• Skip to main content
  • Skip to secondary menu
  • Skip to primary sidebar
  • Skip to footer
  • RBSE Model Papers
    • RBSE Class 12th Board Model Papers 2022
    • RBSE Class 10th Board Model Papers 2022
    • RBSE Class 8th Board Model Papers 2022
    • RBSE Class 5th Board Model Papers 2022
  • RBSE Books
  • RBSE Solutions for Class 10
    • RBSE Solutions for Class 10 Maths
    • RBSE Solutions for Class 10 Science
    • RBSE Solutions for Class 10 Social Science
    • RBSE Solutions for Class 10 English First Flight & Footprints without Feet
    • RBSE Solutions for Class 10 Hindi
    • RBSE Solutions for Class 10 Sanskrit
    • RBSE Solutions for Class 10 Rajasthan Adhyayan
    • RBSE Solutions for Class 10 Physical Education
  • RBSE Solutions for Class 9
    • RBSE Solutions for Class 9 Maths
    • RBSE Solutions for Class 9 Science
    • RBSE Solutions for Class 9 Social Science
    • RBSE Solutions for Class 9 English
    • RBSE Solutions for Class 9 Hindi
    • RBSE Solutions for Class 9 Sanskrit
    • RBSE Solutions for Class 9 Rajasthan Adhyayan
    • RBSE Solutions for Class 9 Physical Education
    • RBSE Solutions for Class 9 Information Technology
  • RBSE Solutions for Class 8
    • RBSE Solutions for Class 8 Maths
    • RBSE Solutions for Class 8 Science
    • RBSE Solutions for Class 8 Social Science
    • RBSE Solutions for Class 8 English
    • RBSE Solutions for Class 8 Hindi
    • RBSE Solutions for Class 8 Sanskrit
    • RBSE Solutions

RBSE Solutions

Rajasthan Board Textbook Solutions for Class 3, 4, 5, 6, 7, 8, 9, 10, 11 and 12

  • RBSE Solutions for Class 7
    • RBSE Solutions for Class 7 Maths
    • RBSE Solutions for Class 7 Science
    • RBSE Solutions for Class 7 Social Science
    • RBSE Solutions for Class 7 English
    • RBSE Solutions for Class 7 Hindi
    • RBSE Solutions for Class 7 Sanskrit
  • RBSE Solutions for Class 6
    • RBSE Solutions for Class 6 Maths
    • RBSE Solutions for Class 6 Science
    • RBSE Solutions for Class 6 Social Science
    • RBSE Solutions for Class 6 English
    • RBSE Solutions for Class 6 Hindi
    • RBSE Solutions for Class 6 Sanskrit
  • RBSE Solutions for Class 5
    • RBSE Solutions for Class 5 Maths
    • RBSE Solutions for Class 5 Environmental Studies
    • RBSE Solutions for Class 5 English
    • RBSE Solutions for Class 5 Hindi
  • RBSE Solutions Class 12
    • RBSE Solutions for Class 12 Maths
    • RBSE Solutions for Class 12 Physics
    • RBSE Solutions for Class 12 Chemistry
    • RBSE Solutions for Class 12 Biology
    • RBSE Solutions for Class 12 English
    • RBSE Solutions for Class 12 Hindi
    • RBSE Solutions for Class 12 Sanskrit
  • RBSE Class 11

RBSE Class 12 Sanskrit रचनाकार्यम् क्रमयोजनम्

June 3, 2019 by Safia Leave a Comment

Rajasthan Board RBSE Class 12 Sanskrit रचनाकार्यम् क्रमयोजनम्

पाठ्यपुस्तक के क्रमयोजनम्
(1)
प्रश्नः क्रमरहितवाक्यानि समुचितक्रमानुसारं लिखत

  1. चतुषु न कोऽपि पुत्रः यष्टिका-पुलं त्रोटयितुम् अशकत्
  2. कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
  3. कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः।
  4. एकैकं पुत्रम् आहूय सः तं यष्टिका-पुञ्ज त्रोटयितुं कथयति
  5. सत्यमेव कथ्यते यत्-‘संघे शक्तिः कलौ युगे
  6. प्रत्येक पुत्रः सरलतया यष्टिकाः त्रोटयति
  7. तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटयेयुः
  8. तदा ते ज्ञातवन्तः यत् यदि ते संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति

उत्तर:
समुचित-क्रमानुसारम्

  1. कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
  2. एकैकं पुत्रम् आहूय सः तं यष्टिका-पुलं त्रोटयितुं कथयति।
  3. चतुषु न कोऽपि पुत्रः यष्टिका-पुलं त्रोटयितुम् अशकत्
  4. तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटयेयुः
  5. प्रत्येक पुत्रः सरलतया यष्टिकाः त्रोटयति।
  6. कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः
  7. तदा ते ज्ञातवन्तः यत् यदि वे संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति
  8. सत्यमेव कथ्यते यत् -‘संघे शक्तिः कलौ युगे’।

अभ्यास-कार्य
(2)

  1. तस्य गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्
  2. श्रेष्ठिनि पृष्टे सः आह- नदीतटात् सः श्येनेन हृतः
  3. सुचिरेण कालेन प्रत्यागतः सः श्रेष्ठिनं स्वतुलाम् अयाचत्
  4. तयोः वृत्तान्तं श्रुत्वा धर्माधिकारिभिः विहस्य द्वावेव तुला-शिशु-प्रदानेन सन्तोषितौ
  5. आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः
  6. श्रेष्ठिः अवदत् – ‘मूषकैः भक्षिता तुला
  7. जीर्णधनः तुलां कस्यचित् श्रेष्ठिनः गृहे निक्षेपरूपेण स्थापयित्वा देशान्तरम् अगच्छत्
  8. श्रेष्ठिनः अनुमत्या जीर्णधनः तस्य पुत्रेण सह स्नानार्थ नदीमगच्छत्।

उत्तर:
समुचित-क्रमानुसारम्

  1. आसीत् कस्मिंश्चिद् अधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः।
  2. तस्य गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्
  3. जीर्णधनः तुलां कस्यचित् श्रेष्ठिनः गृहे निक्षेपरूपेण स्थापयित्वा देशान्तरम् अगच्छत्।
  4. सुचिरेण कालेन प्रत्यागतः सः श्रेष्ठिनं स्वतुलाम् अयाचत्
  5. श्रेष्ठिः अवदत् – ‘मूषकैः भक्षिता तुला।’
  6. श्रेष्ठिनः अनुमत्या जीर्णधनः तस्य पुत्रेण संह स्नानार्थ नदीमगच्छत्
  7. श्रेष्ठिनि पृष्टे सः आह- नदीतटात् स: श्येनेन हृतः
  8. तयोः वृत्तान्तं श्रुत्वा धर्माधिकारिभिः विहस्य द्वावेव तुला-शिशु-प्रदानेन सन्तोषितौ।

(3)

  1. अस्ति च सायं समयः।
  2. मासोऽयमाषाढः
  3. अस्मिन् समये एकः षोडशवर्ष-देशीयो गौरयुवा हयेन पर्वतश्रेणी: उपर्युपरि गच्छति स्म।
  4. अस्तं जिगमिषुर्भगवान् भास्करः
  5. एष सुघटितदृढ-शरीरः
  6. कोऽपि शिववीरस्य विश्वासपात्रं सिंहदुर्गात् तस्यैव पत्रमादाय तोरणदुर्ग प्रयाति
  7. एषः श्याम-श्यामैगुच्छ-गुच्छै: कुं चितै:-कुचितै: कचकलापै: कमनीयकपोलपालिः
  8. एष: समाच्छादित-ललाट-कपोल-नासाग्रोरोष्ठः प्रसन्नवदनाम्भोजप्रदर्शितः

उत्तर:
समुचित-क्रमानुसारम्

  1. मासोऽयमाषाढः
  2. अस्ति च सायं समयः
  3. अस्तं जिगमिषुर्भगवान् भास्करः।
  4. अस्मिन् समये एकः षोडशवर्ष-देशीयो गौरयुवा हयेन पर्वतश्रेणी: उपर्युपरि गच्छति स्म
  5. एष सुघटितदृढ-शरीरः।
  6. एषः श्याम-श्यामैगुच्छ-गुच्छैः कुं चितै:-कुचितै: कचकलापै: कमनीयकपोलपालिः।
  7. एष: समाच्छादित-ललाट-कपोल-नासाग्रोरोष्ठः प्रसन्नवदनाम्भोजप्रदर्शितः
  8. कोऽपि शिववीरस्य विश्वासपात्रं सिंहदुर्गात् तस्यैव पत्रमादाय तोरणदुर्ग प्रयाति।

अन्य महत्त्वपूर्ण क्रमायोजनम्

प्रश्न-क्रमरहितवाक्यानि समुचितक्रमानुसारं लिखत
(1)
क्रमरहितानि वाक्यानि

  1. सः प्रतिदिनं प्रतिद्वारं भिक्षाटनं करोति
  2. एकः भिक्षुकः
  3. देवदर्शनतः पूर्वं गङ्गायां स्नानं करोति
  4. विश्वनाथदेवस्य दर्शनाय काशीं गच्छति
  5. सः अपि देवं स्थापयति
  6. गङ्गातटे धनपात्रस्य उपरि देवं स्थापयति
  7. अन्ये यात्रिकाः अपि तथैव कुर्वन्ति।
  8. एकः यात्रिकः आगच्छति

उत्तर:
क्रमायोजनम्

  1. एकः भिक्षुकः
  2. सः प्रतिदिनं प्रतिद्वारं भिक्षाटनं करोति
  3. विश्वनाथदेवस्य दर्शनाय काशीं गच्छति
  4. देवदर्शनतः पूर्वं गङ्गायां स्नानं करोति
  5. गङ्गातटे धनपात्रस्य उपरि देवं स्थापयति
  6. एकः यात्रिकः आगच्छति
  7. सः अपि देवं स्थापयति
  8. अन्ये यात्रिकाः अपि तथैव कुर्वन्ति।

(2)
क्रमरहितानि वाक्यानि

  1. आंग्लसैनिकैः मानगढपर्वतः परितः आक्रान्तः
  2. जनाः जागरूकाः अभवन्
  3. गोविन्दः गुरुः ‘सम्पसभा’ इति संस्थायाः स्थापनां कृतवान्
  4. प्रायशः सार्धक सहस्रं वनवासिनः मृताः
  5. आंग्लशासकाः रुष्टाः अभवन्
  6. प्रतिवर्षम् एतद् अधिवेशनं भवति स्म्
  7. आंग्लसैनिकाः जनानाम् उपरि गुलिकाप्रहारं कृतवन्तः।
  8. मानगढपर्वतोऽपरि सम्पसभायाः प्रथमम् अधिवेशनम् अभवत्

उत्तर:
क्रमायोजनम्

  1. गोविन्दः गुरुः ‘सम्पसभा’ इति संस्थायाः स्थापनां कृतवान्
  2. मानगढपर्वतोऽपरि सम्पसभायाः प्रथमम् अधिवेशनम् अभवत्
  3. प्रतिवर्षम् एतद् अधिवेशनं भवति स्म
  4. जनाः जागरूकाः अभवन्
  5. आंग्लशासकाः रुष्टाः अभवन्।
  6. आंग्लसैनिकैः मानगढपर्वतः परितः आक्रान्तः
  7. आंग्लसैनिकाः जनानाम् उपरि गुलिकाप्रहारं कृतवन्तः
  8. प्रायशः सार्धक सहस्रं वनवासिनः मृताः।

(3)
क्रमरहितानि वाक्यानि

  1. तन्तुवायः तन्तुवायेन जीविकाम् अर्जयति स्म
  2. तन्तुवायः महाकवितुल्यः न आसीत्.
  3. राजाभोजः मन्त्रिणं लक्ष्मीधरस्य आवासव्यवस्थायै आदिशति
  4. एकदा लक्ष्मीधरः भोजराजस्य सभां गच्छति
  5. भोजराजः लक्ष्मीधरस्य वाक्चातुर्येण प्रसन्नः भवति
  6. नगरपालः नगरे कमपि निरक्षरं मूर्ख वा न अपश्यत्
  7. भोजराजः नगरपालं काव्यप्रतिभाहीनं जनं नगरात् निष्कास्य लक्ष्मीधरं वासयितुम् आदिशति
  8. वस्तुतः तन्तुवायः अपि कविः आसीत्

उत्तर:
क्रमायोजनम्

  1. एकदा लक्ष्मीधरः भोजराजस्य सभां गच्छति
  2. राज्ञाभोजः मन्त्रिणं लक्ष्मीधरस्य अवासव्यवस्थायै आदिशति
  3. भोजराजः लक्ष्मीधरस्य वाक्चातुर्येण प्रसन्नः भवति
  4. भोजराजः नगरपालं काव्यप्रतिभाहीनं जनं नगरात् निष्कास्य लक्ष्मीधरं वासयितुम् आदिशति
  5. नगरपालः नगरे कमपि निरक्षरं मूर्ख वा न अपश्यत्
  6. तन्तुवायः तन्तुवायेन जीविकाम् अर्जयति स्म
  7. वस्तुतः तन्तुवायः अपि कविः आसीत्
  8. तन्तुवायः महाकवितुल्यः न आसीत्।

(4)
क्रमरहितानि वाक्यानि

  1. सः दूरे एकं घटं अपश्यत् तत्र च अगच्छत्
  2. एकः काकः पिपासितः आसीत्
  3. सः घटस्योपरि अतिष्ठत्
  4. घटे अल्पं जलं आसीत्
  5. जलं पीत्वा सन्तुष्टः अभवत्
  6. तेन एकोपायः चिन्तितः, पाषाणखण्डानि च आनि तानि
  7. तानि पाषाणखण्डानि घटे अक्षिपत्
  8. घटस्य जलं उपरि आगतवान्।
  9. तेन विचारितं यत् उद्यमेन हि कार्याणि सिद्ध्यन्ति

उत्तर:
क्रमायोजनम्

  1. एकः काकः पिपासितः आसीत्।
  2. सः दूरे एकं घटं अपश्यत् तत्र च अगच्छत्
  3. सः घटस्योपरि अतिष्ठत्
  4. घटे अल्पं जलं आसीत्
  5. तेन विचारितं यत् उद्यमेन हि कार्याणि सिद्ध्यन्ति
  6. तेन एकोपायः चिन्तितः, पाषाणखण्डानि च आनि तानि
  7. तानि पाषाणखण्डानि घटे अक्षिपत्
  8. घटस्य जलं उपरि आगतवान्
  9. जलं पीत्वा सन्तुष्टः अभवत्।

(5)
क्रमरहितवाक्यानि

  1. कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिका सरलतया त्रोटितवन्तः
  2. चतुषु न कोऽपि पुत्रः यष्टिकापुञ्ज त्रोटयितुम् अशकत्
  3. कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
  4. एकैकं पुत्रम् आहूय सः तं यष्टिका पुञ्ज त्रोटयितुं कथयति
  5. सत्यमेव कथ्यते यत् ‘संगठने शक्तिः कलौ युगे’
  6. प्रत्येकं पुत्रः सरलतया यष्टिकाः त्रोटयति
  7. तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटयेयुः
  8. तदा ते ज्ञातवन्तः यत् यदि ते संगठने स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति।
    अथवा
  1. चतुषु न कोऽपि पुत्रः यष्टिकापुञ्ज त्रोटयितुम् अशकत्
  2. कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
  3. कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिको सरलतया त्रोटितवन्तः
  4. एकैकं पुत्रम् आहूय सः तं यष्टिका-पुञ्ज त्रोटयितुं कथयति
  5. सत्यमेव कथ्यते यत् ‘संघे शक्ति: कलौ युगे’
  6. प्रत्येकं पुत्रः सरलतया यष्टिकाः त्रोटयति
  7. तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिकां त्रोटयेयुः
  8. तदा ते ज्ञातवन्तः यत् यदि ते संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति

उत्तर:
क्रमायोजनम्

  1. कृषकस्य चत्वारः पुत्राः सर्वदा परस्परं कलहं कुर्वन्ति स्म
  2. एकैकं पुत्रम् आहूय सः तं यष्टिका-पुञ्ज त्रोटयितुं कथयति
  3. चतुषु न कोऽपि पुत्रः यष्टिका-पुञ्ज त्रोटयितुम् अशकत्
  4. तदा सः कृषकः तान् पुत्रान् कथयति यत् ते एकैकां यष्टिका त्रोटयेयुः
  5. प्रत्येकं पुत्रः सरलतया यष्टिका: त्रोटयति
  6. कृषकः पुत्रेभ्यः कथयति यत् ते एकैकां यष्टिकां सरलतया त्रोटितवन्तः
  7. तदा ते ज्ञातवन्तः यत् यदि ते संघे स्थिताः भविष्यन्ति तदा शक्तिसम्पन्नाः भविष्यन्ति।
  8. सत्यमेव कथ्यते यत् ‘संघ/संगठने शक्तिः कलौ युगे’।

(6)
क्रमरहितवाक्यानि

  1. राजकोटात् मैट्रिकपरीक्षाम् उत्तीर्य सः उच्चशिक्षायै इंग्लैण्डदेशम् अगच्छत्
  2. गान्धिनः जन्म पोरबन्दरनगरे अक्तूबरमासस्य द्वितीयतारिकायाम् 1869 तमे अब्दे अभवत्
  3. तत्र भारतीयानाम् उद्धराय सः महान्तं प्रयत्नम् अकरोत्
  4. अस्य माता ‘पुतलीबाई’ आसीत् जनकःच श्रीकर्मचन्दगान्धी
  5. तत्र वाक्कीलपरीक्षाम् उत्तीर्य सः भारतं प्रत्यागच्छत्
  6. भारते कंचित्कालं कार्यं कृत्वा असौ एकस्मिन् अभियोगे दक्षिणाफ्रीकाभू खण्डम् अगच्छत्
  7. भारतदेशेऽपि सः शोषितानां दलितानां च उद्धारमकरोत्।
  8. महात्मागाँधी अस्माकं राष्ट्रपिता अस्ति

उत्तर:
क़मायोजनम्।

  1. महात्मागाँधी अस्माकं राष्ट्रपिता अस्ति
  2. गान्धिनः जन्म पोरबन्दरनगरे अक्तूबरमासस्य द्वितीयतारिकायाम् 1869 तमे अब्दे अभवत्
  3. अस्य माता ‘पुतलीबाई’ आसीत् जनकः च श्रीकर्मचन्दगान्धी
  4. राजकोटात् मैट्रिकपरीक्षाम् उत्तीर्य सः उच्चशिक्षायै इंग्लैण्डदेशम् अगच्छत्
  5. तत्र वाक्कीलपरीक्षाम् उत्तीर्य सः भारतं प्रत्यागच्छत्
  6. भारते कं चित्काल कार्यं कृत्वा असौ एकस्मिन् अभियोगे दक्षिणाफ्रीकाभूखण्डम् अगच्छत्
  7. तत्र भारतीयानाम् उद्धराय सः महान्तं प्रयत्नम् अकरोत्
  8. भारतदेशेऽपि सः शोषितानां दलितानां च उद्धारमकरोत्।

(7)
क्रमरहितवाक्यानि

  1. काकः तद् जलं यथेच्छमपिबत्
  2. जलं उपरि अभवत्
  3. पिपासया पीडितः एकः काकः आसीत्
  4. जलकुम्भे स्वल्पं जलमासीत्
  5. एकस्मिन् उद्याने जलकुम्भं अपश्यत्
  6. सः चञ्च्वा पाषाण खण्डानि जलकुम्भे अपातयत्
  7. सः चञ्च्वा जलं पातुं न अशक्नोत्।
  8. सः तत्र पाषाण खण्डानि अपश्यत्

उत्तर:
क्रमायोजनम्

  1. पिपासया पीडितः एकः काकः आसीत्
  2. एकस्मिन् उद्याने जलकुम्भम् अपश्यत्।
  3. जलकुम्भे स्वल्पं जलमासीत्
  4. सः चञ्च्वी जलं पातुं नाशक्नोत्
  5. सः तत्र पाषाण खण्डानि अपश्यत्
  6. सः चञ्चुवा पाषाण खण्डानि जलकुम्भे अपातयत्
  7. जलं उपरि अभवत्
  8. काकः तद् जलं यथेच्छमपिबत्।

(8)
क्रमरहितवाक्यानि

  1. अस्ति धने कतिपया लवङ्गान् आदाय सः गुरुसेवायाम् उपस्थितः अभवत्
  2. विविधेषु नगरेषु तीर्थेषु च गुरुम् अमार्गयत्
  3. गुरुः अवदत्-”अहं त्वत् लवङ्गान् च ग्रहीष्यामियदि त्वं माम् प्रसादयितुम् इच्छसि, तर्हि वेदानां प्रचारं कुरु।”
  4. अन्ततो मथुरायां विरजानन्दस्य साक्षात्कारः अभवत्
  5. गुरुम् अन्वेष्टुं मूलशंकरः गृहात् निर्गतः
  6. सम्पन्ने अध्ययने दयानन्दः गुरोः पाश्र्वे गुरुदक्षिणां दातुं गतः
  7. एकदा तस्य मनसि गुरुर्विषये जिज्ञासा जाता।
  8. मूलशंकरः एकः जिज्ञासुः जनः आसीत्

उत्तर:
क्रमायोजनम्

  1. मूलशंकरः एकः जिज्ञासुः जनः आसीत्
  2. एकदा तस्य मनसि गुरुर्विषये जिज्ञासा जाता
  3. गुरुम् अन्वेष्टुं मूलशंकरः गृहात् निर्गतः
  4. विविधेषु नगरेषु तीर्थेषु च गुरुम् अमार्गयत्
  5. अन्ततो मथुरायां विरजानन्दस्य साक्षात्कारः अभवत्
  6. सम्पन्ने अध्ययने दयानन्दः गुरोः पार्वे गुरुदक्षिणां दातुं गतः
  7. अस्ति धने कतिपयान् लवङ्गान् आदाय सः गुरुसेवायाम् उपस्थितः अभवत्
  8. गुरुः अवदत्-”अहं त्वत् लवङ्गान् च ग्रहीष्यामियदि त्वं माम्। प्रसादयितुम् इच्छसि, तर्हि वेदानां प्रचारं कुरु।”

(9)
क्रमरहितवाक्यानि

  1. एकदा शशकः विलम्बेन सिंहस्य समीपमगच्छत्
  2. तदा शशकः सिंह कूपस्य समीपमनयत्
  3. दुर्दान्तः कूपे अकूर्दत् पञ्चत्वं चागच्छत्
  4. कस्मिश्चिदरण्ये दुर्दान्तो नाम सिंहः प्रतिवसति स्म
  5. सर्वे पशवः एकं पशु सिंहस्य भोजनाय प्रेषयन्ति स्म
  6. सः बहून् पशून् हन्ति स्म
  7. जले दुर्दान्तः स्वं प्रतिबिम्बमपश्यत्
  8. सिंह: कुपितोऽभवत्।

उत्तर:
क़मायोजनम्

  1. कस्मिश्चिदरण्ये दुर्दान्तो नाम सिंहः प्रतिवसति स्म
  2. सः बहून् पशून् हन्ति स्म
  3. सर्वे पशवः एकं पशु सिंहस्य भोजनाय प्रेषयन्ति स्म
  4. एकदा शशकः विलम्बेन सिंहस्य समीपमगच्छत्
  5. सिंहः कुपितोऽभवत्
  6. तदा शशकः सिंह कूपस्य समीपमनयत्
  7. जले दुर्दान्तः स्वं प्रतिबिम्बमपश्यत्
  8. दुर्दान्तः कूपे अकूर्दत् पञ्चत्वं चागच्छत्।

(10)
क्रमरहितवाक्यानि

  1. सा च एषा आसीत् यत् यावदहं चित्तौडे स्वाधीनं न कारयिष्यामि तावत् भूमिम् अधिशेष्ये, न च सुवर्णमये पात्रे भोजनं करिष्यामि
  2. यदा महाराजः प्रतापः युवा अभवत् तदा सः स्वजनकस्य नाम्नि ‘उदयपुरम्। नगरम् अस्थापयत्
  3. सिंहासनारोहणसमये प्रतापेन एका प्रतिज्ञा कृता
  4. प्रतापस्य जनकः उदयसिंहः चित्तौडम् रक्षितुम् असमर्थः आसीत्
  5. तत् नगरम् एव सः स्वराजधानीम् अकरोत्
  6. अतः एव तत् यवनानाम् अधिकारे अपतत्
  7. महाराणा प्रतापः उदयसिंहस्य पुत्रः आसीत्।
  8. महाराणा उदयसिंहः चित्तौडस्य राजा आसीत्

उत्तर:
क्रमायोजनम्

  1. महाराणा उदयसिंहः चित्तौडस्य राजा आसीत्
  2. महाराणा प्रतापः उदयसिंहस्य पुत्रः आसीत्
  3. प्रतापस्य जनकः उदयसिंह: चित्तौडम् रक्षितुम् असमर्थः आसीत्
  4. अतः एव तत् यवनानाम् अधिकारे अपतत्
  5. यदा महाराजः प्रतापः युवा अभवत् तदा सः स्वजनकस्य नाम्नि ‘उदयपुरम्’ नगरम् अस्थापयत्
  6. तत् नगरम् एव सः स्वराजधानीम् अकरोत्
  7. सिंहासनारोहणसमये प्रतापेन एका प्रतिज्ञा कृता
  8. सा च एषा आसीत् यत् यावदहं चित्तौडं स्वाधीनं न कारयिष्यामि तावत् भूमिम् अधिशेष्ये, न च सुवर्णमये पात्रे भोजनं करिष्यामि।

(11)
क्रमरहितवाक्यानि

  1. गणनावसरे कश्चिदपि मूर्खः निजं नागणयत्
  2. तेषां नायकः अपृच्छत्-‘अपि सर्वे स्नात्वा आगताः।’
  3. दशमूर्खाः स्नानार्थं नदीमगच्छन्
  4. सर्वे वारं वारं गणयित्वा अवदन्-‘नव एव स्म।’ दशमः नद्यां मग्नः।
  5. यदा पथिकः तानगणयत्-ते दश एव आसन्
  6. तदा पथिकः अवदत्-‘दशमः त्वमसि।’
  7. तदा कश्चित् पथिकः तेषां दु:खस्य कारणमपृच्छत्।
  8. तेषां नायकः पुनर्नव अगणयत्

उत्तर:
क्रमायोजनम्

  1. दशमूर्खाः स्नानार्थं नदीमगच्छन्
  2. तेषां नायकः अपृच्छत्-‘अपि सर्वे स्नात्वा आगताः
  3. गणनावसरे कश्चिदपि मूर्खः निजं नागणयत्
  4. सर्वे वारं वारं गणयित्वा अवदन्-‘नव एव स्म।’ दशमः नद्यां मग्नः
  5. तदा कश्चित् पथिकः तेषां दु:खस्य कारणमपृच्छत्
  6. यदा पथिकः तानगणयत्-ते दश एवं आसन्
  7. तेषां नायकः पुनर्नव अगणयत्
  8. तदा पथिकः अवदत्-‘दशमः त्वमसि।’

(12)
क्रमरहितवाक्यानि

  1. तेन सः शठः व्याघ्रनखैः विदारितः
  2. तदर्थम् सः शिवराजेन सह एकान्ते मिलनेच्छाम् अप्रकटयत्
  3. शिवराजस्य वर्धमानाम् शक्तिम् अवलोक्य बीजापुरनरेशः चिन्तितः अभवत्
  4. शिवराजः तस्य धूर्ततां ज्ञातवान्
  5. तेन एका सेना अफजलखानस्य नेतृत्वे प्रेषिता
  6. अफजलखानः छलेन शिवराजं हन्तुम् ऐच्छत्
  7. तस्य कीर्तिपताका सर्वत्र प्रसृता।
  8. शिवराजः महान् देशभक्तः वीरश्चासीत्

उत्तर:
क़मायोजनम्

  1. शिवराजः महान् देशभक्तः वीरश्चासीत्
  2. तस्य कीर्तिपताका सर्वत्र प्रसृता। शिवराजस्य वर्धमानाम् शक्तिम् अवलोक्य बीजापुरनरेशः चिन्तितः अभवत्
  3. तेन एका सेना अफजलखानस्य नेतृत्वे प्रेषिता
  4. अफजलखानः छलेन शिवराजं हन्तुम् ऐच्छत्
  5. तदर्थम् सः शिवराजेन सह एकान्ते मिलनेच्छाम् अप्रकटयत्
  6. शिवराजः तस्य धूर्ततां ज्ञातवान्
  7. तेन सः शठः व्याघ्रनखैः विदारितः।

(13) क्रमरहितवाक्यानि

  1. एवं तयोः मध्ये विवादः संजातःउभौ वानरस्य समीपमगच्छताम्।
  2. वानरः रोटिकायाः भागद्वयं कृत्वा तुलाकक्षयोः अपातयत्।.
  3. वानरः अकथयत्-‘मया युवयोः कार्यं कृतम् अतः मे शुल्कम् यच्छताम्।’
  4. एकः भागः गुरुतरः आसीत् सः तस्मात् किञ्चिद् गृहीत्वा अखादत्
  5. तौ बुभुक्षितौ गृहं आगच्छताम् अतः परस्परं कलहं न कुर्यात्
  6. तदा अपरः गुरुतरः अतिष्ठत् वानरः तस्मादपि किञ्चिद् ग्रहीत्वा अखादत्
  7. कुत्रचिद् द्वौ मार्जारौ अवसताम् तौ एकां रोटिकां प्राप्नुताम्।
  8. वानरः अवशिष्टामपि रोटिकाम् अखादत्

उत्तर:
क्रमायोजनम्

  1. कुत्रचिद् द्वौ मार्जारौ अवसताम् तौ एकां रोटिकां प्राप्नुताम्
  2. एवं तयोः मध्ये विवादः संजातः उभौ वानरस्य समीपमगच्छताम्
  3. वानरः रोटिकायाः भागद्वयं कृत्वा तुलाकक्षयोः अपातयत्
  4. एकः भागः गुरुतरः आसीत्सः तस्मात् किञ्चिद् गृहीत्वा अखादत्
  5. तदा अपरः गुरुतरः अतिष्ठत् वानरः तस्मादपि किञ्चिद् ग्रहीत्वा अखादत्
  6. वानरः अकथयत्-‘मया युवयोः कार्यं कृतम् अतः मे शुल्कम् यच्छताम्
  7. वानरः अवशिष्टामपि रोटिकाम् अखादत्
  8. तौ बुभुक्षितौ गृहं अगच्छताम् अतः परस्परं कलहं न कुर्यात्।

(14)
क्रमरहितवाक्यानि

  1. ततः ‘ट्रिनिटी कैम्ब्रिज’ इत्यभिधाने विश्वविद्यालये शिक्षा समाप्य स्वदेशम् प्रत्यागच्छत्
  2. जनकोऽस्य पं. मोतीलालनेहरूः प्रयागस्य प्रसिद्धः वाक्कीलः आसीत्
  3. नवम्बरमासस्य चतुर्दशतारिकायां 1889 तमे ख्रिष्टाब्दे प्रयागनगरे जवाहरलालः जन्म लेभे
  4. तत्र ‘हैरो’ नामन्यां शिक्षणसंस्थायाम् प्रवेशम् अलभत
  5. तत्पश्चात् सः स्वपित्री सह आङ्गलदेशं गतः
  6. तस्य प्रयासेन भारतदेशः स्वतंत्रः संजातः
  7. भारतदेशे सः स्वतन्त्रताऽऽन्दोलने अग्रणी आसीत्।
  8. सः भारतस्य प्रथमः प्रधानमंत्री अभवत्

उत्तर:
क्रमायोजनम्

  1. नवम्बरमासस्य चतुर्दशतारिकायां 1889 तमे ख्रिष्टाब्दे प्रयागनगरे जवाहरलालः जन्म लेभे
  2. जनकोऽस्य पं. मोतीलालनेहरूः प्रयागस्य प्रसिद्धः वाक्कीलः आसीत्
  3. तत्पश्चात् सः स्वपित्रा सह आङ्गलदेशं गतः
  4. तत्र ‘हैरो’ नामन्यां शिक्षणसंस्थायाम् प्रवेशम् अलभत
  5. ततः ‘ट्रिनिटी कैम्ब्रिज’ इत्यभिधाने विश्वविद्यालये शिक्षा समाप्य स्वदेशम्। प्रत्यागच्छत्
  6. भारतदेशे सः स्वतन्त्रताऽऽन्दोलने अग्रणी आसीत्
  7. तस्य प्रयासेन भारतदेशः स्वतंत्रः संजातः।
  8. सः भारतस्य प्रथमः प्रधानमंत्री अभवत्।

(15)
क्रमरहितवाक्यानि

  1. नकुलः सर्वं खण्डशः अकरोत्
  2. सः रुधिराप्लावितमुखः स्व व्यापार प्रदर्शनार्थं ब्राह्मण्या समीपमगच्छत्
  3. कस्मिश्चिन्नगरे ब्राह्मणदम्पती निवसतः स्म
  4. नकुलः बालकस्य समीपमागच्छन्तं कृष्णसर्पमपश्यत्
  5. तं नकुलं मृतं दृष्ट्वा ब्राह्मणी परं विषाद्रमगच्छत्
  6. ब्राह्मणी स्वपुत्रस्य रक्षार्थं नकुलं संस्थाप्य स्नातुं गता
  7. ब्राह्मणी अचिन्तयत्-‘नकुलेन मम पुत्रो हतः।’ ब्राह्मणी: क्रोधावेशे नकुलं अहनत्
  8. अनन्तरं सा पुत्रं जीवितं कृष्णसर्प च मृतं पश्यति

उत्तर:
क्रमायोजनम्

  1. कस्मिश्चिन्नगरे ब्राह्मणदम्पती निवसतः स्म
  2. ब्राह्मणी स्वपुत्रस्य रक्षार्थं नकुलं संस्थाप्ये स्नातुं गता
  3. नकुलः बालकस्य समीपमागच्छन्तं कृष्णसर्पमपश्यत्
  4. नकुलः सर्प खण्डशः अकरोत्
  5. सः रुधिराप्लावितमुखः स्व व्यापार प्रदर्शनार्थं ब्राह्मण्या समीपमगच्छत्
  6. ब्राह्मणी अचिन्तयत्-‘नकुलेन मम पुत्रो हतः।’ ब्राह्मणी: क्रोधावेशे नकुलं अहनत्
  7. अनन्तरं सा पुत्रं जीवितं कृष्णसर्प च मृतं पश्यति
  8. तं नकुलं मृतं दृष्ट्वा ब्राह्मणी परं विषादमगच्छत्।

(16)
क्रमरहितवाक्यानि

  1. परं सः पूर्णी शान्तिं न अलभत
  2. तत्कालात् सः बुद्धः इति अभिधानेन प्रख्यातः अभवत्
  3. सिद्धार्थः एकस्यां रजन्याम् सर्वं त्यक्त्वा गृहात् निर्गतः
  4. तत्रे च षड् वर्षाणि यावत् तपः अकरोत्
  5. सः इतस्ततः अभ्रमत्
  6. तेन बौद्धधर्मस्य स्थापना कृता
  7. पञ्चभिः मित्रैः सह सः वर्षत्रयं तपः अचरत्।
  8. अन्ततः च तत्र एवं वटमूले महाबोधम् अलभत

उत्तर:
क्रमायोजनम्

  1. सिद्धार्थः एकस्यां रजन्याम् सर्वं त्यक्त्वा गृहात् निर्गतः
  2. सः इतस्ततः अभ्रमत्
  3. परं सः पूर्णा शान्तिं न अलभत
  4. पञ्चभिः मित्रैः सह सः वर्षत्रयं तपः अचरत्
  5. तत्र च षड् वर्षाणि यावत् तपः अकरोत्।
  6. अन्ततः च तत्र एव वटमूले महाबोधम् अलभत
  7. तत्कालात् सः बुद्धः इति अभिधानेन प्रख्यातः अभवत्
  8. तेन बौद्धधर्मस्य स्थापना कृता।

(17)
क्रमरहितवाक्यानि

  1. तयोरेकः समीपस्थे वृक्षे आरोहत्
  2. द्वितीयः निर्बलत्वात् निःश्वासमवरुध्ये तत्रैव भूमौ शयानः अतिष्ठत्
  3. एकदा द्वौ यात्रिणौ कुत्रचित् गच्छतः स्म
  4. ऋक्षः तं मृतं मत्वा अत्यजत् ऋक्षे गते प्रथमः वृक्षादवातरत्
  5. सः द्वितीयं मित्रम् पृच्छत्-ऋक्षेण तव कर्णे किं कथितम्?
  6. तौ परस्परं विपत्तिसमये अपि साहाय्यं कर्तुं प्रतिज्ञातवन्तौ
  7. द्वितीयः प्रथमं अकथयत् ‘ऋक्षेण कथितं यत् विश्वासघातुकानां विश्वासः नैव कर्त्तव्यः
  8. उभौ वने एकं ऋक्षं अपश्यताम्

उत्तर:
क्रमायोजनम्

  1. एकदा द्वौ यात्रिणौ कुत्रचित् गच्छतः स्म
  2. तौ परस्परं विपत्तिसमये अपि साहाय्यं कर्तुं प्रतिज्ञातवन्तौ
  3. उभौ वने एकं ऋक्षं अपश्यताम्
  4. तयोरेकः समीपस्थे वृक्षे आरोहत्
  5. द्वितीयः निर्बलत्वात् नि:श्वासमवरुध्य तत्रैव भूमौ शयानः अतिष्ठत्
  6. ऋक्षः तं मृतं मत्वा अत्यजत् ऋक्षे गते प्रथमः वृक्षादवातरत्
  7. सः द्वितीयं मित्रम् पृच्छत्-ऋक्षेण तवं कर्णे किं कथितम्?
  8. द्वितीयः प्रथमं अकथयत्-‘ऋक्षेण कथितं यत् विश्वासघातुकानां विश्वासः नैव कर्तव्यः।’

(18)
क्रमरहितवाक्यानि

  1. ततः कंसः तं मथुरायाम्.आह्वयत्
  2. जन्मानन्तरम् एव वसुदेवः तं गोकुलम् अनयत्
  3. कृष्णोऽपि तत्र गत्वा कंसं निहत्य मथुरायाः राज्यं शूरसेनाय समर्पितवान्
  4. श्रीकृष्णस्य जन्म मथुरायां नृपस्य कंसस्य कारागारे अभवत्
  5. परन्तु तेन प्रेषिताः सर्वे दैत्याः कृष्णेन यमपुरं प्रापिताः
  6. तस्य पितुः नाम वसुदेवः आसीत् मातुः च देवकी
  7. आततायी कंस: कृष्णम् हन्तुम् ऐच्छत्।
  8. तत्र नन्दयशोदयोः गृहे तस्य पालपोषणादिकम् अभवत्

उत्तर:
क्रमायोजनम्

  1. श्रीकृष्णस्य जन्म मथुरायां नृपस्य कंसस्य कारागारे अभवत्
  2. तस्य पितुः नाम वसुदेवः आसीत् मातुः च देवकी
  3. जन्मानन्तरम् एव वसुदेवः तं गोकुलम् अनयत्।
  4. तत्र नन्दयशोदयोः गृहे तस्य पालपोषणादिकम् अभवत्
  5. आततायी कंसः कृष्णम् हन्तुम् ऐच्छत्
  6. परन्तु तेन प्रेषिताः सर्वे दैत्याः कृष्णेन यमपुरं प्रापिताः
  7. ततः कंसः तं मथुरायाम् आह्वयत्
  8. कृष्णोऽपि तत्र गत्वा कंसं निहत्य मथुरायाः राज्यं शूरसेनाय समर्पितवान्।

RBSE Solutions for Class 12 Sanskrit

Share this:

  • Click to share on WhatsApp (Opens in new window)
  • Click to share on Twitter (Opens in new window)
  • Click to share on Facebook (Opens in new window)

Related

Filed Under: Class 12

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Recent Posts

  • RBSE Class 5 Hindi रचना पत्र लेखन
  • RBSE Solutions for Class 9 Science Chapter 2 पदार्थ की संरचना एवं अणु
  • RBSE Solutions for Class 5 Hindi परिवेशीय सजगता
  • RBSE Solutions for Class 5 Hindi Chapter 14 स्वर्ण नगरी की सैर
  • RBSE Solutions for Class 5 Hindi Chapter 17 चुनाव प्रक्रिया कब, क्या व कैसे?
  • RBSE Class 5 Hindi व्याकरण
  • RBSE Solutions for Class 5 Hindi Chapter 16 दृढ़ निश्चयी सरदार
  • RBSE for Class 5 English Vocabulary One Word
  • RBSE Solutions for Class 5 Environmental Studies Manachitr
  • RBSE Solutions for Class 9 Maths Chapter 1 वैदिक गणित Additional Questions
  • RBSE Class 5 English Vocabulary Road Safety

Footer

RBSE Solutions for Class 12
RBSE Solutions for Class 11
RBSE Solutions for Class 10
RBSE Solutions for Class 9
RBSE Solutions for Class 8
RBSE Solutions for Class 7
RBSE Solutions for Class 6
RBSE Solutions for Class 5
RBSE Solutions for Class 12 Maths
RBSE Solutions for Class 11 Maths
RBSE Solutions for Class 10 Maths
RBSE Solutions for Class 9 Maths
RBSE Solutions for Class 8 Maths
RBSE Solutions for Class 7 Maths
RBSE Solutions for Class 6 Maths
RBSE Solutions for Class 5 Maths
RBSE Class 11 Political Science Notes
RBSE Class 11 Geography Notes
RBSE Class 11 History Notes

Copyright © 2025 RBSE Solutions