Rajasthan Board RBSE Class 8 Sanskrit रचना वाक्यक्रम-संयोजनम्
[ध्यातव्य- कक्षा अष्टम् के नवीन पाठ्यक्रमानुसार एवं ब्लू प्रिन्ट के अनुसार घटनाक्रमानुसार वाक्य-संयोजन से सम्बन्धित एक प्रश्न पूछा जाता है। इसमें पाँच वाक्य क्रमरहित होते हैं, उन्हें घटनाक्रम के अनुसार क्रमबद्ध करके लिखना होता है। पाठ्यपुस्तक की कथाओं में से वाक्यक्रम-संयोजन से सम्बन्धित प्रश्नोत्तर छात्रों के अभ्यासार्थ सम्बन्धित पाठ के अन्य महत्त्वपूर्ण प्रश्नों में दिये जा चुके हैं। यहाँ अन्य महत्त्वपूर्ण सुपरिचित कथाओं में से वाक्य क्रम-संयोजन के प्रश्नोत्तर अभ्यासार्थ दिये जा रहे हैं।]
घटनाक्रमानुसारं वाक्यानि लिखतप्रश्न-
प्रश्न 1.
- सः गृहात् निर्गत्य वने कठिनं तपः अकरोत्।
- तत्र स एकं वृद्धं, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्।
- राज्ञः शुद्धोदनस्य सुपुत्र: सिद्धार्थ: आसीत्।
- एतान् दृष्ट्वा तस्य मनसि वैराग्यम् उत्पन्नम् अभवत्।
- एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः। अगच्छत्।
उत्तर:
क्रमानुसारं वाक्य-संयोजनम्
- राज्ञः शुद्धोदनस्य सुपुत्रः सिद्धार्थः आसीत्।
- एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्।
- तत्र सः एकं वृद्धं, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्।
- एतान् दृष्ट्वा तस्य मनसि वैराग्यम् उत्पन्नम् अभवत्।
- स: गृहात् निर्गत्य वने कठिनं तपः अकरोत्।
प्रश्न 2.
- निजमातुः प्रेरणया ते क्षेत्रेषु बीजानि अवपन्, अनेन प्रभूतं धान्यमभवत्।
- वृद्धः कृषकः स्वपुत्रान् अकथयत्-मम क्षेत्रेषु गुप्तं धनं वर्तते।
- ते कृषिकायें पितुः सहयोगं न अकुर्वन्।
- एकस्य कृषकस्य चत्वारः पुत्रा: अलसाः आसन्।
- ते निजपितुः मृत्यो: पश्चात् निजक्षेत्रान्। अकर्षन्, परं सुगुप्तं धनं न लब्धम्।
उत्तर:
वाक्य-संयोजनम्
- एकस्य कृषकस्य चत्वारः पुत्रा: अलसा: आसन्।
- ते कृषिकायें पितुः सहयोगं न अकुर्वन्।
- वृद्धः कृषकः स्वपुत्रान् अकथयत्-मम क्षेत्रेषु गुप्तं धनं वर्तते।
- ते निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्, परं सुगुप्तं धनं न लब्धम्।
- निजमातुः प्रेरणया ते क्षेत्रेषु बीजानि अवपन्, अनेन प्रभूतं धान्यमभवत्।
प्रश्न 3.
- बकः कलशात् चञ्च्चा क्षीरोदनं खादति।
- बकः केवलं क्षीरोदनं पश्यति।
- कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति।
- एकस्मिन् वने शृगालः बकः च निवसतः स्म।
- बकस्य निमन्त्रेण शृगालः प्रसन्नः अभवत्।
उत्तर:
वाक्य-संयोजनम्
- एकस्मिन् वने शृगालः बकः च निवसतः स्म।
- कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति।
- बकः केवलं क्षीरोदनं पश्यति शृगालः तु सर्वं क्षीरोदनं अभक्षयत्।
- बकस्य निमन्त्रणेन शृगालः प्रसन्नः अभवत्।
- बकः कलशात् चञ्च्वा क्षीरोदनं खादति।
प्रश्न 4.
- दारिद्र्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्।
- दरिद्रः सुदामा श्रीकृष्णस्य मित्रम् आसीत्।
- श्रीकृष्णः सुदाम्नः भार्यया प्रदत्तान् तण्डुलान् अखादत्।
- द्वाररक्षकाः तं राजसभाम् अनयन्।
- सः श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्।
उत्तर:
वाक्य-संयोजनम्
- दरिद्रः सुदामा श्रीकृष्णस्य मित्रम् आसीत्।
- स: श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्।
- द्वाररक्षकाः तं राजसभाम् अनयन्।
- श्रीकृष्ण सुदाम्नः भार्यया प्रदत्तान् तण्डुलान् अखादत्।
- दारिद्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्।
प्रश्न 5.
- कश्चित् मकरः अपि तस्यां नद्यामवसत्।
- यः ईदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति।
- एकस्मिन् नदीतटे जम्बूवृक्षे एकः वानरः प्रतिवसति स्म।
- सः नित्यं जम्बूफलानि खादति स्म।
- वानरः प्रतिदिनं तस्मै जम्बूफलान्ययच्छत्।

प्रश्न 6.
- भीतः व्याधः समीपे विद्यमानं वृक्षम् आरूढवान्।
- एकदा व्याधः अरण्ये मार्गभ्रष्टः अभवत्।
- सः प्रतिदिनम् अरण्ये आखेटं करोति स्म।
- तदा अकस्मात् कश्चन व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्।
- कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत्।
उत्तर:
वाक्य-संयोजनम्
- कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत्।
- सः प्रतिदिनम् अरण्ये आखेटं करोति स्म।
- एकदा व्याधः अरण्ये मार्गभ्रष्टः अभवत्।
- तदा अकस्मात् कश्चन् व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्।
- भीतः व्याधः समीपे विद्यमानं वृक्षम् आरूढवान्।
Leave a Reply