकः पुनर्नव अगणयत्
उत्तर:
क्रमायोजनम्
- दशमूर्खाः स्नानार्थं नदीमगच्छन्
- तेषां नायकः अपृच्छत्-‘अपि सर्वे स्नात्वा आगताः
- गणनावसरे कश्चिदपि मूर्खः निजं नागणयत्
- सर्वे वारं वारं गणयित्वा अवदन्-‘नव एव स्म।’ दशमः नद्यां मग्नः
- तदा कश्चित् पथिकः तेषां दु:खस्य कारणमपृच्छत्
- यदा पथिकः तानगणयत्-ते दश एवं आसन्
- तेषां नायकः पुनर्नव अगणयत्
- तदा पथिकः अवदत्-‘दशमः त्वमसि।’
(12)
क्रमरहितवाक्यानि
- तेन सः शठः व्याघ्रनखैः विदारितः
- तदर्थम् सः शिवराजेन सह एकान्ते मिलनेच्छाम् अप्रकटयत्
- शिवराजस्य वर्धमानाम् शक्तिम् अवलोक्य बीजापुरनरेशः चिन्तितः अभवत्
- शिवराजः तस्य धूर्ततां ज्ञातवान्
- तेन एका सेना अफजलखानस्य नेतृत्वे प्रेषिता
- अफजलखानः छलेन शिवराजं हन्तुम् ऐच्छत्
- तस्य कीर्तिपताका सर्वत्र प्रसृता।
- शिवराजः महान् देशभक्तः वीरश्चासीत्
उत्तर:
क़मायोजनम्
- शिवराजः महान् देशभक्तः वीरश्चासीत्
- तस्य कीर्तिपताका सर्वत्र प्रसृता। शिवराजस्य वर्धमानाम् शक्तिम् अवलोक्य बीजापुरनरेशः चिन्तितः अभवत्
- तेन एका सेना अफजलखानस्य नेतृत्वे प्रेषिता
- अफजलखानः छलेन शिवराजं हन्तुम् ऐच्छत्
- तदर्थम् सः शिवराजेन सह एकान्ते मिलनेच्छाम् अप्रकटयत्
- शिवराजः तस्य धूर्ततां ज्ञातवान्
- तेन सः शठः व्याघ्रनखैः विदारितः।
(13) क्रमरहितवाक्यानि
- एवं तयोः मध्ये विवादः संजातःउभौ वानरस्य समीपमगच्छताम्।
- वानरः रोटिकायाः भागद्वयं कृत्वा तुलाकक्षयोः अपातयत्।.
- वानरः अकथयत्-‘मया युवयोः कार्यं कृतम् अतः मे शुल्कम् यच्छताम्।’
- एकः भागः गुरुतरः आसीत् सः तस्मात् किञ्चिद् गृहीत्वा अखादत्
- तौ बुभुक्षितौ गृहं आगच्छताम् अतः परस्परं कलहं न कुर्यात्
- तदा अपरः गुरुतरः अतिष्ठत् वानरः तस्मादपि किञ्चिद् ग्रहीत्वा अखादत्
- कुत्रचिद् द्वौ मार्जारौ अवसताम् तौ एकां रोटिकां प्राप्नुताम्।
- वानरः अवशिष्टामपि रोटिकाम् अखादत्
उत्तर:
क्रमायोजनम्
- कुत्रचिद् द्वौ मार्जारौ अवसताम् तौ एकां रोटिकां प्राप्नुताम्
- एवं तयोः मध्ये विवादः संजातः उभौ वानरस्य समीपमगच्छताम्
- वानरः रोटिकायाः भागद्वयं कृत्वा तुलाकक्षयोः अपातयत्
- एकः भागः गुरुतरः आसीत्सः तस्मात् किञ्चिद् गृहीत्वा अखादत्
- तदा अपरः गुरुतरः अतिष्ठत् वानरः तस्मादपि किञ्चिद् ग्रहीत्वा अखादत्
- वानरः अकथयत्-‘मया युवयोः कार्यं कृतम् अतः मे शुल्कम् यच्छताम्
- वानरः अवशिष्टामपि रोटिकाम् अखादत्
- तौ बुभुक्षितौ गृहं अगच्छताम् अतः परस्परं कलहं न कुर्यात्।
(14)
क्रमरहितवाक्यानि
- ततः ‘ट्रिनिटी कैम्ब्रिज’ इत्यभिधाने विश्वविद्यालये शिक्षा समाप्य स्वदेशम् प्रत्यागच्छत्
- जनकोऽस्य पं. मोतीलालनेहरूः प्रयागस्य प्रसिद्धः वाक्कीलः आसीत्
- नवम्बरमासस्य चतुर्दशतारिकायां 1889 तमे ख्रिष्टाब्दे प्रयागनगरे जवाहरलालः जन्म लेभे
- तत्र ‘हैरो’ नामन्यां शिक्षणसंस्थायाम् प्रवेशम् अलभत
- तत्पश्चात् सः स्वपित्री सह आङ्गलदेशं गतः
- तस्य प्रयासेन भारतदेशः स्वतंत्रः संजातः
- भारतदेशे सः स्वतन्त्रताऽऽन्दोलने अग्रणी आसीत्।
- सः भारतस्य प्रथमः प्रधानमंत्री अभवत्
उत्तर:
क्रमायोजनम्
- नवम्बरमासस्य चतुर्दशतारिकायां 1889 तमे ख्रिष्टाब्दे प्रयागनगरे जवाहरलालः जन्म लेभे
- जनकोऽस्य पं. मोतीलालनेहरूः प्रयागस्य प्रसिद्धः वाक्कीलः आसीत्
- तत्पश्चात् सः स्वपित्रा सह आङ्गलदेशं गतः
- तत्र ‘हैरो’ नामन्यां शिक्षणसंस्थायाम् प्रवेशम् अलभत
- ततः ‘ट्रिनिटी कैम्ब्रिज’ इत्यभिधाने विश्वविद्यालये शिक्षा समाप्य स्वदेशम्। प्रत्यागच्छत्
- भारतदेशे सः स्वतन्त्रताऽऽन्दोलने अग्रणी आसीत्
- तस्य प्रयासेन भारतदेशः स्वतंत्रः संजातः।
- सः भारतस्य प्रथमः प्रधानमंत्री अभवत्।
(15)
क्रमरहितवाक्यानि
- नकुलः सर्वं खण्डशः अकरोत्
- सः रुधिराप्लावितमुखः स्व व्यापार प्रदर्शनार्थं ब्राह्मण्या समीपमगच्छत्
- कस्मिश्चिन्नगरे ब्राह्मणदम्पती निवसतः स्म
- नकुलः बालकस्य समीपमागच्छन्तं कृष्णसर्पमपश्यत्
- तं नकुलं मृतं दृष्ट्वा ब्राह्मणी परं विषाद्रमगच्छत्
- ब्राह्मणी स्वपुत्रस्य रक्षार्थं नकुलं संस्थाप्य स्नातुं गता
- ब्राह्मणी अचिन्तयत्-‘नकुलेन मम पुत्रो हतः।’ ब्राह्मणी: क्रोधावेशे नकुलं अहनत्
- अनन्तरं सा पुत्रं जीवितं कृष्णसर्प च मृतं पश्यति
उत्तर:
क्रमायोजनम्
- कस्मिश्चिन्नगरे ब्राह्मणदम्पती निवसतः स्म
- ब्राह्मणी स्वपुत्रस्य रक्षार्थं नकुलं संस्थाप्ये स्नातुं गता
- नकुलः बालकस्य समीपमागच्छन्तं कृष्णसर्पमपश्यत्
- नकुलः सर्प खण्डशः अकरोत्
- सः रुधिराप्लावितमुखः स्व व्यापार प्रदर्शनार्थं ब्राह्मण्या समीपमगच्छत्
- ब्राह्मणी अचिन्तयत्-‘नकुलेन मम पुत्रो हतः।’ ब्राह्मणी: क्रोधावेशे नकुलं अहनत्
- अनन्तरं सा पुत्रं जीवितं कृष्णसर्प च मृतं पश्यति
- तं नकुलं मृतं दृष्ट्वा ब्राह्मणी परं विषादमगच्छत्।
(16)
क्रमरहितवाक्यानि
- परं सः पूर्णी शान्तिं न अलभत
- तत्कालात् सः बुद्धः इति अभिधानेन प्रख्यातः अभवत्
- सिद्धार्थः एकस्यां रजन्याम् सर्वं त्यक्त्वा गृहात् निर्गतः
- तत्रे च षड् वर्षाणि यावत् तपः अकरोत्
- सः इतस्ततः अभ्रमत्
- तेन बौद्धधर्मस्य स्थापना कृता
- पञ्चभिः मित्रैः सह सः वर्षत्रयं तपः अचरत्।
- अन्ततः च तत्र एवं वटमूले महाबोधम् अलभत
उत्तर:
क्रमायोजनम्
- सिद्धार्थः एकस्यां रजन्याम् सर्वं त्यक्त्वा गृहात् निर्गतः
- सः इतस्ततः अभ्रमत्
- परं सः पूर्णा शान्तिं न अलभत
- पञ्चभिः मित्रैः सह सः वर्षत्रयं तपः अचरत्
- तत्र च षड् वर्षाणि यावत् तपः अकरोत्।
- अन्ततः च तत्र एव वटमूले महाबोधम् अलभत
- तत्कालात् सः बुद्धः इति अभिधानेन प्रख्यातः अभवत्
- तेन बौद्धधर्मस्य स्थापना कृता।
(17)
क्रमरहितवाक्यानि
- तयोरेकः समीपस्थे वृक्षे आरोहत्
- द्वितीयः निर्बलत्वात् निःश्वासमवरुध्ये तत्रैव भूमौ शयानः अतिष्ठत्
- एकदा द्वौ यात्रिणौ कुत्रचित् गच्छतः स्म
- ऋक्षः तं मृतं मत्वा अत्यजत् ऋक्षे गते प्रथमः वृक्षादवातरत्
- सः द्वितीयं मित्रम् पृच्छत्-ऋक्षेण तव कर्णे किं कथितम्?
- तौ परस्परं विपत्तिसमये अपि साहाय्यं कर्तुं प्रतिज्ञातवन्तौ
- द्वितीयः प्रथमं अकथयत् ‘ऋक्षेण कथितं यत् विश्वासघातुकानां विश्वासः नैव कर्त्तव्यः
- उभौ वने एकं ऋक्षं अपश्यताम्
उत्तर:
क्रमायोजनम्
- एकदा द्वौ यात्रिणौ कुत्रचित् गच्छतः स्म
- तौ परस्परं विपत्तिसमये अपि साहाय्यं कर्तुं प्रतिज्ञातवन्तौ
- उभौ वने एकं ऋक्षं अपश्यताम्
- तयोरेकः समीपस्थे वृक्षे आरोहत्
- द्वितीयः निर्बलत्वात् नि:श्वासमवरुध्य तत्रैव भूमौ शयानः अतिष्ठत्
- ऋक्षः तं मृतं मत्वा अत्यजत् ऋक्षे गते प्रथमः वृक्षादवातरत्
- सः द्वितीयं मित्रम् पृच्छत्-ऋक्षेण तवं कर्णे किं कथितम्?
- द्वितीयः प्रथमं अकथयत्-‘ऋक्षेण कथितं यत् विश्वासघातुकानां विश्वासः नैव कर्तव्यः।’
(18)
क्रमरहितवाक्यानि
- ततः कंसः तं मथुरायाम्.आह्वयत्
- जन्मानन्तरम् एव वसुदेवः तं गोकुलम् अनयत्
- कृष्णोऽपि तत्र गत्वा कंसं निहत्य मथुरायाः राज्यं शूरसेनाय समर्पितवान्
- श्रीकृष्णस्य जन्म मथुरायां नृपस्य कंसस्य कारागारे अभवत्
- परन्तु तेन प्रेषिताः सर्वे दैत्याः कृष्णेन यमपुरं प्रापिताः
- तस्य पितुः नाम वसुदेवः आसीत् मातुः च देवकी
- आततायी कंस: कृष्णम् हन्तुम् ऐच्छत्।
- तत्र नन्दयशोदयोः गृहे तस्य पालपोषणादिकम् अभवत्
उत्तर:
क्रमायोजनम्
- श्रीकृष्णस्य जन्म मथुरायां नृपस्य कंसस्य कारागारे अभवत्
- तस्य पितुः नाम वसुदेवः आसीत् मातुः च देवकी
- जन्मानन्तरम् एव वसुदेवः तं गोकुलम् अनयत्।
- तत्र नन्दयशोदयोः गृहे तस्य पालपोषणादिकम् अभवत्
- आततायी कंसः कृष्णम् हन्तुम् ऐच्छत्
- परन्तु तेन प्रेषिताः सर्वे दैत्याः कृष्णेन यमपुरं प्रापिताः
- ततः कंसः तं मथुरायाम् आह्वयत्
- कृष्णोऽपि तत्र गत्वा कंसं निहत्य मथुरायाः राज्यं शूरसेनाय समर्पितवान्।
Leave a Reply